काण्डम् 2 - प्रश्नः 4

Kanda 2, Prasna 4

14 अनुवाकाः | 48 पञ्चाशत्

प्रश्नः 4 - Complete Audio Recording

॥

अनुवाकः 1 (4 पञ्चाशत्)

TS 2.4.1.1 TS 2.4.1.1
दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाꣳ॑सि पिशा॒चास्ते᳚ ऽन्यत॒स्तेषां᳚ दे॒वाना॑मु॒त यदल्पं॒ ॅलोहि॑त॒मकु॑र्व॒न् तद्-रक्षाꣳ॑सि॒ रात्री॑भिरसुभ्न॒न् तान्थ् सु॒ब्धान् मृ॒तान॒भि व्यौ᳚च्छ॒त् ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयं म्रि॒यते॒ रक्षाꣳ॑सि॒ वा इ॒मं घ्न॒न्तीति॒ ते रक्षाꣳ॒॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्. वरं॑ ॅवृणामहै॒ य - [ ]
▶ पदपाठः (Word-by-word)
दे॒वाः । म॒नु॒ष्याः᳚ । पि॒तरः॑ । ते । अ॒न्यतः॑ । आ॒स॒न्न् । असु॑राः । रक्षाꣳ॑सि । पि॒शा॒चाः । ते । अ॒न्यतः॑ । तेषा᳚म् । दे॒वाना᳚म् । उ॒त । यत् । अल्प᳚म् । लोहि॑तम् । अकु॑र्वन्न् । तत् । रक्षाꣳ॑सि । रात्री॑भि॒रिति॒ रात्रि॑-भिः॒ । अ॒सु॒भ्न॒न्न् । तान् । सु॒ब्धान् । मृ॒तान् । अ॒भि । वीति॑ । औ॒च्छ॒त् । ते । दे॒वाः । अ॒वि॒दुः॒ । यः । वै । नः॒ । अ॒यम् । म्रि॒यते᳚ । रक्षाꣳ॑सि । वै । इ॒मम् । घ्न॒न्ति॒ । इति॑ । ते । रक्षाꣳ॑सि । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । तानि॑ । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । यत् ।
पदसंख्या: 50
TS 2.4.1.2 TS 2.4.1.2
-दसु॑रा॒न् जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न् तेऽसु॑रान् जि॒त्वारक्षाꣳ॒॒स्यपा॑नुदन्त॒ तानि॒ रक्षाꣳ॒॒स्यनृ॑तम क॒र्तेति॑ सम॒न्तं दे॒वान् पर्य॑विश॒न् ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒. यान्ये॒व पु॒रस्ता॒द्-रक्षाꣳ॒॒स्या - [ ]
▶ पदपाठः (Word-by-word)
असु॑रान् । जया॑म । तत् । नः॒ । स॒ह । अ॒स॒त् । इति॑ । ततः॑ । वै । दे॒वाः । असु॑रान् । अ॒ज॒य॒न्न् । ते । असु॑रान् । जि॒त्वा । रक्षाꣳ॑सि । अपेति॑ । अ॒नु॒द॒न्त॒ । तानि॑ । रक्षाꣳ॑सि । अनृ॑तम् । अ॒क॒र्त॒ । इति॑ । स॒म॒न्तमिति॑ सं - अ॒न्तम् । दे॒वान् । परीति॑ । अ॒वि॒श॒न्न् । ते । दे॒वाः । अ॒ग्नौ । अ॒ना॒थ॒न्त॒ । ते । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । अ॒व॒प॒न्न् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यत् । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । नि॒रव॑प॒न्निति॑ निः - अव॑पन्न् । यानि॑ । ए॒व । पु॒रस्ता᳚त् । रक्षाꣳ॑सि ।
पदसंख्या: 50
TS 2.4.1.3 TS 2.4.1.3
-स॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाꣳ॒॒स्यास॒न् तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्-रक्षाꣳ॒॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒ - [ ]
▶ पदपाठः (Word-by-word)
आसन्न्॑ । तानि॑ । तेन॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ । यत् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । यानि॑ । ए॒व । अ॒भितः॑ । रक्षाꣳ॑सि । आसन्न्॑ । तानि॑ । तेन॑ । वीति॑ । अ॒बा॒ध॒न्त॒ । यत् । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यानि॑ । ए॒व । प॒श्चात् । रक्षाꣳ॑सि । आसन्न्॑ । तानि॑ । तेन॑ । अपेति॑ । अ॒नु॒द॒न्त॒ । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ ।
पदसंख्या: 50
TS 2.4.1.4 TS 2.4.1.4
ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्-भ्रातृ॑व्य॒स्तं तेन॒ प्रणु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त् पापी॑या॒न् तं तेनाप॑ नुदते॒ प्र श्रेयाꣳ॑सं॒ भ्रातृ॑व्यं नुद॒तेति॑ स॒दृशं॑ क्रामति॒ नैनं॒ पापी॑यानाप्नोति॒ य ए॒वं ( ) ॅवि॒द्वाने॒तयेष्‌ट्या॒ यज॑ते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नय᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यत् । अ॒ग्नये᳚ । प्रव॑त॒ इति॒ प्र - व॒ते॒ । नि॒र्वप॒तीति॑ निः - वप॑ति । यः । ए॒व । अ॒स्मा॒त् । श्रेयान्॑ । भ्रातृ॑व्यः । तम् । तेन॑ । प्रेति॑ । नु॒द॒ते॒ । यत् । अ॒ग्नये᳚ । वि॒बा॒धव॑त॒ इति॑ विबा॒ध - व॒ते॒ । यः । ए॒व । ए॒ने॒न॒ । स॒दृङ्ङिति॑ स - दृङ् । तम् । तेन॑ । वीति॑ । बा॒ध॒ते॒ । यत् । अ॒ग्नये᳚ । प्रती॑कवत॒ इति॒ प्रती॑क - व॒ते॒ । यः । ए॒व । अ॒स्मा॒त् । पापी॑यान् । तम् । तेन॑ । अपेति॑ । नु॒द॒ते॒ । प्रेति॑ । श्रेयाꣳ॑सम् । भ्रातृ॑व्यम् । नु॒द॒ते॒ । अतीति॑ । स॒दृश᳚म् । क्रा॒म॒ति॒ । न । ए॒न॒म् । पापी॑यान् । आ॒प्नो॒ति॒ । यः । ए॒वम् ( ) । वि॒द्वान् । ए॒तया᳚ । इष्ट्या᳚ । यज॑ते ॥
पदसंख्या: 54

अनुवाकः 2 (4 पञ्चाशत्)

