TA 3.14

4 पञ्चाशत्

T.A.3.14.1
भ॒र्ता सन् भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तु᳚म् । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति ॥ तमे॒व मृ॒त्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒ ॅवेद॑ स॒त्येन॒ भर्तु᳚म् ॥ स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जर॑न्तं॒ न ज॑हा॒त्येक᳚म्
कोर्वै (Index)
(एकं॑ - प्र॒जानां᳚ - गसाथां॒ - नव॑ )
T.A.3.14.2
उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒वः सद॑मे॒व प्रार्थः॑ ॥ यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्धां च॒ याꣳ स॑न्द॒धे ब्रह्म॑णै॒षः । रम॑ते॒ तस्मि॑न्नु॒त जी॒र्णे शया॑ने । नैनं॑ जहा॒त्यह॑स्सु पू॒र्व्येषु॑ ॥ त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः । व॒थ्सं पय॑सा पुना॒नाः । त्वम॒ग्निꣳ ह॑व्य॒वाहꣳ॒॒ समि᳚न्थ्से । त्वं भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ।
कोर्वै (Index)
(एकं॑ - प्र॒जानां᳚ - गसाथां॒ - नव॑ )
T.A.3.14.3
त्वं ॅय॒ज्ञ्स्त्वमु॑ वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚ । त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि ॥ नमो॑ वामस्तु शृणु॒तꣳ हवं॑ मे । प्राणा॑पानावजि॒रꣳ स॒चंर॑न्तौ । ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मां द्वेष्टि॒ तं ज॑हि तं ॅयुवाना ॥ प्राणा॑पानौ सम्ॅविदा॒नौ ज॑हितम् । अ॒मुष्यासु॑ना॒ मा संग॑साथां ( )
कोर्वै (Index)
(एकं॑ - प्र॒जानां᳚ - गसाथां॒ - नव॑ )
T.A.3.14.4
तं मे॑ देवा॒ ब्रह्म॑णा सम्ॅविदा॒नौ । व॒धाय॑ दत्तं॒ तम॒हꣳ ह॑नामि ॥ अस॑ज्जजान स॒त आब॑भूव । यं ॅयं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति ॥ तद्वै त्वं प्रा॒णो अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ( ) ।
कोर्वै (Index)
(एकं॑ - प्र॒जानां᳚ - गसाथां॒ - नव॑ )