प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.6.2 TS 2.5.6.2
-त्ये॒षा वै दे॒वानां॒ ॅविक्रा᳚न्ति॒ र्यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ विक्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वानाꣳ॒॒ हरी॒ यद्-द॑र्.शपूर्णमा॒सौ य ए॒वं ॅवि॒द्वान् द॑र्.श्पूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाꣳ॒॒ हरी॒ ताभ्या॑ - [ ]
▶ पदपाठः (Word-by-word)
ए॒षा । वै । दे॒वाना᳚म् । विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । दे॒वाना᳚म् । ए॒व । विक्रा᳚न्ति॒मिति॒ वि - क्रा॒न्ति॒म् । अनु॑ । वीति॑ । क्र॒म॒ते॒ । ए॒षः । वै । दे॒व॒यान॒ इति॑ देव - यानः॑ । पन्थाः᳚ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । यः । ए॒व । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः᳚ । तम् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति । ए॒तौ । वै । दे॒वाना᳚म् । हरी॒ इति॑ । यत् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यः । ए॒वम् । वि॒द्वान् । द॒र्.॒श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । यौ । ए॒व । दे॒वाना᳚म् । हरी॒ इति॑ । ताभ्या᳚म् ।
पदसंख्या: 50