TS 2.4.2.1 TS 2.4.2.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् ते दे॒वा अ॑ब्रुव॒न्॒. यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न् त्वं ॅवै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो᳚ऽब्रवीत् ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथा-सु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमꣳ॑ हो॒मुगि॒यं ॅवि॑मृ॒धेयमि॑न्द्रि॒याव॒ती - [ ]
▶ पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । यः । नः॒ । वी॒र्या॑वत्तम॒ इति॑ वी॒र्या॑वत् - त॒मः॒ । तम् । अन्विति॑ । स॒मार॑भामहा॒ इति॑ सं - आर॑भामहै । इति॑ । ते । इन्द्र᳚म् । अ॒ब्रु॒व॒न्न् । त्वम् । वै । नः॒ । वी॒र्या॑वत्तम॒ इति॑ वी॒र्या॑वत् - त॒मः॒ । अ॒सि॒ । त्वाम् । अन्विति॑ । स॒मार॑भामहा॒ इति॑ सं-आर॑भामहै । इति॑ । सः । अ॒ब्र॒वी॒त् । ति॒स्रः । मे॒ । इ॒माः । त॒नुवः॑ । वी॒र्या॑वती॒रिति॑ वी॒र्य॑ - व॒तीः॒ । ताः । प्री॒णी॒त॒ । अथ॑ । असु॑रान् । अ॒भीति॑ । भ॒वि॒ष्य॒थ॒ । इति॑ । ताः । वै । ब्रू॒हि॒ । इति॑ । अ॒ब्रु॒व॒न्न् । इ॒यम् । अꣳ॒॒हो॒मुगित्यꣳ॑हः -मुक् । इ॒यम् । वि॒मृ॒धेति॑ वि - मृ॒धा । इ॒यम् । इ॒न्द्रि॒याव॒तीती᳚न्द्रि॒य - व॒ती॒ ।
पदसंख्या: 50
TS 2.4.2.2 TS 2.4.2.2
-त्य॑ब्रवी॒त्त इन्द्रा॑याꣳ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वप॒न्निन्द्रा॑य वैमृ॒धाये-न्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याꣳ हो॒मुचे॑ नि॒रव॑प॒न्नꣳह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वै मृ॒धाय॒ मृध॑ ए॒व तेनापा᳚घ्नत॒यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒*ऽऽत्मन्न॑दधत॒ त्रय॑स्त्रिꣳशत्कपालं पुरो॒डाशं॒ निर॑वप॒न् त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑भंयत॒ भूत्यै॒ - [ ]
▶ पदपाठः (Word-by-word)
इति॑ । अ॒ब्र॒वी॒त् । ते । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । पु॒रो॒डाश᳚म् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । निरिति॑ । अ॒व॒प॒न्न् । इन्द्रा॑य । वै॒मृ॒धाय॑ । इन्द्रा॑य । इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ । यत् । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । नि॒रव॑प॒न्निति॑ निः - अव॑पन्न् । अꣳह॑सः । ए॒व । तेन॑ । अ॒मु॒च्य॒न्त॒ । यत् । इन्द्रा॑य । वै॒मृ॒धाय॑ । मृधः॑ । ए॒व । तेन॑ । अपेति॑ । अ॒घ्न॒त॒ । यत् । इन्द्रा॑य । इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ । इ॒न्द्रि॒यम् । ए॒व । तेन॑ । आ॒त्मन्न् । अ॒द॒ध॒त॒ । त्रय॑स्त्रिꣳशत्कपाल॒मिति॒ त्रय॑स्त्रिꣳशत् - क॒पा॒ल॒म् । पु॒रो॒डाश᳚म् । निरिति॑ । अ॒व॒प॒न्न् । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । ताः । इन्द्रः॑ । आ॒त्मन्न् । अन्विति॑ । स॒मार॑भंय॒तेति॑ सं - आर॑भंयत । भूत्यै᳚ ।
पदसंख्या: 50
TS 2.4.2.3 TS 2.4.2.3
तां ॅवाव दे॒वा विजि॑ति-मुत्त॒मा-मसु॑रै॒-र्व्य॑जयन्त॒यो भ्रातृ॑व्यवा॒न्थ्- स्याथ् स स्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजे॒तेन्द्रा॑याꣳ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽꣳ ह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न् भ्रातृ॑व्यो॒यदिन्द्रा॑याꣳ हो॒मुचे॑ नि॒र्वप॒त्यꣳह॑स ए॒व तेन॑ मुच्यतेमृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा᳚थ् समा॒नेष्व॒न्यः श्रेया॑नु॒ता - [ ]
▶ पदपाठः (Word-by-word)
ताम् । वाव । दे॒वाः । विजि॑ति॒मिति॒ वि - जि॒ति॒म् । उ॒त्त॒मामित्यु॑त् - त॒माम् । असु॑रैः । वीति॑ । अ॒ज॒य॒न्त॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । पु॒रो॒डाश᳚म् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । इन्द्रा॑य । वै॒मृ॒धाय॑ । इन्द्रा॑य । इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ । अꣳह॑सा । वै । ए॒षः । गृ॒ही॒तः । यस्मा᳚त् । श्रेयान्॑ । भ्रातृ॑व्यः । यत् । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । नि॒र्वप॒तीति॑ निः - वप॑ति । अꣳह॑सः । ए॒व । तेन॑ । मु॒च्य॒ते॒ । मृ॒धा । वै । ए॒षः । अ॒भिष॑ण्ण॒ इत्य॒भि - स॒न्नः॒ । यस्मा᳚त् । स॒मा॒नेषु॑ । अ॒न्यः । श्रेयान॑ । उ॒त ।
पदसंख्या: 50
TS 2.4.2.4 TS 2.4.2.4
-ऽभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन् ध॑त्ते॒ त्रय॑स्त्रिꣳशत्कपालं पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑भंयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं ॅवि॒द्वाने॒तयेष्‌ट्या॒ यज॑त उत्त॒मामे॒व विजि॑तिं॒ भ्रातृ॑व्येण॒ वि ज॑यते ॥(इ॒न्द्रि॒याव॑ती॒ - भूत्या॑ - उ॒तै - का॒न्न प॑ञ्चा॒शच्च॑)
▶ पदपाठः (Word-by-word)
अभ्रा॑तृव्यः । यत् । इन्द्रा॑य । वै॒मृ॒धाय॑ । मृधः॑ । ए॒व । तेन॑ । अपेति॑ । ह॒ते॒ । यत् । इन्द्रा॑य । इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ । इ॒न्द्रि॒यम् । ए॒व । तेन॑ । आ॒त्मन्न् । ध॒त्ते॒ । त्रय॑स्त्रिꣳशत्कपाल॒मिति॒ त्रय॑स्त्रिꣳशत् - क॒पा॒ल॒म् । पु॒रो॒डाश᳚म् । निरिति॑ । व॒प॒ति॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । ताः । ए॒व । यज॑मानः । आ॒त्मन्न् । अन्विति॑ । स॒मार॑भंयत॒ इति॑ सं - आर॑भंयते । भूत्यै᳚ । सा । वै । ए॒षा । विजि॑ति॒रिति॒ वि - जि॒तिः॒ । नाम॑ । इष्टिः॑ । यः । ए॒वम् । वि॒द्वान् । ए॒तया᳚ । इष्ट्या᳚ । यज॑ते । उ॒त्त॒मामित्यु॑त् - त॒माम् । ए॒व । विजि॑ति॒मिति॒ वि - जि॒ति॒म् । भ्रातृ॑व्येण । वीति॑ । ज॒य॒ते॒ ॥
पदसंख्या: 49

अनुवाकः 3 (3 पञ्चाशत्)

TS 2.4.3.1 TS 2.4.3.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेषां᳚ गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून्थ् स॒गृंह्या॒ *ऽऽदाया॑-प॒क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तां ॅव्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राꣳश्च॒-नोपाव॑र्तत॒ ते दे॒वा ए॒तद्-यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ - [ ]
▶ पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । तेषा᳚म् । गा॒य॒त्री । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र - जाम् । प॒शून् । स॒गृंह्येति॑ सं - गृह्य॑ । आ॒दायेत्या᳚ - दाय॑ । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ते । अ॒म॒न्य॒न्त॒ । य॒त॒रान् । वै । इ॒यम् । उ॒पा॒व॒र्थ्स्यतीत्यु॑प - आ॒व॒र्थ्स्यति॑ । ते । इ॒दम् । भ॒वि॒ष्य॒न्ति॒ । इति॑ । ताम् । वीति॑ । अ॒ह्व॒य॒न्त॒ । विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । इति॑ । दे॒वाः । दाभि॑ । इति॑ । असु॑राः । सा । न । अ॒न्य॒त॒रान् । च॒न । उ॒पाव॑र्त॒तेत्यु॑प - आव॑र्तत । ते । दे॒वाः । ए॒तत् । यजुः॑ । अ॒प॒श्य॒न्न् । ओजः॑ । अ॒सि॒ । सहः॑ । अ॒सि॒ । बल᳚म् । अ॒सि॒ ।
पदसंख्या: 50
TS 2.4.3.2 TS 2.4.3.2
भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून॑वृञ्जत॒ यद्-गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त् तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संॅवथ्स॒रो वै गा॑य॒त्री सं॑ॅवथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्-यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - [ ]
▶ पदपाठः (Word-by-word)
भ्राजः॑ । अ॒सि॒ । दे॒वाना᳚म् । धाम॑ । नाम॑ । अ॒सि॒ । विश्व᳚म् । अ॒सि॒ । वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । सर्व᳚म् । अ॒सि॒ । स॒र्वायु॒रिति॑ स॒र्व - आ॒युः॒ । अ॒भि॒भूरित्य॑भि - भूः । इति॑ । वाव । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र-जाम् । प॒शून् । अ॒वृ॒ञ्ज॒त॒ । यत् । गा॒य॒त्री । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अति॑ष्ठत् । तस्मा᳚त् । ए॒ताम् । गा॒य॒त्री । इति॑ । इष्टि᳚म् । आ॒हुः॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । गा॒य॒त्री । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । तत् । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । यत् । ए॒तया᳚ । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् ।
पदसंख्या: 50
TS 2.4.3.3 TS 2.4.3.3
प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑ॅव॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्‌स्याथ् सस्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॑ संॅव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्‌तꣳशृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ 11 (बल॑मस्ये॒ - तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - पञ्च॑चत्वारिꣳशच्च) (आ3)
▶ पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । प॒शून् । अवृ॑ञ्जत । तस्मा᳚त् । ए॒ताम् । सं॒ॅव॒र्ग इति॑ सं - व॒र्गः । इति॑ । इष्टि᳚म् । आ॒हुः॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । अ॒ग्नये᳚ । सं॒ॅव॒र्गायेति॑ सं - व॒र्गाय॑ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । तम् । शृ॒तम् । आस॑न्न॒मित्या - स॒न्न॒म् । ए॒तेन॑ । यजु॑षा । अ॒भीति॑ । मृ॒शे॒त् । ओजः॑ । ए॒व । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र - जाम् । प॒शून् । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ॥
पदसंख्या: 45

अनुवाकः 4 (3 पञ्चाशत्)

