हरिꣳ॒॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं ॅवृष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा᳚त् । अय॑नं॒ मा विव॑धी॒र् विक्र॑मस्व ॥ माच्छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒ ॅविवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚
कोर्वै (Index)
(मृ॒त्यवे॑ - वी॒राꣳश्च॒त्वारि॑ च)