च॒रुं ॅयः का॒मये॑त॒ हिर॑ण्यं ॅविन्देय॒ हिर॑ण्यं॒ मोप॑ नमे॒दिति॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं ॅवै हिर॑ण्यं॒ ॅयस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द् विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्-विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्-विन्दत॒ उपै॑नꣳ॒॒ हिर॑ण्यं नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यो हिर॑ण्यं ॅवि॒न्दत॑ ए॒ता - [ ]
पदपाठः (Word-by-word)
च॒रुम् । यः । का॒मये॑त । हिर॑ण्यम् । वि॒न्दे॒य॒ । हिर॑ण्यम् । मा॒ । उपेति॑ । न॒मे॒त् । इति॑ । यत् । आ॒ग्ने॒यः । भव॑ति । आ॒ग्ने॒यम् । वै । हिर॑ण्यम् । यस्य॑ । ए॒व । हिर॑ण्यम् । तेन॑ । ए॒व । ए॒न॒त् । वि॒न्द॒ते॒ । सा॒वि॒त्रः । भ॒व॒ति॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒त् । वि॒न्द॒ते॒ । भूम्यै᳚ । च॒रुः । भ॒व॒ति॒ । अ॒स्याम् । ए॒व । ए॒न॒त् । वि॒न्द॒ते॒ । उपेति॑ । ए॒न॒म् । हिर॑ण्यम् । न॒म॒ति॒ । वीति॑ । वै । ए॒षः । इ॒न्द्रि॒येण॑ । वी॒र्ये॑ण । ऋ॒द्ध्य॒ते॒ । यः । हिर॑ण्यम् । वि॒न्दते᳚ । ए॒ताम् ।