वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ् स्व॒स्रीयोऽसु॑राणां॒ तस्य॒ त्रीणि॑ शी॒र्॒.षाण्या॑सन्थ्-सोम॒पानꣳ॑ सुरा॒पान॑-म॒न्नाद॑नꣳ॒॒ स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत् प॒रोक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यक्षं॑ भा॒गं ॅव॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षं॒ ॅवद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ ऽबिभेदी॒दृङ् वै रा॒ष्ट्रं ॅवि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्॒.षाण्य॑च्छिन॒द्यथ् सो॑म॒पान॒ - [ ]
पदपाठः (Word-by-word)
वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । वै । त्वा॒ष्ट्रः । पु॒रोहि॑त॒ इति॑ पु॒रः-हि॒तः॒ । दे॒वाना᳚म् । आ॒सी॒त् । स्व॒स्रीयः॑ । असु॑राणाम् । तस्य॑ । त्रीणि॑ । शी॒र्.॒षाणि॑ । आ॒स॒न्न् । सो॒म॒पान॒मिति॑ सोम - पान᳚म् । सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् । अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् । सः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । दे॒वेभ्यः॑ । भा॒गम् । अ॒व॒द॒त् । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । असु॑रेभ्यः । सर्व॑स्मै । वै । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । भा॒गम् । व॒द॒न्ति॒ । यस्मै᳚ । ए॒व । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । वद॑न्ति । तस्य॑ । भा॒गः । उ॒दि॒तः । तस्मा᳚त् । इन्द्रः॑ । अ॒बि॒भे॒त् । ई॒दृङ् । वै । रा॒ष्ट्रम् । वीति॑ । प॒र्याव॑र्तय॒तीति॑ परि - आव॑र्तयति । इति॑ । तस्य॑ । वज्र᳚म् । आ॒दायेत्या᳚ - दाय॑ । शी॒र्.॒षाणि॑ । अ॒च्छि॒न॒त् । यत् । सो॒म॒पान॒मिति॑ सोम-पान᳚म् ।