TA 3.12

7 पञ्चाशत्

T.A.3.12.1
स॒हस्र॑शीर्.षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ ॅवि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्-दशाङ्गु॒लम् ॥ पुरु॑ष ए॒वेदꣳ सर्व᳚म् । यद्-भू॒तं ॅयच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.2
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ त्रि॒पादू॒र्द्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाभ॑वा॒त् पुनः॑ । ततो॒ विष्व॒ङ् व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ तस्मा᳚द् वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद् भूमि॒मथो॑ पु॒रः ।
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.3
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञ्मत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒द्ध्मः श॒रद्ध॒विः ॥ स॒प्तास्या॑सन् परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्-य॒ज्ञ्ं त॑न्वा॒नाः । अब॑द्ध्न॒न् पुरु॑षं प॒शुम् ॥ तं ॅय॒ज्ञ्ं ब॒र्॒.हिषि॒ प्रौक्षन्न्॑ । पुरु॑षं जा॒तम॑ग्र॒तः
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.4
तेन॑ दे॒वा अय॑जन्त । सा॒द्ध्या ऋष॑यश्च॒ ये ॥ तस्मा᳚द् य॒ज्ञाथ् स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् । प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ तस्मा᳚द् य॒ज्ञाथ् स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒-स्तस्मा॑दजायत ।
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.5
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ ज्जा॒ता अ॑जा॒वयः॑ ॥ यत् पुरु॑षं॒ ॅव्य॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.6
ऊ॒रू तद॑स्य॒ यद्-वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥ च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद् वा॒युर॑जायत ॥ नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र् दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन्न् ।
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)
T.A.3.12.7
वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒. यदास्ते᳚ ॥ धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं ॅवि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥ य॒ज्ञेन॑ य॒ज्ञ्म॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ( ) । ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒द्ध्याः सन्ति॑ दे॒वाः ।
कोर्वै (Index)
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒न् द्वे च॑)