TS 2.4.4.1 TS 2.4.4.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ् सृ॒ष्टाः परा॑चीराय॒न् ता यत्राव॑स॒न् ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् ता बृह॒स्पति॑श्चा॒न्ववै॑ताꣳ॒॒ सो᳚ऽब्रवी॒द् बृह॒स्पति॑र॒नया᳚ त्वा॒ प्रति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ तं प्राति॑ष्ठ॒त् ततो॒ वै प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात् तस्मा॑ ए॒तं प्रा॑जाप॒त्यं गा᳚र्मु॒तं च॒रुं निर्व॑पेत् प्र॒जाप॑ति - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ । ताः । अ॒स्मा॒त् । सृ॒ष्टाः । परा॑चीः । आ॒य॒न्न् । ताः । यत्र॑ । अव॑सन्न् । ततः॑ । ग॒र्मुत् । उदिति॑ । अ॒ति॒ष्ठ॒त् । ताः । बृह॒स्पतिः॑ । च॒ । अ॒न्ववै॑ता॒मित्य॑नु - अवै॑ताम् । सः । अ॒ब्र॒वी॒त् । बृह॒स्पतिः॑ । अ॒नया᳚ । त्वा॒ । प्रेति॑ । ति॒ष्ठा॒नि॒ । अथ॑ । त्वा॒ । प्र॒जा इति॑ प्र - जाः । उ॒पाव॑र्थ्स्य॒न्तीत्यु॑प - आव॑र्थ्स्यन्ति । इति॑ । तम् । प्रेति॑ । अ॒ति॒ष्ठ॒त् । ततः॑ । वै । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒जा इति॑ प्र - जाः । उ॒पाव॑र्त॒न्तेत्यु॑प - आव॑र्तन्त । यः । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒तम् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । गा॒र्मु॒तम् । च॒रुम् । निरिति॑ । व॒पे॒त् । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
पदसंख्या: 50
TS 2.4.4.2 TS 2.4.4.2
-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प्रज॑नयतिप्र॒जाप॑तिः प॒शून॑सृजत॒ ते᳚ऽस्माथ् सृ॒ष्टाः परा᳚ञ्च आय॒न् ते यत्राव॑स॒न् ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् तान् पू॒षा चा॒न्ववै॑ताꣳ॒॒ सो᳚ऽब्रवीत् पू॒षाऽनया॑ मा॒ प्रति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ मां प्रति॒ष्ठेति॒ सोमो᳚ऽब्रवी॒न् मम॒ वा - [ ]
▶ पदपाठः (Word-by-word)
ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प्र॒जामिति॑ प्र - जाम् । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प॒शून् । अ॒सृ॒ज॒त॒ । ते । अ॒स्मा॒त् । सृ॒ष्टाः । परा᳚ञ्चः । आ॒य॒न्न् । ते । यत्र॑ । अव॑सन्न् । ततः॑ । ग॒र्मुत् । उदिति॑ । अ॒ति॒ष्ठ॒त् । तान् । पू॒षा । च॒ । अ॒न्ववै॑ता॒मित्य॑नु - अवै॑ताम् । सः । अ॒ब्र॒वी॒त् । पू॒षा । अ॒नया᳚ । मा॒ । प्रेति॑ । ति॒ष्ठ॒ । अथ॑ । त्वा॒ । प॒शवः॑ । उ॒पाव॑र्थ्स्य॒न्तीत्यु॑प - आव॑र्थ्स्यन्ति । इति॑ । माम् । प्रेति॑ । ति॒ष्ठ॒ । इति॑ । सोमः॑ । अ॒ब्र॒वी॒त् । मम॑ । वै ।
पदसंख्या: 50
TS 2.4.4.3 TS 2.4.4.3
अ॑कृष्टप॒च्यमित्यु॒भौ वां॒ प्रति॑ष्ठा॒नीत्य॑ब्रवी॒त् तौ प्राति॑ष्ठ॒त् ततो॒ वै प्र॒जाप॑तिं प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात् तस्मा॑ ए॒तꣳ सो॑मापौ॒ष्णं गा᳚र्मु॒तं च॒रुं निर्व॑पेथ् सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्रज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा ( ) प॒शून् प्रज॑नयति ॥
▶ पदपाठः (Word-by-word)
अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् । इति॑ । उ॒भौ । वा॒म् । प्रेति॑ । ति॒ष्ठा॒नि॒ । इति॑ । अ॒ब्र॒वी॒त् । तौ । प्रेति॑ । अ॒ति॒ष्ठ॒त् । ततः॑ । वै । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प॒शवः॑ । उ॒पाव॑र्त॒न्तेत्यु॑प-आव॑र्तन्त । यः । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒तम् । सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् । गा॒र्मु॒तम् । च॒रुम् । निरिति॑ । व॒पे॒त् । सो॒मा॒पू॒षणा॒विति॑ सोमा - पू॒षणौ᳚ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । ज॒न॒य॒तः॒ । सोमः॑ । वै । रे॒तो॒धा इति॑ रेतः - धाः । पू॒षा । प॒शू॒नाम् । प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता । सोमः॑ । ए॒व । अ॒स्मै॒ । रेतः॑ । दधा॑ति । पू॒षा ( ) । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ ॥
पदसंख्या: 53

अनुवाकः 5 (2 पञ्चाशत्)

TS 2.4.5.1 TS 2.4.5.1
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्‌ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥ येन॑ दे॒वा अ॒मृतं॑ - [ ]
▶ पदपाठः (Word-by-word)
अग्ने᳚ । गोभिः॑ । नः॒ । एति॑ । ग॒हि॒ । इन्दो॒ इति॑ । पु॒ष्ट्या । जु॒ष॒स्व॒ । नः॒ ॥ इन्द्रः॑ । ध॒र्ता । गृ॒हेषु॑ । नः॒ ॥ स॒वि॒ता । यः । स॒ह॒स्रियः॑ । सः । नः॒ । गृ॒हेषु॑ । रा॒र॒ण॒त् ॥ एति॑ । पू॒षा । ए॒तु॒ । एति॑ । वसु॑ ॥ धा॒ता । द॒दा॒तु॒ । नः॒ । र॒यिम् । ईशा॑नः । जग॑तः । पतिः॑ ॥ सः । नः॒ । पू॒र्णेन॑ । वा॒व॒न॒त् ॥ त्वष्टा᳚ । यः । वृ॒ष॒भः । वृषा᳚ । सः । नः॒ । गृ॒हेषु॑ । रा॒र॒ण॒त् ॥ स॒हस्रे॑ण । अ॒युते॑न । च॒ । येन॑ । दे॒वाः । अ॒मृत᳚म् ।
पदसंख्या: 50
TS 2.4.5.2 TS 2.4.5.2
दी॒र्घꣳ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां᳚ कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ॥ अ॒ग्नि र्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा᳚ ॥ अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्‌ठ्या᳚त्प॒थो मा यो॑षं मू॒र्द्धा भू॑यासꣳ॒॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
दी॒र्घम् । श्रवः॑ । दि॒वि । ऐर॑यन्त ॥ रायः॑ । पो॒ष॒ । त्वम् । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । गवा᳚म् । कु॒ल्मिम् । जी॒वसे᳚ । एति॑ । यु॒व॒स्व॒ ॥ अ॒ग्निः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । सोमः॑ । वि॒श्व॒वनि॒रिति॑ विश्व - वनिः॑ । स॒वि॒ता । सु॒मे॒धा इति॑ सु-मे॒धाः । स्वाहा᳚ ॥ अग्ने᳚ । गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । यः । ते॒ । घृत्यः॑ । भा॒गः । तेन॑ । सहः॑ । ओजः॑ । आ॒क्रम॑माणा॒येत्या᳚-क्रम॑माणाय । धे॒हि॒ । श्रष्ठ्या᳚त् । प॒थः । मा । यो॒ष॒म् । मू॒र्द्धा । भू॒या॒स॒म् । स्वाहा᳚ ॥
पदसंख्या: 38

अनुवाकः 6 (2 पञ्चाशत्)

TS 2.4.6.1 TS 2.4.6.1
चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं ॅवै चि॒त्रा यद्वा अ॒स्यां ॅविश्वं॑ भू॒तमधि॑ प्र॒जाय॑ते॒ ते ने॒यञ्चि॒त्रा य ए॒वं ॅवि॒द्वाꣳ श्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते॒ प्रैवाग्ने॒येन॑ वापयति॒ रेतः॑ सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोतिसारस्व॒तौ भ॑वत ए॒तद्वै दैव्यं॑ मिथु॒नं दैव्य॑मे॒वास्मै॑ - [ ]
▶ पदपाठः (Word-by-word)
चि॒त्रया᳚ । य॒जे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । इ॒यम् । वै । चि॒त्रा । यत् । वै । अ॒स्याम् । विश्व᳚म् । भू॒तम् । अधीति॑ । प्र॒जाय॑त॒ इति॑ प्र - जाय॑ते । तेन॑ । इ॒यम् । चि॒त्रा । यः । ए॒वम् । वि॒द्वान् । चि॒त्रया᳚ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । यज॑ते । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । प्रेति॑ । ए॒व । आ॒ग्ने॒येन॑ । वा॒प॒य॒ति॒ । रेतः॑ । सौ॒म्येन॑ । द॒धा॒ति॒ । रेतः॑ । ए॒व । हि॒तम् । त्वष्टा᳚ । रू॒पाणि॑ । वीति॑ । क॒रो॒ति॒ । सा॒र॒स्व॒तौ । भ॒व॒तः॒ । ए॒तत् । वै । दैव्य᳚म् । मि॒थु॒नम् । दैव्य᳚म् । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
TS 2.4.6.2 TS 2.4.6.2
मिथु॒नं म॑द्ध्य॒तो द॑धाति॒ पुष्‌ट्यै᳚ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै᳚त्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नꣳ स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाꣳ॑स्यु॒-भय॒स्या-व॑रुद्ध्या॒ अथै॒ता आहु॑ती र्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वा ( ) स्मि॒न् पुष्टिं॑ दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑ती र्जु॒होति॒ प्रति॑ष्ठित्यै ॥
▶ पदपाठः (Word-by-word)
मि॒थु॒नम् । म॒द्ध्य॒तः । द॒धा॒ति॒ । पुष्ट्यै᳚ । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । सि॒नी॒वा॒ल्यै । च॒रुः । भ॒व॒ति॒ । वाक् । वै । सि॒नी॒वा॒ली । पुष्टिः॑ । खलु॑ । वै । वाक् । पुष्टि᳚म् । ए॒व । वाच᳚म् । उपेति॑ । ए॒ति॒ । ऐ॒न्द्रः । उ॒त्त॒म इत्यु॑त् - त॒मः । भ॒व॒ति॒ । तेन॑ । ए॒व । तत् । मि॒थु॒नम् । स॒प्त । ए॒तानि॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथ॑ । ए॒ताः । आहु॑ती॒रित्या - हु॒तीः॒ । जु॒हो॒ति॒ । ए॒ते । वै । दे॒वाः । पुष्टि॑पतय॒ इति॒ पुष्टि॑ - प॒त॒यः॒ । ते । ए॒व ( ) । अ॒स्मि॒न्न् । पुष्टि᳚म् । द॒ध॒ति॒ । पुष्य॑ति । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । अथो॒ इति॑ । यत् । ए॒ताः । आहु॑ती॒रित्या - हु॒तीः॒ । जु॒होति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 62

अनुवाकः 7 (2 पञ्चाशत्)

