प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.4.3.3 TS 2.4.3.3
प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑ॅव॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्‌स्याथ् सस्पर्द्ध॑मान ए॒तयेष्‌ट्या॑ यजेता॒ग्नये॑ संॅव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्‌तꣳशृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ 11 (बल॑मस्ये॒ - तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - पञ्च॑चत्वारिꣳशच्च) (आ3)
▶ पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । प॒शून् । अवृ॑ञ्जत । तस्मा᳚त् । ए॒ताम् । सं॒ॅव॒र्ग इति॑ सं - व॒र्गः । इति॑ । इष्टि᳚म् । आ॒हुः॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । ए॒तया᳚ । इष्ट्या᳚ । य॒जे॒त॒ । अ॒ग्नये᳚ । सं॒ॅव॒र्गायेति॑ सं - व॒र्गाय॑ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । तम् । शृ॒तम् । आस॑न्न॒मित्या - स॒न्न॒म् । ए॒तेन॑ । यजु॑षा । अ॒भीति॑ । मृ॒शे॒त् । ओजः॑ । ए॒व । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र - जाम् । प॒शून् । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ॥
पदसंख्या: 45