प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.9.1 TS 2.1.9.1
वरु॑णꣳ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒थ् स ए॒तां ॅवा॑रु॒णीं कृ॒ष्णां ॅव॒शाम॑पश्य॒त् ताꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम॒न्नाद्-य॒मुपा॑नम॒द्-यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्यं॒ नोप॒नमे॒थ् स ए॒तां ॅवा॑रु॒णीं कृ॒ष्णां ॅव॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द - [ ]
▶ पदपाठः (Word-by-word)
वरु॑णम् । सु॒षु॒वा॒णम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । न । उपेति॑ । अ॒न॒म॒त् । सः । ए॒ताम् । वा॒रु॒णीम् । कृ॒ष्णाम् । व॒शाम् । अ॒प॒श्य॒त् । ताम् । स्वायै᳚ । दे॒वता॑यै । एति॑ । अ॒ल॒भ॒त॒ । ततः॑ । वै । तम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । उपेति॑ । अ॒न॒म॒त् । यम् । अल᳚म् । अ॒न्नाद्या॒येत्य॑न्न - अद्या॑य । सन्त᳚म् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । सः । ए॒ताम् । वा॒रु॒णीम् । कृ॒ष्णाम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । वरु॑णम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे प्रथममपाठके नवमोऽनुवाकः) (अन्नाद्यकामादिनां पशुंविधिः))ब्रह्मतेजोभिचारं च यज्ञप्राप्तिं तथा पशून्। समयं च तथा वृष्टी वाञ्छतां पशवः श्रुताः।। तान्पशूनष्टमेनुवाके विधायार्थे नवमेन्नद्यकामादीनां पशून्विधित्सुरादौ कं चित्पशुं विधातुं प्रस्तौति वरुणमिति। सुषुवाणं। सोमभिषवं कृतवन्तम्। विधत्ते यमलमिति। धनिकः पुमानत्तुं योग्याय शाल्यन्नपायसादिभोज्याय समर्थो पि संविधातृमनुष्याभावादिना तन्न प्राप्नुयात्तस्यायं पशुः। वरुणः पर्जन्य मुखेन प्रकाशमावृत्य कार्ष्ण्य संपादयति। ततोस्य पशुवर्णस्य वरुणदेवत्यत्वम्। द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति—संधिशब्द कालपरत्वेन देशपरत्वेन च द्वेधा सूत्रकारो व्याख्यातवान्—“अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वापि वापा चौषधीनां च संधौ ” इति। ऋत्वोर्मध्ये नदीक्षेत्रयोर्मध्य इति तस्यार्थः। ओषधीनामुपकारकत्वेन मित्रसंबन्धित्वम्। संधौ प्रयोग उभयरसोपजीवनेन प्रशस्तः। एतदेवाभिप्रेत्य संधिं प्रशंसति अपां चौषधीनामिति। यूपस्य शाखाद्वयं विधत्ते विशाख इति। विविधे शाखे यस्यायौ विशाखः। तदिदं सूत्रकारो दर्शयति“विशाखोयूप इति यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपर्युमे शाखे अष्टाश्री सचषाले स्याताम् ” इति। दीर्घरोगिणो द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति। मित्रो हि कूरं वरुणं शान्तं करोति। स च वरुणपाशान्मोचयति। तयोः पृथगुपक्रमः। पुष्टिकामस्य पशुं विधातुं प्रस्तौति देवा वा इति। प्रजापशुसमृद्धिः पुष्टिः। सा च मनुष्यमिथुने पशुमिथुने च संभवतीत्येवं देवा उपायमपश्यन्। दृष्ट्वा च तस्यां पुष्टौ सभ्यग्राधयितुं शक्ता नाभूवन्। तदानीमश्विनावूचतुः—आवयोरेवेषा पुष्टीः संबन्धिनी। तस्मादेतस्यां पुष्टावावाभ्यां विना मा वदध्यं संभाषणमेव मा कुरुतेति। तस्मात्सा पुष्टीरश्विनोरधीनाभवत्। विधत्ते यः पुष्टिकाम इति। एकस्मिन्गर्भे सह जातौ यसौ। तयोर्मध्ये या स्त्री सा यंसी।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठकेनवमोऽनुवाकः ।।९।।

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वरुणं सुषुवाणमित्यादि ॥ सुषुवाणं सुतवन्तम् । सुनोतेर्लिटः कानजादेशः । अन्नस्यादनमन्नाद्यम् । बहुलवचनाद्यत् । स्वाया इति । आत्मने देवताया इति ॥
2 सन्धाविति ॥ प्रावृट्छरदोर्मध्ये । पर्वणीत्येके । नदीकेदारमध्ये इत्यन्ये । मैत्रीर्वा इति । मित्रावरुणसम्बन्धिनीनामपामोषधीनां च सन्धौ मैत्रावरुणयोरालम्भात् अपामोषधीनां रसस्यान्नलक्षणस्य लाभादन्नादो भवति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । उभयस्येति । द्विप्रकारस्य रसस्य । विशाखः शाखाद्वयात्मा । उक्तमाचार्येण - 'यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपरात् उभे शाखे अष्टाश्री सचषाले स्याताम्' इति ॥
3 ज्योगामयावी । उक्तः । मित्रेणैवेति । मित्रेण मित्रद्वारा वरुणस्य शान्तिः वरुणेन साक्षाद्वरुणस्य शान्तिः । ततश्च वरुणपाशाद्दीर्घामयरूपात् मुक्तः इतासुरपि गतासुरपि जीवत्येव ॥
4 देवा वा इति ॥ पुष्टिं प्रजातिमलभमाना देवा मिथुनीभाव एव तामपश्यन् मिथुनीभाव एव पुष्टिर्भवतीत्यपश्यन् । ततो मिथुनेनापि तस्यां न समराधयन् पुष्टिसंसिद्धिर्नाभिजाता नावर्धन्तेति यावत् । अथाश्विनौ देवानब्रूतां ; आवयोरेवैषा पुष्टिः ; आवामेव पुष्टिहेतुः ; तस्मादावाभ्यां विना यूयमेतस्यां मा विदध्वं पुष्टिविषयं किञ्चिदपि विदितुं नार्हथ । 'भासन' इत्यादिना भासने आत्मनेपदम् । ततस्सा पुष्टिरश्विनोरेवाभवत् तद्धेतुकैवाभवत् ॥
5 यमीमिति ॥ सहजातौ यमौ । तयोस्स्त्री यमी । गौरादित्वात् ङीष् ॥
इति द्वितीये प्रथमे नवमोनुवाकः ॥