TA 3.5

1 पञ्चाशत्

T.A.3.5.1
म॒हाह॑वि॒र्॒. होता᳚ । स॒त्यह॑विरद्ध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚ प्रतिधृ॒ष्यश्च॑ य॒ज्ञ्स्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता ॥ वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पतिः॒ सोम॑मपात् ( ) । मा दैव्य॒स्तन्तुः॒ छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ।
कोर्वै (Index)
(अ॒पा॒त् त्रीणि॑ च)