TA 3.1

1 पञ्चाशत्

T.A.3.1.1
चित्तिः॒ स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑तं ब॒र्.॒हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्.॒होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚द्ध्व॒र्युः ( ) ॥ वाच॑स्पते विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्व-म॒स्माकं॒ नाम॑ । वा॒चस्पतिः॒ सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒थ्स्वाहा᳚ ।
कोर्वै (Index)
(अ॒द्ध्व॒र्युः पञ्च च)