प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.2.6 TS 2.3.2.6
-स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽ पिब॒थ् स विष्व॒ङ् व्या᳚र्च्छ॒थ् स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या᳚र्द्ध्यत॒ स यदू॒र्द्ध्वमु॒दव॑मी॒त् ते श्या॒माका॑ अभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तꣳ सो॑मे॒न्द्रꣳ श्या॑मा॒कं च॒रुं निर॑वप॒त् तेनै॒वास्मि॑न्निन्द्रि॒यꣳ सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोम॒पीथेन॑र्द्ध्यते॒ यः सोमं॒ ॅवमि॑ति॒ यः सो॑मवा॒मी स्यात् तस्मा॑- [ ]
▶ पदपाठः (Word-by-word)
त्वष्टुः॑ । सोम᳚म् । अ॒भी॒षहेत्य॑भि - सहा᳚ । अ॒पि॒ब॒त् । सः । विष्वङ्॑ । वीति॑ । आ॒र्च्छ॒त् । सः । इ॒न्द्रि॒येण॑ । सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ । वीति॑ । आ॒र्द्ध्य॒त॒ । सः । यत् । ऊ॒र्द्ध्वम् । उ॒दव॑मी॒दित्यु॑त् - अव॑मीत् । ते । श्या॒माकाः᳚ । अ॒भ॒व॒न्न् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । सो॒मे॒न्द्रम् । श्या॒मा॒कम् । च॒रुम् । निरिति॑ । अ॒व॒प॒त् । तेन॑ । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । अ॒द॒धा॒त् । वीति॑ । वै । ए॒षः । इ॒न्द्रि॒येण॑ । सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ । ऋ॒द्ध्य॒ते॒ । यः । सोम᳚म् । वमि॑ति । यः । सो॒म॒वा॒मीति॑ सोम - वा॒मी । स्यात् । तस्मै᳚ ।
पदसंख्या: 50