शन्नो॑ मि॒त्रः शं ॅवरु॑णः । शन्नो॑ भवत्वर्य॒मा । शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑-रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं ॅव॑दिष्यामि । स॒त्यं ॅव॑दिष्यामि ( ) । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ मां । अव॑तु व॒क्तारं᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
कोर्वै (Index)
(स॒त्त्यम् ॅव॑दिष्यामि॒ पञ्च॑ च)