TS 2.4.7.1 TS 2.4.7.1
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धारां᳚ भिन्धि र॒मय॑त मरुतः श्ये॒नमा॒यिनं॒ मनो॑जव सं॒ ॅवृष॑णꣳ सुवृ॒क्तिं ॥ येन॒ शर्द्ध॑ उ॒ग्रमव॑-सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तꣳ स्व॒स्ति । पु॒रो॒वा॒तो वर्.ष॑ञ्जि॒न्वरा॒वृथ्-स्वाहा॑ वा॒तावद्- वर्.ष॑न्नु॒ग्ररा॒वृथ् स्वाहा᳚ स्त॒नय॒न् वर्.ष॑न् भी॒मरा॒वथ्‌स्वाहा॑ ऽनश॒न्य॑व॒स्फूर्ज॑न्-दि॒द्युद्-वर्.ष॑न्-त्वे॒षरा॒वृथ् स्वाहा॑ ऽतिरा॒त्रं॒ ॅवर्.ष॑न् पू॒र्तिरा॒वृथ् - [ ]
▶ पदपाठः (Word-by-word)
मा॒रु॒तम् । अ॒सि॒ । म॒रुता᳚म् । ओजः॑ । अ॒पाम् । धारा᳚म् । भि॒न्धि॒ । र॒मय॑त । म॒रु॒तः॒ । श्ये॒नम् । आ॒यिन᳚म् । मनो॑जवस॒मिति॒ मनः॑ - ज॒व॒स॒म् । वृष॑णम् । सु॒वृ॒क्तिमिति॑ सु - वृ॒क्तिम् ॥ येन॑ । शर्द्धः॑ । उ॒ग्रम् । अव॑सृष्ट॒मित्यव॑ - सृ॒ष्ट॒म् । एति॑ । तत् । अ॒श्वि॒ना॒ । परीति॑ । ध॒त्त॒म् । स्व॒स्ति ॥ पु॒रो॒वा॒त इति॑ पुरः - वा॒तः । वर्.षन्न्॑ । जि॒न्वः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । वा॒ताव॒दिति॑ वा॒त - व॒त् । वर्.षन्न्॑ । उ॒ग्रः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । स्त॒नयन्न्॑ । वर्.षन्न्॑ । भी॒मः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । अ॒न॒श॒नि । अ॒व॒स्फूर्ज॒न्नित्य॑व-स्फूर्जन्न्॑ । दि॒द्युत् । वर्.षन्न्॑ । त्वे॒षः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । वर्.षन्न्॑ । पू॒र्तिः । आ॒वृदित्या᳚ - वृत् ।
पदसंख्या: 50
TS 2.4.7.2 TS 2.4.7.2
स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृथ् स्वाहा॒ ऽऽतप॑ति॒ वर्.ष॑न्-वि॒राडा॒वृथ् स्वाहा॑ ऽव॒स्फूर्ज॑न्-दि॒द्युद्-वर्.ष॑न् भू॒तरा॒वृथ् स्वाहा॒मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒-स्तम॑स्वरी॒-रुन्द॑तीः॒ सुफे॑नाः । मित्र॑भृतः॒ क्षत्र॑भृतः॒ सुरा᳚ष्ट्रा इ॒ह मा॑ऽवत ॥वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्‌ट्यै॒ त्वोप॑ नह्यामि ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚ । ब॒हु । ह॒ । अ॒यम् । अ॒वृ॒षा॒त् । इति॑ । श्रु॒तः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । आ॒तप॒तीत्या᳚ - तप॑ति । वर्.षन्न्॑ । वि॒राडिति॑ वि - राट् । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । अ॒व॒स्फूर्ज॒न्नित्य॑व - स्फूर्जन्न्॑ । दि॒द्युद् । वर्.षन्न्॑ । भू॒तः । आ॒वृदित्या᳚ - वृत् । स्वाहा᳚ । मान्दाः᳚ । वाशाः᳚ । शुन्ध्यूः᳚ । अजि॑राः ॥ ज्योति॑ष्मतीः । तम॑स्वरीः । उन्द॑तीः । सुफे॑ना॒ इति॒ सु - फे॒नाः॒ ॥ मित्र॑भृत॒ इति॒ मित्र॑ - भृ॒तः॒ । क्षत्र॑भृत॒ इति॒ क्षत्र॑ - भृ॒तः॒ । सुरा᳚ष्ट्रा॒ इति॒ सु - रा॒ष्ट्राः॒ । इ॒ह । मा॒ । अ॒व॒त॒ ॥ वृष्णः॑ । अश्व॑स्य । स॒दांन॒मिति॑ सं - दान᳚म् । अ॒सि॒ । वृष्ट्यै᳚ । त्वा॒ । उपेति॑ । न॒ह्या॒मि॒ ॥
पदसंख्या: 42

अनुवाकः 8 (2 पञ्चाशत्)

TS 2.4.8.1 TS 2.4.8.1
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य ॥ देवाः᳚ शर्मण्या॒ मित्रा॑वरुणाऽर्यमन्न् ॥ देवाः᳚ सपीत॒यो ऽपा᳚न्-नपादाशुहेमन्न् । उ॒द्नो द॑त्तोद॒धिं भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्-पृथि॒व्यास्ततो॑ नो॒ वृष्‌ट्या॑ऽवत ॥ दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नो-दवा॒हेन॑ । पृ॒थि॒वीं ॅयद् व्यु॒न्दन्ति॑ ॥आयन् नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति - [ ]
▶ पदपाठः (Word-by-word)
देवाः᳚ । व॒स॒व्याः॒ । अग्ने᳚ । सो॒म॒ । सू॒र्य॒ ॥ देवाः᳚ । श॒र्म॒ण्याः॒ । मित्रा॑वरु॒णेति॒ मित्रा᳚ - व॒रु॒णा॒ । अ॒र्य॒म॒न्न् ॥ देवाः᳚ । स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ । अपा᳚म् । न॒पा॒त् । आ॒शु॒हे॒म॒न्नित्या॑शु - हे॒म॒न्न् ॥ उ॒द्नः । द॒त्त । उ॒द॒धिमित्यु॑द - धिम् । भि॒न्त॒ । दि॒वः । प॒र्जन्या᳚त् । अ॒न्तरि॑क्षात् । पृ॒थि॒व्याः । ततः॑ । नः॒ । वृष्ट्या᳚ । अ॒व॒त॒ ॥ दिवा᳚ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒वा॒हेनेत्यु॑द - वा॒हेन॑ ॥ पृ॒थि॒वीम् । यत् । व्यु॒न्दन्तीति॑ वि-उ॒न्दन्ति॑ ॥ एति॑ । यम् । नरः॑ । सु॒दान॑व॒ इति॑ सु-दान॑वः । द॒दा॒शुषे᳚ । दि॒वः । कोश᳚म् । अचु॑च्यवुः ॥ वीति॑ । प॒र्जन्याः᳚ । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अन्विति॑ । धन्व॑ना । य॒न्ति॒ ।
पदसंख्या: 50
TS 2.4.8.2 TS 2.4.8.2
वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुतः समुद्र॒तो यू॒यं ॅवृ॒ष्टिं ॅव॑र्.षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ ॅया॒तामनु॒ रथा॑ अवृथ्सत ॥ सृ॒जा वृ॒ष्टिं दि॒व आऽद्भिः स॑मु॒द्रं पृ॑ण ॥ अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियं᳚ ॥ उन्न॑म्भय पृथि॒वीं भि॒न्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ विसृ॑जा॒ दृतिं᳚ ॥ ये दे॒वा ( ) दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्ष भागा॒ ये पृ॑थि॒वि भा॑गाः । त इ॒मं ॅय॒ज्ञ्म॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ॥
▶ पदपाठः (Word-by-word)
वृ॒ष्टयः॑ ॥ उदिति॑ । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्॒.ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ॥ न । वः॒ । द॒स्राः॒ । उपेति॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ᳚म् । या॒ताम् । अन्विति॑ । रथाः᳚ । अ॒वृ॒थ्स॒त॒ ॥ सृ॒ज । वृ॒ष्टिम् । दि॒वः । एति॑ । अ॒द्भिरित्य॑त् - भिः । स॒मु॒द्रम् । पृ॒ण॒ ॥ अ॒ब्जा इत्य॑प् - जाः । अ॒सि॒ । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । बल᳚म् । अ॒सि॒ । स॒मु॒द्रिय᳚म् ॥ उदिति॑ । न॒भं॒य॒ । पृ॒थि॒वीम् । भि॒न्धि । इ॒दम् । दि॒व्यम् । नभः॑ ॥ उ॒द्नः । दि॒व्यस्य॑ । नः॒ । दे॒हि॒ । ईशा॑नः । वीति॑ । सृ॒ज॒ । दृति᳚म् ॥ ये । दे॒वाः ( ) । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ । ये । अ॒न्तरि॑क्षभागा॒ इत्य॒न्तरि॑क्ष - भा॒गाः॒ । ये । पृ॒थि॒विभा॑गा॒ इति॑ पृथि॒वि - भा॒गाः॒ ॥ ते । इ॒मम् । य॒ज्ञ्म् । अ॒व॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । एति॑ । वि॒श॒न्तु॒ । ते । इ॒दम् । क्षेत्र᳚म् । अनु॑ । वीति॑ । वि॒श॒न्तु॒ ॥
पदसंख्या: 70

अनुवाकः 9 (4 पञ्चाशत्)

