-द्वरं॑ ॅवृणै॒ मय्ये॒व स॒तोऽभये॑न भुनजाद्ध्वा॒ इति॒ तद्-गौराऽह॑र॒त् तस्मा॒द्-गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद् घृ॒तमे॒तथ् सोम॑स्य॒ यत् पयो॒ य ए॒वम॒ग्नीषोम॑यो॒ स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यं॑ पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त् तेनेन्द्रं॑ ज्ये॒ष्ठं पु॒त्रं नि॒रवा॑सायय॒दिति॒ तस्मा᳚- ( ) -ज्ज्ये॒ष्ठं पु॒त्रं धने॑न नि॒रव॑साययन्ति ॥
पदपाठः (Word-by-word)
वर᳚म् । वृ॒णै॒ । मयि॑ । ए॒व । स॒ता । उ॒भये॑न । भु॒न॒जा॒द्ध्वै॒ । इति॑ । तत् । गौः । एति॑ । अ॒ह॒र॒त् । तस्मा᳚त् । गवि॑ । स॒ता । उ॒भये॑न । भु॒ञ्ज॒ते॒ । ए॒तत् । वै । अ॒ग्नेः । तेजः॑ । यत् । घृ॒तम् । ए॒तत् । सोम॑स्य । यत् । पयः॑ । यः । ए॒वं । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी-सोम॑योः । तेजः॑ । वेद॑ । ते॒ज॒स्वी । ए॒व । भ॒व॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कि॒दें॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् । पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । इति॑ । प्रा॒जा॒प॒त्यमिति॑ प्रजा - प॒त्यम् । इति॑ । ब्रू॒या॒त् । तेन॑ । इन्द्र᳚म् । ज्ये॒ष्ठम् । पु॒त्रम् । नि॒रवा॑सायय॒दिति॑ निः-अवा॑साययत् । इति॑ । तस्मा᳚त् ( ) । ज्ये॒ष्ठम् । पु॒त्रम् । धने॑न । नि॒रव॑सायय॒न्तीति॑ निः - अव॑साययन्ति ॥