प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.7.1 TS 2.1.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒त् तं बृह॒स्पति॒ रुपा॑ऽगृह्णा॒थ्‌सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राऽप॑त॒त् तं मि॒त्रावरु॑णा॒-वुपा॑गृह्णीताꣳ॒॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्-यस्तृ॒तीयः॑ प॒राप॑त॒त् तं ॅविश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ् सा ब॑हुरू॒पा व॒शा भ॑व॒द्य-श्च॑तु॒र्त्थः प॒राप॑त॒थ् स पृ॑थि॒वीं प्राऽवि॑श॒त् तं बृह॒स्पति॑र॒भ्य॑ - [ ]
▶ पदपाठः (Word-by-word)
व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । वै । गा॒य॒त्रि॒यै । शिरः॑ । अ॒च्छि॒न॒त् । तस्यै᳚ । रसः॑ । परेति॑ । अ॒प॒त॒त् । तम् । बृह॒स्पतिः॑ । उपेति॑ । अ॒गृ॒ह्णा॒त् । सा । शि॒ति॒पृ॒ष्ठेति॑ शिति - प॒ष्ठा । व॒शा । अ॒भ॒व॒त् । यः । द्वि॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । उपेति॑ । अ॒गृ॒ह्णी॒ता॒म् । सा । द्वि॒रू॒पेति॑ द्वि - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । तृ॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । विश्वे᳚ । दे॒वाः । उपेति॑ । अ॒गृ॒ह्ण॒न्न् । सा । ब॒हु॒रू॒पेति॑ बहु - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । च॒तु॒र्थः । प॒राप॑त॒दिति॑ परा - अप॑तत् । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । तम् । बृह॒स्पतिः॑ । अ॒भीति॑ ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)। (ब्रह्मवर्चसकामादीनां पशुविधिः)) पृष्टकामोन्नकामो द्वाविन्द्रियार्थी सनिं तथा। अन्नं ग्रामं च वाञ्छन्तोऽज्ञातरोगाश्च ये स्थिताः।। षष्ठेऽनुवाकं पशवः क्रमेणैषामुदीरिताः।। अथ सप्तमे ब्रह्मवर्चसकामादीनां यथायोगं पश्वन्तराणि विधातुं प्रस्तौति वषट्कार इति। वौषडित्यस्य मन्त्रस्याभिमानिदेवो वषट्कारः। तस्य गायत्र्या सह विरोधो ब्राह्मणान्तरे प्रसिध्दः इति वैशब्देन सूच्यते। छिन्नान्द्रा यत्रीशिरसो जलं रक्तं च निर्गतं ताभ्यामुभाभ्यामनेकविधा वशा उत्पन्नाः। ताश्च बृहस्पत्यादीनां परिग्रहेण प्रियाः संपन्नाः।। द्वाभ्यां वर्णाभ्यामुपेता द्विरूपा। बहुभिर्वर्णैरुपेता बहुरूपा। चतुर्थपर्याये भूमौ पतितं रसं वृथा विनष्टो मा भूदिति बृहस्पतिरभ्यगृहणात्। तस्यायमभिप्रायः- अथं रसो मम भोगाय भवत्वेव। उक्षवशो व्यर्थवीर्यो वृषभः। तत्राऽद्यं पशुं विधत्ते बार्हस्पत्यमिति। ब्रह्मवर्चस्यैहिकामुष्मिकपूजाहेतुत्वेन सारत्वाद्रससादृ-श्यमित्यभिप्रेत्य तत्साधनभूतां वशां प्रशंसति। छन्दसामिति। वशाया गायत्रीछन्दोरसत्वं व्याख्यातम्। गायत्री च सोमा-हरणेन च्छन्दोन्तरात्प्रशस्ता। तस्माद्वशा सर्वेषां छन्दसां सारः। तेन