स्त्र्य॑स्य जायेतो॒र्द्ध्वमुद्यौ᳚त्यू॒र्द्ध्वमि॑व॒ हि पुꣳ॒॒सः पुमा॑ने॒वास्य॑ जायते॒ यथ् स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं ॅय॒ज्ञ्स्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत् प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व - [ ]
पदपाठः (Word-by-word)
स्त्री । अ॒स्य॒ । जा॒ये॒त॒ । ऊ॒र्द्ध्वम् । उदिति॑ । यौ॒ति॒ । ऊ॒र्द्ध्वम् । इ॒व॒ । हि । पुꣳ॒॒सः । पुमान्॑ । ए॒व । अ॒स्य॒ । जा॒य॒ते॒ । यत् । स्फ्येन॑ । वा॒ । उ॒प॒वे॒षेणेत्यु॑प-वे॒षेण॑ । वा॒ । यो॒यु॒प्येत॑ । स्तृतिः॑ । ए॒व । अ॒स्य॒ । सा । हस्ते॑न । यो॒यु॒प्य॒ते॒ । यज॑मानस्य । गो॒पी॒थाय॑ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । किम् । य॒ज्ञ्स्य॑ । यज॑मानः । इति॑ । प्र॒स्त॒र इति॑ प्र-स्त॒रः । इति॑ । तस्य॑ । क्व॑ । सु॒व॒र्ग इति॑ सुवः- गः । लो॒कः । इति॑ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । इति॑ । ब्रू॒या॒त् । यत् । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । प्र॒हर॒तीति॑ प्र - हर॑ति । यज॑मानम् । ए॒व ।