TS 2.4.9.1 TS 2.4.9.1
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं ॅवासः॑ कृ॒ष्णतू॑षं॒ परि॑ धत्त ए॒तद्वै वृष्‌ट्यै॑ रू॒पꣳ सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ ॅवर्.षयतिर॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तं प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्॒.षस्या व॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्‌ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयत्य॒ष्टौ - [ ]
▶ पदपाठः (Word-by-word)
मा॒रु॒तम् । अ॒सि॒ । म॒रुता᳚म् । ओजः॑ । इति॑ । कृ॒ष्णम् । वासः॑ । कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण - तू॒ष॒म् । परीति॑ । ध॒त्ते॒ । ए॒तत् । वै । वृष्ट्यै᳚ । रू॒पम् । सरू॑प॒ इति॒ स - रू॒पः॒ । ए॒व । भू॒त्वा । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒ति॒ । र॒मय॑त । म॒रु॒तः॒ । श्ये॒नम् । आ॒यिन᳚म् । इति॑ । प॒श्चा॒द्वा॒तमिति॑ पश्चात् - वा॒तम् । प्रतीति॑ । मी॒व॒ति॒ । पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् । ए॒व । ज॒न॒य॒ति॒ । व॒र्॒.षस्य॑ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ । जु॒हो॒ति॒ । वा॒युः । वै । वृष्ट्याः᳚ । ई॒शे॒ । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒ति॒ । अ॒ष्टौ ।
पदसंख्या: 50
TS 2.4.9.2 TS 2.4.9.2
जु॑होति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टिꣳ॒॒ सं प्र च्या॑वयति कृष्णाजि॒ने संॅयौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि संॅयौ॒त्य व॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाꣳ शी॒र्॒.षाणि॒ परा॑ऽपत॒न्ते ख॒र्जूरा॑ अभव॒न्-तेषाꣳ॒॒ रस॑ ऊ॒र्द्ध्वो॑ऽपत॒त्-तानि॑ क॒रीरा᳚ण्य-भवन्थ् सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑ति र्दि॒वो वृष्टिं॑ च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति - [ ]
▶ पदपाठः (Word-by-word)
जु॒हो॒ति॒ । चत॑स्रः । वै । दिशः॑ । चत॑स्रः । अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर - दि॒शाः । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । वृष्टि᳚म् । सम् । प्रेति॑ । च्या॒व॒य॒ति॒ । कृ॒ष्णा॒जि॒न इति॑ कृष्ण-अ॒जि॒ने । समिति॑ । यौ॒ति॒ । ह॒विः । ए॒व । अ॒कः॒ । अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि । समिति॑ । यौ॒ति॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । यती॑नाम् । अ॒द्यमा॑नानाम् । शी॒र्॒.षाणि॑ । परेति॑ । अ॒प॒त॒न्न् । ते । ख॒र्जूराः᳚ । अ॒भ॒व॒न्न् । तेषा᳚म् । रसः॑ । ऊ॒र्द्ध्वः । अ॒प॒त॒त् । तानि॑ । क॒रीरा॑णि । अ॒भ॒व॒न्न् । सौ॒म्यानि॑ । वै । क॒रीरा॑णि । सौ॒म्या । खलु॑ । वै । आहु॑ति॒रित्या - हु॒तिः॒ । दि॒वः । वृष्टि᳚म् । च्या॒व॒य॒ति॒ । यत् । क॒रीरा॑णि । भव॑न्ति ।
पदसंख्या: 50
TS 2.4.9.3 TS 2.4.9.3
सौ॒म्ययै॒वाऽऽ*हु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं ॅयौ᳚त्य॒पां ॅवा ए॒ष ओष॑धीनाꣳ॒॒ रसो॒ यन्मद्ध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्.ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒निं न॑यति॒ मान्दा॒ वाशा॒ इति॒ संॅयौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒ वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा - [ ]
▶ पदपाठः (Word-by-word)
सौ॒म्यया᳚ । ए॒व । आहु॒त्येत्या - हु॒त्या॒ । दि॒वः । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । मधु॑षा । समिति॑ । यौ॒ति॒ । अ॒पाम् । वै । ए॒षः । ओष॑धीनाम् । रसः॑ । यत् । मधु॑ । अ॒द्भ्य इत्य॑त् - भ्यः । ए॒व । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । व॒र्.॒ष॒ति॒ । अथो॒ इति॑ । अ॒द्भ्य इत्य॑त् - भ्यः । ए॒व । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वृष्टि᳚म् । नीति॑ । न॒य॒ति॒ । मान्दाः᳚ । वाशाः᳚ । इति॑ । समिति॑ । यौ॒ति॒ । ना॒म॒धेयै॒रिति॑ नाम-धेयैः᳚ । ए॒व । ए॒नाः॒ । अच्छ॑ । ए॒ति॒ । अथो॒ इति॑ । यथा᳚ । ब्रू॒यात् । असौ᳚ । एति॑ । इ॒हि॒ । इति॑ । ए॒वम् । ए॒व । ए॒नाः॒ । ना॒म॒धेयै॒रिति॑ नाम-धेयैः᳚ । एति॑ ।
पदसंख्या: 50
TS 2.4.9.4 TS 2.4.9.4
च्या॑वयति॒ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्‌ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्.षति रू॒पेणै॒वैनꣳ॒॒ सम॑र्द्धयति व॒र्॒.षस्या व॑रुद्ध्यै ॥
▶ पदपाठः (Word-by-word)
च्या॒व॒य॒ति॒ । वृष्णः॑ । अश्व॑स्य । स॒दांन॒मिति॑ सं - दान᳚म् । अ॒सि॒ । वृष्ट्यै᳚ । त्वा॒ । उपेति॑ । न॒ह्या॒मि॒ । इति॑ । आ॒ह॒ । वृषा᳚ । वै । अश्वः॑ । वृषा᳚ । प॒र्जन्यः॑ । कृ॒ष्णः । इ॒व॒ । खलु॑ । वै । भू॒त्वा । व॒र्.॒ष॒ति॒ । रू॒पेण॑ । ए॒व । ए॒न॒म् । समिति॑ । अ॒र्द्ध॒य॒ति॒ । व॒र्॒.षस्य॑ । अव॑रुद्ध्य॒ इत्यव॑ - रु॒द्ध्यै॒ ॥
पदसंख्या: 29

अनुवाकः 10 (3 पञ्चाशत्)

TS 2.4.10.1 TS 2.4.10.1
देवा॑ वसव्या॒ देवाः᳚ शर्मण्या॒ देवाः᳚ सपीतय॒ इत्या ब॑द्ध्नाति दे॒वता॑भिरे॒वान्व॒हं ॅवृष्टि॑मिच्छति॒ यदि॒ वर्.षे॒त्-ताव॑त्ये॒व हो॑त॒व्यं॑ ॅयदि॒ न वर्.षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्.षति॒ नक्तं॑ ॅवा॒ हि दिवा॑ वा॒ वर्.ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ - [ ]
▶ पदपाठः (Word-by-word)
देवाः᳚ । व॒स॒व्याः॒ । देवाः᳚ । श॒र्म॒ण्याः॒ । देवाः᳚ । स॒पी॒त॒य॒ इति॑ स - पी॒त॒यः॒ । इति॑ । एति॑ । ब॒द्ध्ना॒ति॒ । दे॒वता॑भिः । ए॒व । अ॒न्व॒हमित्य॑नु - अ॒हम् । वृष्टि᳚म् । इ॒च्छ॒ति॒ । यदि॑ । वर्.षे᳚त् । ताव॑ति । ए॒व । हो॒त॒व्य᳚म् । यदि॑ । न । वर्.षे᳚त् । श्वः । भू॒ते । ह॒विः । निरिति॑ । व॒पे॒त् । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । वै । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प॒र्जन्यः॑ । व॒र्.॒ष॒ति॒ । नक्त᳚म् । वा॒ । हि । दिवा᳚ । वा॒ । वर्.ष॑ति । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
TS 2.4.10.2 TS 2.4.10.2
अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ ॅवर्.षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालꣳ सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्-र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑वर्.षतिधाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्.षत्ये॒ता वै दे॒वता॒ वृष्‌ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता - [ ]
▶ पदपाठः (Word-by-word)
अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या᳚म् । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒तः॒ । अ॒ग्नये᳚ । धा॒म॒च्छद॒ इति॑ धाम - छदे᳚ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । मा॒रु॒तम् । स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् । सौ॒र्यम् । एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । अ॒ग्निः । वै । इ॒तः । वृष्टि᳚म् । उदिति॑ । ई॒र॒य॒ति॒ । म॒रुतः॑ । सृ॒ष्टाम् । न॒य॒न्ति॒ । य॒दा । खलु॑ । वै । अ॒सौ । आ॒दि॒त्यः । न्यङ्॑ । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । प॒र्या॒वर्त॑त॒ इति॑ परि - आ॒वर्त॑ते । अथ॑ । व॒र्.॒ष॒ति॒ । धा॒म॒च्छदिति॑ धाम - छत् । इ॒व॒ । खलु॑ । वै । भू॒त्वा । व॒र्.॒ष॒ति॒ । ए॒ताः । वै । दे॒वताः᳚ । वृष्ट्याः᳚ । ई॒श॒ते॒ । ताः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः ।
पदसंख्या: 50
TS 2.4.10.3 TS 2.4.10.3
ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयन्त्यु॒ता व॑र्.षिष्य॒न् वर्.ष॑त्ये॒व सृ॒जा वृ॒ष्टिं दि॒व आ*ऽद्भिः स॑मु॒द्रं पृ॒णेत्या॑हे॒माश्चै॒वा-मूश्चा॒पः सम॑र्द्धय॒त्यथो॑ आ॒भिरे॒वा-मूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैत-दुन्नं॑ भय पृथि॒वीमिति॑ वर्.षा॒ह्वां जु॑होत्ये॒षा वा ( ) ओष॑धीनां ॅवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒न्ति॒ । उ॒त । अव॑र्.षिष्यन्न् । वर्.ष॑ति । ए॒व । सृ॒ज । वृ॒ष्टिम् । दि॒वः । एति॑ । अ॒द्भिरित्य॑त् - भिः । स॒मु॒द्रम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । इ॒माः । च॒ । ए॒व । अ॒मूः । च॒ । अ॒पः । समिति॑ । अ॒र्द्ध॒य॒ति॒ । अथो॒ इति॑ । आ॒भिः । ए॒व । अ॒मूः । अच्छ॑ । ए॒ति॒ । अ॒ब्जा इत्य॑प् - जाः । अ॒सि॒ । प्र॒थ॒म॒जा इति॑ प्रथम - जाः । बल᳚म् । अ॒सि॒ । स॒मु॒द्रिय᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । उदिति॑ । न॒भं॒य॒ । पृ॒थि॒वीम् । इति॑ । व॒र्.॒षा॒ह्वामिति॑ वर्.ष - ह्वाम् । जु॒हो॒ति॒ । ए॒षा । वै ( ) । ओष॑धीनाम् । वृ॒ष्टि॒वनि॒रिति॑ वृष्टि - वनिः॑ । तया᳚ । ए॒व । वृष्टि᳚म् । एति॑ । च्या॒व॒य॒ति॒ । ये । दे॒वाः । दि॒विभा॑गा॒ इति॑ दि॒वि - भा॒गाः॒ । इति॑ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । अवेति॑ । धू॒नो॒ति॒ । इ॒मे । ए॒व । अ॒स्मै॒ । लो॒काः । प्री॒ताः । अ॒भीष्टा॒ इत्य॒भि - इ॒ष्टाः॒ । भ॒व॒न्ति॒ ॥
पदसंख्या: 71

