दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र् बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑गृह्णामि । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता
कोर्वै (Index)
(दा॒ता - पुरु॑ष॒ - मापः॑ - प्रतिग्रही॒त्रे - +नव॑ च)