च्छन्दोरसेन वशारूपेणैहिकामुष्मिकपूजाहेतुतया रसरूपं ब्रह्मवर्चसमवरुन्धे द्वितीयं पशुं विधत्ते मैत्रावरुणीमिति। मित्रस्य सूर्यत्वादह्रस्तदयित्वम्। अन्धकारेणाऽऽवरण हेतुत्वाद्रात्रेर्वारुणत्वम् ष्टेर्द्रवत्वादोषन्याध्युत्पादकत्वेन सारत्वाच्च रसोपमानम्। तमेव द्वितीयं पशुं फलान्तराय विधत्ते—मैत्रावरुणीमिति। अहोरात्रपरित्यागेन यथा वृष्टिर्न संभवति तथा प्रजोत्पत्तिरपि न संभवति। ततस्तयोर्वृष्टिसाधनत्ववत्पजोत्पत्तिसाधनत्वमपि द्रष्टव्यम्। तृतीयं पशुं विधत्ते वैश्वदेवीमिति। अन्नस्य सर्वदेवभोज्यत्वाद्वैश्वदेवत्वं, जीवनहेतुत्वेन सार स्वाद्रससाम्यम्। तमेव पशुं फलान्तराय विधसे वैश्वदेवीमिति। सजातानां भ्रात्रादीनां भृत्यादीनां च बहुत्वेन देवतासाम्येव वैश्वदेवत्वं स्धाम्युपकारित्वेन च रससादृश्यम्। चतुर्थं पशुं विधत्ते बार्हस्पत्यमिति। वशत्वविशेषणं प्रशंसति बशं वा इति। उक्षेति यदेष वशं चरति धेनुभिः सहैवारण्ये गत्वा पुनस्तासामेव पृष्ठतो गृहेष्बागच्छतीति तस्य गोवशवाचित्वम्। ब्रह्मवर्चसमपीन्द्रियनियमनोपेतत्वाद्वश इव स्वाधीनपदार्थं इव भवति। पञ्चमं पशुं विधत्ते रौद्रीमिति। रुद्राध्याये नीलग्रीवो विलोहित इति रुद्रस्य विशेषेण लोहितत्वं भूयते रोहिणी द्रदेवताका। पूर्ववच्चोदकप्राप्तमपवदितुं विधत्ते स्फ्यो यूप इति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।"""

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वषट्कार इत्यादि ॥ रसः शरीरस्थं जलम् । शितिपृष्ठादिवशान्तानामुत्पत्तिरुच्यते । शितिपृष्ठा । उक्तमुत्तरपदप्रकृतिस्वरत्वम् । यो द्वितीयः परापतदिति । 'यद्वृत्तान्नित्यम्' इति निघाते प्रतिषिद्धे, 'उदात्तवता तिङा' इति समासः । द्विरूपा शुक्लकृष्णा वे[ष्णैवे]ति केचित् । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । बहुरूपा । 'बहोर्नञ्वत्' इत्युत्तरपदान्तोदात्तत्वम् । अभ्यगृह्णादिति । निर्गमनकाल एव ग्रहणमुपग्रहणम् । निर्गत्य भूमौ प्रविष्टस्य उपरिग्रहणमभिग्रहणम् । अस्त्वेवेति । अयं मम भोगायैवास्तु वृधा भूमौ सङ्क्रान्तो मा भूदिति । उक्षवश इति । उक्षा चासौ वशश्चेत्युक्षवशः । यथेष्टचारी वशः । मोघरेता इत्यन्ये । प्रजननाशक्त इत्यन्ये । या गर्भं ध्वंसयन्ती स्वैरं चरति सा वशा । रोहिणी लोहितवर्णा । 'वर्णादनुदात्तात्' इति ङीप् ॥
2 अथ शितिपृष्ठादीनां विधानं - बार्हस्पत्यामिति ॥ गायत्र्यास्सर्वछन्दोयोनित्वात् छन्दसामित्युक्तम् । रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् । वश इवेति । वश इन्द्रियसंयमः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
3 रौद्रीमित्यादि ॥ गतम् ॥
4 स्फ्य इत्यादि ॥ व्याख्यातम् ॥
इति द्वितीये प्रथमे सप्तमोनुवाकः ॥