अनुवाकः 11 (6 पञ्चाशत्)

TS 2.4.11.1 TS 2.4.11.1
सर्वा॑णि॒ छन्दाꣳ॑स्ये॒तस्या॒-मिष्ट्या॑-म॒नूच्या॒नीत्या॑हु-स्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑ ॅयत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह-क॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दाꣳ॒॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यद्ध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽद्ध्ये॒वमे॒व तद्-यद्-ऋ॒च्यद्ध्य॒क्षरा॑णि॒ यज्जग॑त्या - [ ]
▶ पदपाठः (Word-by-word)
सर्वा॑णि । छन्दाꣳ॑सि । ए॒तस्या᳚म् । इष्ट्या᳚म् । अ॒नूच्या॒नीत्य॑नु - उच्या॑नि । इति॑ । आ॒हुः॒ । त्रि॒ष्टुभः॑ । वै । ए॒तत् । वी॒र्य᳚म् । यत् । क॒कुत् । उ॒ष्णिहा᳚ । जग॑त्यै । यत् । उ॒ष्णि॒ह॒क॒कुभा॒वित्यु॑ष्णिह - क॒कुभौ᳚ । अ॒न्वाहेत्य॑नु - आह॑ । तेन॑ । ए॒व । सर्वा॑णि । छन्दाꣳ॑सि । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्री । वै । ए॒षा । यत् । उ॒ष्णिहा᳚ । यानि॑ । च॒त्वारि॑ । अधीति॑ । अ॒क्षरा॑णि । चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । ए॒व । ते । प॒शवः॑ । यथा᳚ । पु॒रो॒डाशे᳚ । पु॒रो॒डाशः॑ । अधीति॑ । ए॒वम् । ए॒व । तत् । यत् । ऋ॒चि । अधीति॑ । अ॒क्षरा॑णि । यत् । जग॑त्या ।
पदसंख्या: 50
TS 2.4.11.2 TS 2.4.11.2
परिद॒द्ध्यादन्तं॑ ॅय॒ज्ञ्ं ग॑मयेत् त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यं ॅवै वी॒र्यं॑ त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञ्ं प्रति॑ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयं॒ कामा॑य-कामाय॒ प्रयु॑ज्यते॒ सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञ्ः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ् सर्वो॒ वा- [ ]
▶ पदपाठः (Word-by-word)
प॒रि॒द॒द्ध्यादिति॑ परि-द॒द्ध्यात् । अन्त᳚म् । य॒ज्ञ्म् । ग॒म॒ये॒त् । त्रि॒ष्टुभा᳚ । परीति॑ । द॒धा॒ति॒ । इ॒न्द्रि॒यम् । वै । वी॒र्य᳚म् । त्रि॒ष्टुक् । इ॒न्द्रि॒ये । ए॒व । वी॒र्ये᳚ । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । न । अन्त᳚म् । ग॒म॒य॒ति॒ । अग्ने᳚ । त्री । ते॒ । वाजि॑ना । त्री । स॒धस्थेति॑ स॒ध - स्था॒ । इति॑ । त्रिव॒त्येति॒ त्रि - व॒त्या॒ । परीति॑ । द॒धा॒ति॒ । स॒रू॒प॒त्वायेति॑ सरूप - त्वाय॑ । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । कामा॑य कामा॒येति॒ कामा॑य - का॒मा॒य॒ । प्रेति॑ । यु॒ज्य॒ते॒ । सर्वे᳚भ्यः । हि । कामे᳚भ्यः । य॒ज्ञ्ः । प्र॒यु॒ज्यत॒ इति॑ प्र - यु॒ज्यते᳚ । त्रै॒धा॒त॒वीये॑न । य॒जे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । सर्वः॑ । वै । 31(50)
TS 2.4.11.3 TS 2.4.11.3
ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒वैनं॑ ॅय॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर॑006छ्;᳚थ् स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्-ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ ॅवा ए॒ष प॑शू॒नां ग॑च्छति॒ - [ ]
▶ पदपाठः (Word-by-word)
ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । ए॒न॒म् । य॒ज्ञेन॑ । अ॒भीति॑ । च॒र॒ति॒ । स्तृ॒णु॒ते । ए॒व । ए॒न॒म् । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि-च॒र्यमा॑णः । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः । यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । न । ए॒न॒म् । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । स्तृ॒णु॒ते॒ । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । स॒हस्रे॑ण । य॒क्ष्यमा॑णः । प्रजा॑त॒मिति॒ प्र - जा॒त॒म् । ए॒व । ए॒न॒त् । द॒दा॒ति॒ । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । स॒हस्रे॑ण । ई॒जा॒नः । अन्त᳚म् । वै । ए॒षः । प॒शू॒नाम् । ग॒च्छ॒ति॒ ।
पदसंख्या: 50
TS 2.4.11.4 TS 2.4.11.4
यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ताꣳस्त्रै॑धात॒ वीये॑-नै॒वासृ॑जत॒ य ए॒वं ॅवि॒द्वाꣳ स्त्रै॑धात॒वीये॑नप॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्थ् सृजत॒ उपै॑न॒मुत्त॑रꣳ स॒हस्रं॑ नमति दे॒वता᳚भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञो - [ ]
▶ पदपाठः (Word-by-word)
यः । स॒हस्रे॑ण । यज॑ते । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । खलु॑ । वै । प॒शून् । अ॒सृ॒ज॒त॒ । तान् । त्रै॒धा॒त॒वीये॑न । ए॒व । अ॒सृ॒ज॒त॒ । यः । ए॒वम् । वि॒द्वान् । त्रै॒धा॒त॒वीये॑न । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । यज॑ते । यस्मा᳚त् । ए॒व । योनेः᳚ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प॒शून् । असृ॑जत । तस्मा᳚त् । ए॒व । ए॒ना॒न् । सृ॒ज॒ते॒ । उपेति॑ । ए॒न॒म् । उत्त॑र॒मित्युत् - त॒र॒म् । स॒हस्र᳚म् । न॒म॒ति॒ । दे॒वता᳚भ्यः । वै । ए॒षः । एति॑ । वृ॒श्च्य॒ते॒ । यः । य॒क्ष्ये । इति॑ । उ॒क्त्वा । न । यज॑ते । त्रै॒धा॒त॒वीये॑न । य॒जे॒त॒ । सर्वः॑ । वै । ए॒षः । य॒ज्ञ्ः ।
पदसंख्या: 50
TS 2.4.11.5 TS 2.4.11.5
यत् त्रै॑धात॒वीयꣳ॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपाला-स्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां ॅलो॒काना॒माप्त्या॒ उत्त॑र-उत्तरो॒ ज्याया᳚न् भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मद्ध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पꣳ समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑बंट्कारꣳ॒॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒वा - [ ]
▶ पदपाठः (Word-by-word)
यत् । त्रै॒धा॒त॒वीय᳚म् । सर्वे॑ण । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । चतु॑ष्कपाला॒ इति॒ चतुः॑-क॒पा॒लाः॒ । त्रि॒ष्ष॒मृ॒द्ध॒त्वायेति॑ त्रिष्षमृद्ध - त्वाय॑ । त्रयः॑ । पु॒रो॒डाशाः᳚ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षाम् । लो॒काना᳚म् । आप्त्यै᳚ । उत्त॑र उत्तर॒ इत्युत्त॑रः -उ॒त्त॒रः॒ । ज्यायान्॑ । भ॒व॒ति॒ । ए॒वम् । इ॒व॒ । हि । इ॒मे । लो॒काः । य॒व॒मय॒ इति॑ यव - मयः॑ । मद्ध्ये᳚ । ए॒तत् । वै । अ॒न्तरि॑क्षस्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सर्वे॑षाम् । अ॒भि॒ग॒मय॒न्नित्य॑भि - ग॒मयन्न्॑ । अवेति॑ । द्य॒ति॒ । अछ॑बंट्कार॒मित्यछ॑बंट् - का॒र॒म् । हिर॑ण्यम् । द॒दा॒ति॒ । तेजः॑ । ए॒व ।
पदसंख्या: 50
TS 2.4.11.6 TS 2.4.11.6
ऽव॑ रुन्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ ॅयजु॑षां ता॒र्प्यमु॑क्थाम॒दानां᳚ धे॒नुरे॒ताने॒व सर्वा॒न्॒. वर्णा॒नव॑ रुन्धे ॥
▶ पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । ता॒र्प्यम् । द॒दा॒ति॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । धे॒नुम् । द॒दा॒ति॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । साम्नः॑ । वै । ए॒षः । वर्णः॑ । यत् । हिर॑ण्यम् । यजु॑षाम् । ता॒र्प्यम् । उ॒क्था॒म॒दाना॒मित्यु॑क्थ - म॒दाना᳚म् । धे॒नुः । ए॒तान् । ए॒व । सर्वान्॑ । वर्णान्॑ । अवेति॑ । रु॒न्धे॒ ॥
पदसंख्या: 30

अनुवाकः 12 (7 पञ्चाशत्)

