वी॒र्य॑कामः॒ स्यात् तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यं ॅवी॒र्यं॑ दधति॒यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति॒ यदे॒वाग्ने-स्तेज॒स्तदे॒वाव॑ रुन्धे॒यदिन्द्रा॑य॒ बार्.ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्धे॒यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्त - [ ]
पदपाठः (Word-by-word)
वी॒र्य॑काम॒ इति॑ वी॒र्य॑ - का॒मः॒ । स्यात् । तम् । ए॒तया᳚ । सर्व॑पृष्ठ॒येति॒ सर्व॑-पृ॒ष्ठ॒या॒ । या॒ज॒ये॒त् । ए॒ताः । ए॒व । दे॒वताः᳚ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । द॒ध॒ति॒ । यत् । इन्द्रा॑य । राथ॑न्तरा॒येति॒ राथ᳚म् - त॒रा॒य॒ । नि॒र्वप॒तीति॑ निः - वप॑ति । यत् । ए॒व । अ॒ग्नेः । तेजः॑ । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । इन्द्रा॑य । बार्.ह॑ताय । यत् । ए॒व । इन्द्र॑स्य । तेजः॑ । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । इन्द्रा॑य । वै॒रू॒पाय॑ । यत् । ए॒व । स॒वि॒तुः । तेजः॑ । तत् ।