पृ॒थि॒वी होता᳚ । द्यौर॑द्ध्व॒र्युः । रु॒द्रो᳚ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता ॥ वाच॑स्पते वा॒चो वी॒र्ये॑ण । संभृ॑तत-मे॒नाय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पतिः॒ सोमं॑ पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ।
कोर्वै (Index)
(पृ॒थि॒वी होता॒ दश॑)