सु॑व॒र्गं ॅलो॒कं ग॑मयति॒ वि वा ए॒तद्-यज॑मानो लिशते॒ यत् प्र॑स्त॒रं ॅयो॑यु॒प्यन्ते॑ ब॒र्॒.हिरनु॒ प्रह॑रति॒ शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा ए॒तर्ह्य॑द्ध्व॒र्युः स ई᳚श्व॒रो वे॑प॒नो भवि॑तोर्द्ध्रु॒वा ऽसीती॒माम॒भि मृ॑शती॒यं ॅवै ध्रु॒वाऽस्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(3)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒याद-ग॑न्न॒ग्निरित्य॒ ( ) -ग्नाव॒ग्निं ग॑मये॒न्नि र्यज॑मानꣳ सुव॒र्गाल्लो॒काद्-भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्-यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति ॥
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । वीति॑ । वै । ए॒तत् । यज॑मानः । लि॒श॒ते॒ । यत् । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । यो॒यु॒प्यन्ते᳚ । ब॒र्॒.हिः । अनु॑ । प्रेति॑ । ह॒र॒ति॒ । शान्त्यै᳚ । अ॒ना॒र॒भं॒ण इत्य॑ना - र॒भं॒णः । इ॒व॒ । वै । ए॒तर्.हि॑ । अ॒द्ध्व॒र्युः । सः । ई॒श्व॒रः । वे॒प॒नः । भवि॑तोः । ध्रु॒वा । अ॒सि॒ । इति॑ । इ॒माम् । अ॒भीति॑ । मृ॒श॒ति॒ । इ॒यम् । वै । ध्रु॒वा । अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । न । वे॒प॒नः । भ॒व॒ति॒ । अगा(3)न् । अ॒ग्नी॒दित्य॑ग्नि - इ॒त् । इति॑ । आ॒ह॒ । यत् । ब्रू॒या॒त् । अगन्न्॑ । अ॒ग्निः । इति॑ ( ) । अ॒ग्नौ । अ॒ग्निम् । ग॒म॒ये॒त् । निरिति॑ । यज॑मानम् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । भ॒जे॒त् । अगन्न्॑ । इति॑ । ए॒व । ब्रू॒या॒त् । यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ ॥