TS 2.4.12.1 TS 2.4.12.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रꣳ॒॒ सोम॒माऽह॑र॒त् तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स य॑ज्ञ्वेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत् त्वष्टा॑ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेन्द्र॑शत्रुर्वर्द्ध॒स्वेति॒ स याव॑दू॒र्द्ध्वः प॑रा॒विद्ध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त् प्रव॒ण - [ ]
▶ पदपाठः (Word-by-word)
त्वष्टा᳚ । ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ । वीन्द्र॒मिति॒ वि - इ॒न्द्र॒म् । सोम᳚म् । एति॑ । अ॒ह॒र॒त् । तस्मिन्न्॑ । इन्द्रः॑ । उ॒प॒ह॒वमित्यु॑प-ह॒वम् । ऐ॒च्छ॒त॒ । तम् । न । उपेति॑ । अ॒ह्व॒य॒त॒ । पु॒त्रम् । मे॒ । अ॒व॒धीः॒ । इति॑ । सः । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ् - वे॒श॒सम् । कृ॒त्वा । प्रा॒सहेति॑ प्र - सहा᳚ । सोम᳚म् । अ॒पि॒ब॒त् । तस्य॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । तत् । त्वष्टा᳚ । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । उप॑ । प्रेति॑ । अ॒व॒र्त॒य॒त् । स्वाहा᳚ । इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ । व॒र्द्ध॒स्व॒ । इति॑ । सः । याव॑त् । ऊ॒र्द्ध्वः । प॒रा॒विद्ध्य॒तीति॑ परा - विद्ध्य॑ति । ताव॑ति । स्व॒यम् । ए॒व । वीति॑ । अ॒र॒म॒त॒ । यदि॑ । वा॒ । ताव॑त् । प्र॒व॒णमिति॑ प्र - व॒नम् ।
पदसंख्या: 50
TS 2.4.12.2 TS 2.4.12.2
-मासी॒द्यदि॑ वा॒ ताव॒दद्ध्य॒ग्नेरासी॒थ् स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ् स इ॑षुमा॒त्रमि॑षुमात्रं॒ ॅविष्व॑ङ्ङवर्द्धत॒ स इ॒मां ॅलो॒कान॑वृणो॒द्य-दि॒मां ॅलो॒कानवृ॑णो॒त् तद्-वृ॒त्रस्य॑ वृत्र॒त्वं तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त् तपो॒ वै स वज्र॑ आसी॒त् तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तर्.हि॒ विष्णु॑ - [ ]
▶ पदपाठः (Word-by-word)
आसी᳚त् । यदि॑ । वा॒ । ताव॑त् । अधीति॑ । अ॒ग्नेः । आसी᳚त् । सः । सं॒भव॒न्निति॑ सं - भवन्न्॑ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । अ॒भि । समिति॑ । अ॒भ॒व॒त् । सः । इ॒षु॒मा॒त्रमि॑षुमात्र॒मिती॑षुमा॒त्रं - इ॒षु॒मा॒त्र॒म् । विष्वङ्॑ । अ॒व॒र्द्ध॒त॒ । सः । इ॒मान् । लो॒कान् । अ॒वृ॒णो॒त् । यत् । इ॒मान् । लो॒कान् । अवृ॑णोत् । तत् । वृ॒त्रस्य॑ । वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् । तस्मा᳚त् । इन्द्रः॑ । अ॒बि॒भे॒त् । अपीति॑ । त्वष्टा᳚ । तस्मै᳚ । त्वष्टा᳚ । वज्र᳚म् । अ॒सि॒ञ्च॒त् । तपः॑ । वै । सः । वज्रः॑ । आ॒सी॒त् । तम् । उद्य॑न्तु॒मित्युत् - य॒न्तु॒म् । न । अ॒श॒क्नो॒त् । अथ॑ । वै । तर्.हि॑ । विष्णुः॑ ।
पदसंख्या: 50
TS 2.4.12.3 TS 2.4.12.3
-र॒न्या दे॒वता॑ ऽऽसी॒थ् सो᳚ऽब्रवी॒द्-विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒स विष्णु॑स्त्रे॒धाऽऽत्मानं॒ ॅविन्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑य-मभिपर्याव॒र्ताद्-ध्यबि॑भे॒द्यत्-पृ॑थि॒व्यां तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्-विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं - [ ]
▶ पदपाठः (Word-by-word)
अ॒न्या । दे॒वता᳚ । आ॒सी॒त् । सः । अ॒ब्र॒वी॒त् । विष्णो᳚ । एति॑ । इ॒हि॒ । इ॒दम् । एति॑ । ह॒रि॒ष्या॒वः॒ । येन॑ । अ॒यम् । इ॒दम् । इति॑ । सः । विष्णुः॑ । त्रे॒धा । आ॒त्मान᳚म् । वि । नीति॑ । अ॒ध॒त्त॒ । पृ॒थि॒व्याम् । तृती॑यम् । अ॒न्तरि॑क्षे । तृती॑यम् । दि॒वि । तृती॑यम् । अ॒भि॒प॒र्या॒व॒र्तादित्य॑भि - प॒र्या॒व॒र्तात् । हि । अबि॑भेत् । यत् । पृ॒थि॒व्याम् । तृती॑यम् । आसी᳚त् । तेन॑ । इन्द्रः॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् ।
पदसंख्या: 50
TS 2.4.12.4 TS 2.4.12.4
मयि॑ वी॒र्यं॑ तत् ते॒ प्रदा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्-विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्-विष्णुः॒ प्रत्य॑गृह्णा-द॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्-विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्रहा॒रस्ति॒ वा इ॒दं - [ ]
▶ पदपाठः (Word-by-word)
मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तत् । अ॒स्मै॒ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अधाः᳚ । मा॒ । इति॑ । तत् । विष्ण॑वे । अति॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । विष्णुः॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । इति॑ । यत् । अ॒न्तरि॑क्षे । तृती॑यम् । आसी᳚त् । तेन॑ । इन्द्रः॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् ।
पदसंख्या: 50
TS 2.4.12.5 TS 2.4.12.5
मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒द् द्विर्मा॑ऽधा॒ इति॒ तद्-विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्-विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्-विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्रहा॒र्येना॒ह - [ ]
▶ पदपाठः (Word-by-word)
मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तत् । अ॒स्मै॒ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । द्विः । मा॒ । अ॒धाः॒ । इति॑ । तत् । विष्ण॑वे । अति॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । विष्णुः॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । इति॑ । यत् । दि॒वि । तृती॑यम् । आसी᳚त् । तेन॑ । इन्द्रः॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । विष्ण्व॑नुस्थित॒ इति॒ विष्णु॑ - अ॒नु॒स्थि॒तः॒ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । येन॑ । अ॒हम् ।
पदसंख्या: 50
TS 2.4.12.6 TS 2.4.12.6
-मि॒दमस्मि॒ तत् ते॒ प्रदा᳚स्या॒मीति॒ त्वी(3) इत्य॑ब्रवीथ् स॒न्धां तु सन्द॑धावहै॒ त्वामे॒व प्रवि॑शा॒नीति॒ यन्मां प्र॑वि॒शेः किं मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त् त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वां प्रवि॑शेय॒मित्य॑ब्रवी॒त् तं ॅवृ॒त्रः प्रावि॑शदु॒दरं॒ ॅवै वृ॒त्रः क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य - [ ]
▶ पदपाठः (Word-by-word)
इ॒दम् । अस्मि॑ । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । त्वी(3) । इति॑ । अ॒ब्र॒वी॒त् । स॒धांमिति॑ सं - धाम् । तु । समिति॑ । द॒धा॒व॒है॒ । त्वाम् । ए॒व । प्रेति॑ । वि॒शा॒नि॒ । इति॑ । यत् । माम् । प्र॒वि॒शेरिति॑ प्र-वि॒शेः । किम् । मा॒ । भु॒ञ्ज्याः॒ । इति॑ । अ॒ब्र॒वी॒त् । त्वाम् । ए॒व । इ॒न्धी॒य॒ । तव॑ । भोगा॑य । त्वाम् । प्रेति॑ । वि॒शे॒य॒म् । इति॑ । अ॒ब्र॒वी॒त् । तम् । वृ॒त्रः । प्रेति॑ । अ॒वि॒श॒त् । उ॒दर᳚म् । वै । वृ॒त्रः । क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः । यः ।
पदसंख्या: 50
TS 2.4.12.7 TS 2.4.12.7
ए॒वं ॅवेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं॒ तद॑स्मै॒ प्राय॑च्छ॒त्‌तत् प्रत्य॑गृह्णा॒त्- त्रिर्मा॑ऽधा॒ इति॒ तद्-विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्-विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त् त्रिः प्र॒त्यगृ॑ह्णा॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं ॅयद्-विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तस्मा॑दैन्द्रावैष्ण॒वꣳ ह॒विर्भ॑वति॒ ( ) यद्वा इ॒दं किञ्च॒ तद॑स्मै॒ तत् प्राय॑च्छ॒द् ऋचः॒ सामा॑नि॒ यजूꣳ॑षि स॒हस्रं॒ ॅवा अ॑स्मै॒ तत् प्राय॑च्छ॒त् तस्मा᳚थ् स॒हस्र॑दक्षिणं ॥
▶ पदपाठः (Word-by-word)
ए॒वम् । वेद॑ । हन्ति॑ । क्षुध᳚म् । भ्रातृ॑व्यम् । तत् । अ॒स्मै॒ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । त्रिः । मा॒ । अ॒धाः॒ । इति॑ । तत् । विष्ण॑वे । अति॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तत् । विष्णुः॑ । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । इति॑ । यत् । त्रिः । प्रेति॑ । अय॑च्छत् । त्रिः । प्र॒त्यगृ॑ह्णा॒दिति॑ प्रति – अगृ॑ह्णात् । तत् । त्रि॒धातो॒रिति॑ त्रि - धातोः᳚ । त्रि॒धा॒तु॒त्वमिति॑ त्रिधातु - त्वम् । यत् । विष्णुः॑ । अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत । विष्ण॑वे । अति॑ । प्रेति॑ । अय॑च्छत् । तस्मा᳚त् । ऐ॒न्द्रा॒वै॒ष्ण॒वमित्यै᳚न्द्रा - वै॒ष्ण॒वम् । ह॒विः । भ॒व॒ति॒ ( ) । यत् । वै । इ॒दम् । किम् । च॒ । तत् । अ॒स्मै॒ । तत् । प्रेति॑ । अ॒य॒च्छ॒त् । ऋचः॑ । सामा॑नि । यजूꣳ॑षि । स॒हस्र᳚म् । वै । अ॒स्मै॒ । तत् । प्रेति॑ । अ॒य॒च्छ॒त् । तस्मा᳚त् । स॒हस्र॑दक्षिण॒मिति॑ स॒हस्र॑ - द॒क्षि॒ण॒म् ॥
पदसंख्या: 71

