पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञ्स्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान् भवति॒ भूय॑सी॒र्॒.हि दे॒वताः᳚ प्री॒णाति॑ जा॒मि वा ए॒तद्-य॒ज्ञ्स्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑ वुपाꣳशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ग्निर॒मुष्मि॑न् ॅलो॒क आसी᳚द्-य॒मो᳚ऽस्मिन् ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्नि - [ ]
पदपाठः (Word-by-word)
पत॑ये । स्वाहा᳚ । इति॑ । स्क॒न्नम् । अन्विति॑ । म॒न्त्र॒ये॒त॒ । य॒ज्ञ्स्य॑ । ए॒व । तत् । आर्त्या᳚ । यज॑मानः । वसी॑यान् । भ॒व॒ति॒ । भूय॑सीः । हि । दे॒वताः᳚ । प्री॒णाति॑ । जा॒मि । वै । ए॒तत् । य॒ज्ञ्स्य॑ । क्रि॒य॒ते॒ । यत् । अ॒न्वञ्चौ᳚ । पु॒रो॒डाशौ᳚ । उ॒पाꣳ॒॒शु॒या॒जमित्यु॑पाꣳशु-या॒जम् । अ॒न्त॒रा । य॒ज॒ति॒ । अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ । अथो॒ इति॑ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । अ॒ग्निः । अ॒मुष्मिन्न्॑ । लो॒के । आसी᳚त् । य॒मः । अ॒स्मिन्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । एति॑ । इ॒त॒ । इ॒मौ । वि । परीति॑ । ऊ॒हा॒म॒ । इति॑ । अ॒न्नाद्ये॒नेत्य॑न्न - अद्ये॑न । दे॒वाः । अ॒ग्निम् ।