स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्धे॒ तनू॒नपा॑तं ॅयजति ग्री॒ष्ममे॒वाव॑ रुन्ध इ॒डो य॑जति व॒र्॒.षा ए॒वाव॑ रुन्धे ब॒र्॒.हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्धे स्वाहाका॒रं ॅय॑जति हेम॒न्तमे॒वाव॑ रुन्धे॒ तस्मा॒थ् स्वाहा॑कृता॒ हेम॑न् प॒शवोऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्धे॒ तनू॒नपा॑तं ॅयजति य॒ज्ञ्मे॒वाव॑ रुन्ध - [ ]
पदपाठः (Word-by-word)
स॒मिध॒ इति॑ सं - इधः॑ । य॒ज॒ति॒ । व॒स॒न्तम् । ए॒व । ऋ॒तू॒नाम् । अवेति॑ । रु॒न्धे॒ । तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् । य॒ज॒ति॒ । ग्री॒ष्मम् । ए॒व । अवेति॑ । रु॒न्धे॒ । इ॒डः । य॒ज॒ति॒ । व॒र्॒.षाः । ए॒व । अवेति॑ । रु॒न्धे॒ । ब॒र्॒.हिः । य॒ज॒ति॒ । श॒रद᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । स्वा॒हा॒का॒रमिति॑ स्वाहा - का॒रम् । य॒ज॒ति॒ । हे॒म॒न्तम् । ए॒व । अवेति॑ । रु॒न्धे॒ । तस्मा᳚त् । स्वाहा॑कृता॒ इति॒ स्वाहा᳚-कृ॒ताः॒ । हेमन्न्॑ । प॒शवः॑ । अवेति॑ । सी॒द॒न्ति॒ । स॒मिध॒ इति॑ सं - इधः॑ । य॒ज॒ति॒ । उ॒षसः॑ । ए॒व । दे॒वता॑नाम् । अवेति॑ । रु॒न्धे॒ । तनू॒नपा॑त॒मिति॒ तनू᳚ - नपा॑तम् । य॒ज॒ति॒ । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ ।