प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.4.2 TS 2.3.4.2
-स्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो᳚-ऽर्य॒मा- ऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तद्-ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ् स प्र॒जाप॑ति॒ -मुपा॑धाव॒त् तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ नि- [ ]
▶ पदपाठः (Word-by-word)
अ॒स्मै॒ । दान॑कामा॒ इति॒ दान॑ - का॒माः॒ । प्र॒जा इति॑ प्र - जाः । क॒रो॒ति॒ । दान॑कामा॒ इति॒ दान॑ - का॒माः॒ । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । भ॒व॒न्ति॒ । अ॒र्य॒म्णे । च॒रुम् । निरिति॑ । व॒पे॒त् । यः । का॒मये॑त । स्व॒स्ति । ज॒नता᳚म् । इ॒या॒म् । इति॑ । अ॒सौ । वै । आ॒दि॒त्यः । अ॒र्य॒मा । अ॒र्य॒मण᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । तत् । ग॒म॒य॒ति॒ । यत्र॑ । जिग॑मिषति । इन्द्रः॑ । वै । दे॒वाना᳚म् । आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः । आ॒सी॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ऐ॒न्द्रम् । आ॒नु॒षू॒कमित्या॑नु - सू॒कम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । निरिति॑ । 21 (50