प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.7.2 TS 2.5.7.2
न॑ह्य॒त्यप्र॑स्रꣳसाय॒ संत॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथ॑तंरीं प्रथ॒मामन्वा॑ह॒ राथ॑तंरो॒ वा अ॒यं ॅलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बार्.ह॑तीमुत्त॒मा-मन्वा॑ह॒ बार्.ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वो॒ - [ ]
▶ पदपाठः (Word-by-word)
न॒ह्य॒ति॒ । अप्र॑स्रꣳसा॒येत्यप्र॑ - स्रꣳ॒॒सा॒य॒ । संत॑त॒मिति॒ सं - त॒त॒म् । अन्विति॑ । आ॒ह॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । राथ॑न्तरी॒मिति॒ राथं᳚ - त॒री॒म् । प्र॒थ॒माम् । अन्विति॑ । आ॒ह॒ । राथ॑न्तर॒ इति॒ राथं᳚-त॒रः॒ । वै । अ॒यम् । लो॒कः । इ॒मम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । त्रिः । वीति॑ । गृ॒ह्णा॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ । बार्.ह॑तीम् । उ॒त्त॒मामित्यु॑त् - त॒माम् । अन्विति॑ । आ॒ह॒ । बार्.ह॑तः । वै । अ॒सौ । लो॒कः । अ॒मुम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । प्रेति॑ । वः॒ ।
पदसंख्या: 50