TA 3.11

13 पञ्चाशत्

T.A.3.11.1
सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्या॒त्मानं॑ दश॒धा चर॑न्तम् । अ॒न्तः स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्माऽन्व॑विन्द॒द् दश॑होतार॒मर्णे᳚ । अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एकः॒ सन्ब॑हु॒धा वि॑चारः । श॒तꣳ शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ वेदा॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ होता॑रो॒ यत्रैकं॒ भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम्
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.2
अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाꣳ॒॒ सर्वा᳚त्मा । सर्वाः᳚ प्र॒जा यत्रैकं॒ भव॑न्ति । चतु॑र्.होतारो॒ यत्र॑ स॒म्पदं॒ गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानꣳ॑ सवि॒तारं॒ बृह॒स्पति᳚म् । चतु॑र्.होतारं प्र॒दिशोऽनु॑ क्ल॒प्तम् । वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विन्दत् ॥ अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । त्वष्टा॑रꣳ रू॒पाणि॑ विकु॒र्वन्तं॑ ॅविप॒श्चिम्
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.3
अ॒मृत॑स्य प्रा॒णं ॅय॒ज्ञ्मे॒तम् । चतु॑र्.होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः ॥ अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । दे॒वानां॒ बन्धु॒ निहि॑तं॒ गुहा॑सु । अ॒मृते॑न क्ल॒प्तं ॅय॒ज्ञ्मे॒तम् । चतु॑र्.होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः ॥ श॒तं नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं ॅवृ॑णाति । इन्द्र॑स्या॒त्मा निहि॑तः॒ पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायुः॑ प्र॒जाना᳚म् ।
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.4
इन्द्रꣳ॒॒ राजा॑नꣳ सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । र॒श्मिꣳ र॑श्मी॒नां मद्ध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ य आ᳚ण्डको॒शे भुव॑नं बि॒भर्ति॑ । अनि॑र्भिण्णः॒ सन्नथ॑ लो॒कान्. वि॒चष्टे᳚ । यस्या᳚ण्डको॒शꣳ शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् । तेन॑ क्लृ॒प्तो॑ऽमृते॑ना॒हम॑स्मि ॥ सु॒वर्णं॒ कोशꣳ॒॒ रज॑सा॒ परी॑वृतम् । दे॒वानां᳚ ॅवसु॒धानीं᳚ ॅवि॒राज᳚म्
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.5
अ॒मृत॑स्य पू॒र्णान्तामु॑ क॒लां ॅविच॑क्षते । पादꣳ॒॒ षड्ढो॑तु॒र्न किला॑वि विथ्से ॥ येन॒र्तवः॑ पञ्च॒धोत क्ल॒॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒॒प्ताः । तꣳ षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् । स॒हैव सन्तं॒ न विजा॑नन्ति दे॒वाः । इन्द्र॑स्या॒त्मानꣳ॑ शत॒धा चर॑न्तम् ।
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.6
इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः ॥ परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् । दे॒वानाꣳ॒॒ हृद॑यं॒ ब्रह्माऽन्व॑विन्दत् ॥ ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्कꣳ श्चोत॑न्तꣳ सरि॒रस्य॒ मद्ध्ये᳚ ॥ आ यस्मिन्᳚थ् स॒प्त पेर॑वः । मेह॑न्ति बहु॒लाꣳ श्रिय᳚म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ।
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.7
अच्यु॑तां बहु॒लाꣳ श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिन्द्रा॑य पिन्वते ॥ ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑तां बहु॒लाꣳ श्रिय᳚म् । मह्य॒मिन्द्रो॒ निय॑च्छतु ॥ श॒तꣳ श॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङा या॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑ । प्रमꣳह॑माणो बहु॒लाꣳ श्रिय᳚म् । र॒श्मिरिन्द्रः॑ सवि॒ता मे॒ निय॑च्छतु ।
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.8
घृ॒तं तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु ॥ हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु ॥ पञ्चा॑रं च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिः सरि॒रस्य॒ मद्ध्ये᳚ । अज॑स्रं॒ ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इन्द्रः॑ कामव॒रं द॑दातु ॥ स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम्
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.9
एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः ॥ भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे᳚ । तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु ॥ श्वे॒तꣳ र॒श्मिं बो॑भु॒ज्यमा॑नम् । अ॒पां ने॒तारं॒ भुव॑नस्य गो॒पाम् । इन्द्रं॒ निचि॑क्युः पर॒मे व्यो॑मन्न् ।
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.10
रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तꣳ स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् ॥ अ॒यं ॅयश्श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् । प्र॒जां प॒शून् धना॑नि । अ॒स्माकं॑ ददातु ॥ श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सुव॒न्मह्यं॑ प॒शून्. वि॒श्वरू॑पान् ॥ प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.11
हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां ग॑न्ध॒र्वो॑ऽवद॒द् गर्भे॑ अ॒न्तः । तां द्योत॑मानाꣳ स्व॒र्यं॑ मनी॒षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.12
प्र॒जाप॑तिः प्र॒जया॑ सम्ॅविदा॒नः ॥ वी॒तꣳ स्तु॑केस्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्रप्र॑ य॒ज्ञ्प॑तिं तिर ॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । तेषाꣳ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः ( )
कोर्वै (Index)
(आ॒त्मा जना॑नां - ॅविकु॒र्वन्तं॑ ॅविप॒श्विं - प्र॒जानां᳚ - ॅवसु॒धानीं᳚ ॅवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ॅव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑)
T.A.3.11.13
वा॒युस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ सम्ॅविदा॒नः ॥ इडा॑यै सृ॒प्तं घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑ हि॒तम् ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । तेषाꣳ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।