अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒ताऽन्न॑-का॒मोऽन्नं॒ ॅवै म॒रुतो॑म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒दए॒व भ॑वति॒ पृश्नि॑ र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व - [ ]
पदपाठः (Word-by-word)
अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । श्या॒मः । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मा॒रु॒तम् । पृश्नि᳚म् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । अन्न᳚म् । वै । म॒रुतः॑ । म॒रुतः॑ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । पृश्निः॑ । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ऐ॒न्द्रम् । अ॒रु॒णम् । एति॑ । ल॒भे॒त॒ । इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ । इन्द्र᳚म् । ए॒व ।