T.A.3.9.1 सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः᳚ । प॒त्थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां᳚ त्रि॒ष्टुक् । आ॒दि॒त्यानां॒ जग॑ती । विष्णो॑रनु॒ष्टुक् ▶ कोर्वै (Index) (अ॒नु॒ष्टुग् - दिशः॒ षट्च॑)
T.A.3.9.2 वरु॑णस्य वि॒राट् । य॒ज्ञ्स्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ ( ) । चत॑स्रोऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः । ▶ कोर्वै (Index) (अ॒नु॒ष्टुग् - दिशः॒ षट्च॑)