अनुवाकः 13 (1 पञ्चाशत्)

TS 2.4.13.1 TS 2.4.13.1
दे॒वा वै रा॑ज॒न्या᳚-ज्जाय॑माना-दबिभयु॒-स्तम॒न्तरे॒व सन्तं॒ दाम्ना ऽपौ᳚म्भ॒न्थ् स वा ए॒षोऽपो᳚ब्धो जायते॒ यद्-रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्नꣳ श्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान् घ्नꣳ श्च॑रे॒दिति॒ तस्मा॑ ए॒तमै᳚न्द्रा बार्.हस्प॒त्यं च॒रुं निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒ र्ब्रह्म॑णै॒वैनं॒ ( ) दाम्नो॒ऽप्ॐभ॑नान् मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षादे॒वैनं॒ दाम्नो॒ऽप्ॐभ॑नान् मुञ्चति ॥
▶ पदपाठः (Word-by-word)
दे॒वाः । वै । रा॒ज॒न्या᳚त् । जाय॑मानात् । अ॒बि॒भ॒युः॒ । तम् । अ॒न्तः । ए॒व । सन्त᳚म् । दाम्ना᳚ । अपेति॑ । औ॒भं॒न्न् । सः । वै । ए॒षः । अपो᳚ब्ध॒ इत्यप॑- उ॒ब्धः॒ । जा॒य॒ते॒ । यत् । रा॒ज॒न्यः॑ । यत् । वै । ए॒षः । अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ । जाये॑त । वृ॒त्रान् । घ्नन्न् । च॒रे॒त् । यम् । का॒मये॑त । रा॒ज॒न्य᳚म् । अन॑पोब्ध॒ इत्यन॑प - उ॒ब्धः॒ । जा॒ये॒त॒ । वृ॒त्रान् । घ्नन्न् । च॒रे॒त् । इति॑ । तस्मै᳚ । ए॒तम् । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्यमित्यै᳚न्द्रा-बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । निरिति॑ । व॒पे॒त् । ऐ॒न्द्रः । वै । रा॒ज॒न्यः॑ । ब्रह्म॑ । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । ए॒न॒म् ( ) । दाम्नः॑ । अ॒प्ॐभ॑ना॒दित्य॑प-उभं॑नात् । मु॒ञ्च॒ति॒ । हि॒र॒ण्मय᳚म् । दाम॑ । दक्षि॑णा । सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । ए॒न॒म् । दाम्नः॑ । अ॒प्ॐभ॑ना॒दित्य॑प - उभं॑नात् । मु॒ञ्च॒ति॒ ॥
पदसंख्या: 62

अनुवाकः 14 (5 पञ्चाशत्)

TS 2.4.14.1 TS 2.4.14.1
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑ मे॒त्यग्रे᳚ । भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या अꣳ॒॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥प्राच्यां᳚ दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्यां ॅवृत्रहन् वृत्र॒हाऽसि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त - [ ]
▶ पदपाठः (Word-by-word)
नवो॑नव॒ इति॒ नवः॑ - न॒वः॒ । भ॒व॒ति॒ । जाय॑मानः । अह्ना᳚म् । के॒तुः । उ॒षसा᳚म् । ए॒ति॒ । अग्रे᳚ ॥ भा॒गम् । दे॒वेभ्यः॑ । वीति॑ । द॒धा॒ति॒ । आ॒यन्नित्या᳚ - यन्न् । प्रेति॑ । च॒न्द्रमाः᳚ । ति॒र॒ति॒ । दी॒र्घम् । आयुः॑ ॥ यम् । आ॒दि॒त्याः । अꣳ॒॒शुम् । आ॒प्या॒यय॒न्तीत्या᳚ - प्या॒यय॑न्ति । यम् । अक्षि॑तम् । अक्षि॑तयः । पिब॑न्ति ॥ तेन॑ । नः॒ । राजा᳚ । वरु॑णः । बृह॒स्पतिः॑ । एति॑ । प्या॒य॒य॒न्तु॒ । भुव॑नस्य । गो॒पा इति॑ गो - पाः ॥ प्राच्या᳚म् । दि॒शि । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । राजा᳚ । उ॒त । उदी᳚च्याम् । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । वृ॒त्र॒हेति॑ वृत्र - हा । अ॒सि॒ ॥ यत्र॑ । यन्ति॑ । स्रो॒त्याः । तत् ।
पदसंख्या: 50
TS 2.4.14.2 TS 2.4.14.2
-ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ॥ इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथाऽस॑त् ॥ अ॒स्येदे॒व प्ररि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न- [ ]
▶ पदपाठः (Word-by-word)
जि॒तम् । ते॒ । द॒क्षि॒ण॒तः । वृ॒ष॒भः । ए॒धि॒ । हव्यः॑ ॥ इन्द्रः॑ । ज॒या॒ति॒ । न । परेति॑ । ज॒या॒तै॒ । अ॒धि॒रा॒ज इत्य॑धि - रा॒जः । राज॒स्विति॒ राज॑ - सु॒ । रा॒ज॒या॒ति॒ ॥ विश्वाः᳚ । हि । भू॒याः । पृत॑नाः । अ॒भि॒ष्टीः । उ॒प॒सद्य॒ इत्यु॑प - सद्यः॑ । न॒म॒स्यः॑ । यथा᳚ । अस॑त् ॥ अ॒स्य । इत् । ए॒व । प्रेति॑ । रि॒रि॒चे॒ । म॒हि॒त्वमिति॑ महि - त्वम् । दि॒वः । पृ॒थि॒व्याः । परीति॑ । अ॒न्तरि॑क्षात् ॥ स्व॒राडिति॑ स्व - राट् । इन्द्रः॑ । दमे᳚ । एति॑ । वि॒श्वगू᳚र्त॒ इति॑ वि॒श्व-गू॒र्तः॒ । स्व॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥ अ॒भीति॑ । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाः । इ॒व॒ । धे॒नवः॑ ॥ ईशा॑नम् ।
पदसंख्या: 50
TS 2.4.14.3 TS 2.4.14.3
-म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां ॅवृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑इन्द्रतेश॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्थ् स॒हस्रꣳ॒॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
▶ पदपाठः (Word-by-word)
अ॒स्य । जग॑तः । सु॒व॒र्दृश॒मिति॑ सुवः - दृश᳚म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥ त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥ यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः᳚ । उ॒त । स्युः ॥ न । त्वा॒ । व॒ज्रि॒न्न् । स॒हस्र᳚म् । सूर्याः᳚ । अन्विति॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ पिब॑ । सोम᳚म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒षाव॑ । ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ । अद्रिः॑ ॥
पदसंख्या: 50
TS 2.4.14.4 TS 2.4.14.4
सो॒तुर्बा॒हुभ्याꣳ॒॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒, वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दसꣳस॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं ॅविचक्षण ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ऽग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑ - [ ]
▶ पदपाठः (Word-by-word)
सो॒तुः । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । सुय॑त॒ इति॒ सु - य॒तः॒ । न । अर्वा᳚ ॥ रे॒वतीः᳚ । नः॒ । स॒ध॒माद॒ इति॑ सध - मादः॑ । इन्द्रे᳚ । स॒न्तु॒ । तु॒विवा॑जा॒ इति॑ तु॒वि - वा॒जाः॒ ॥ क्षु॒मन्तः॑ । याभिः॑ । मदे॑म ॥ उदिति॑ । अ॒ग्ने॒ । शुच॑यः । तव॑ । वीति॑ । ज्योति॑षा । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । स॒प्त । त्वा॒ । ह॒रितः॑ । रथे᳚ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ ॥ शो॒चिष्के॑श॒मिति॑ शो॒चिः - के॒श॒म् । वि॒च॒क्ष॒णेति॑ वि - च॒क्ष॒ण॒ ॥ चि॒त्रम् । दे॒वाना᳚म् । उदिति॑ । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ॥ एति॑ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ ।
पदसंख्या: 50
TS 2.4.14.5 TS 2.4.14.5
श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्. हवन॒श्रुतः॑ । जु॒षन्तां॒ ॅयुज्यं॒ पयः॑ ॥ विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्॒.हिषि॑ मादयद्ध्वं ॥
▶ पदपाठः (Word-by-word)
च॒ ॥ विश्वे᳚ । दे॒वाः । ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ह॒व॒न॒श्रुत॒ इति॑ हवन - श्रुतः॑ ॥ जु॒षन्ता᳚म् । युज्य᳚म् । पयः॑ ॥ विश्वे᳚ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव᳚म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उपेति॑ । द्यवि॑ । स्थ ॥ ये । अ॒ग्नि॒जि॒ह्वा इत्य॑ग्नि - जि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒सद्येत्या᳚ - सद्य॑ । अ॒स्मिन्न् । ब॒र्॒.हिषि॑ । मा॒द॒य॒द्ध्व॒म् ॥
पदसंख्या: 30