आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तं भूत्यै॒ प्रति॑ नुदन्ते॒ योऽलं॒ भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॒ भूतिं॑ गमयन्ति॒ भव॑त्ये॒वा ऽऽदि॒त्येभ्यो॑ धा॒रय॑द्वद्-भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो वाऽपरु॒द्ध्यमा॑नो वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः॒ - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्येभ्यः॑ । भुव॑द्वद्भ्य॒ इति॒ भुव॑द्वत् - भ्यः॒ । च॒रुम् । निरिति॑ । व॒पे॒त् । भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । आ॒दि॒त्याः । वै । ए॒तम् । भूत्यै᳚ । प्रतीति॑ । नु॒द॒न्ते॒ । यः । अल᳚म् । भूत्यै᳚ । सन्न् । भूति᳚म् । न । प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । आ॒दि॒त्यान् । ए॒व । भुव॑द्वत॒ इति॒ भुव॑त् - व॒तः॒ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । ए॒न॒म् । भूति᳚म् । ग॒म॒य॒न्ति॒ । भव॑ति । ए॒व । आ॒दि॒त्येभ्यः॑ । धा॒रय॑द्वद्भ्य॒ इति॑ धा॒रय॑द्वत् - भ्यः॒ । च॒रुम् । निरिति॑ । व॒पे॒त् । अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ । वा॒ । अ॒प॒रु॒द्ध्यमा॑न॒ इत्य॑प - रु॒ध्यमा॑नः । वा॒ । आ॒दि॒त्याः । वै । अ॒प॒रो॒द्धार॒ इत्य॑प - रो॒द्धारः॑ । आ॒दि॒त्याः । अ॒व॒ग॒म॒यि॒तार॒ इत्य॑व - ग॒म॒यि॒तारः॑ । आ॒दि॒त्यान् । ए॒व । धा॒रय॑द्वत॒ इति॑ धा॒रय॑त् - व॒तः॒ ।