प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.5.2 TS 2.3.5.2
तं ॅयक्ष्म॑ आर्च्छ॒द्-राजा॑नं॒ ॅयक्ष्म॑ आर॒दिति॒ तद्-रा॑जय॒क्ष्मस्य॒ जन्म॒ यत् पापी॑या॒नभ॑व॒त् तत् पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त् तज्जा॒येन्य॑स्य॒य ए॒वमे॒तेषां॒ ॅयक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त् ता अ॑ब्रुव॒न्. वरं॑ ॅवृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒त - [ ]
▶ पदपाठः (Word-by-word)
ऐ॒त् । तम् । यक्ष्मः॑ । आ॒र्च्छ॒त् । राजा॑नम् । यक्ष्मः॑ । आ॒र॒त् । इति॑ । तत् । रा॒ज॒य॒क्ष्मस्येति॑ राज -य॒क्ष्मस्य॑ । जन्म॑ । यत् । पापी॑यान् । अभ॑वत् । तत् । पा॒प॒य॒क्ष्मस्येति॑ पाप - य॒क्ष्मस्य॑ । यत् । जा॒याभ्यः॑ । अवि॑न्दत् । तत् । जा॒येन्य॑स्य । यः । ए॒वम् । ए॒तेषा᳚म् । यक्ष्मा॑णाम् । जन्म॑ । वेद॑ । न । ए॒न॒म् । ए॒ते । यक्ष्माः᳚ । वि॒न्द॒न्ति॒ । सः । ए॒ताः । ए॒व । न॒म॒स्यन्न् । उपेति॑ । अ॒धा॒व॒त् । ताः । अ॒ब्रु॒व॒न्न् । वर᳚म् । वृ॒णा॒म॒है॒ । स॒मा॒व॒च्छ इति॑ समावत् - शः । ए॒व । नः॒ । उपेति॑ । अ॒यः॒ । इति॑ । तस्मै᳚ । ए॒तम् ।
पदसंख्या: 50