TA 3.13

2 पञ्चाशत्

T.A.3.13.1
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्-रू॒पमे॑ति । तत् पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥ वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं ॅवि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते
कोर्वै (Index)
(जा॒य॒ते॒ - वशे॑ स॒प्त च॑)
T.A.3.13.2
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ ( ) ॥ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ।
कोर्वै (Index)
(जा॒य॒ते॒ - वशे॑ स॒प्त च॑)