शन्नो॑ मि॒त्रः शं ॅवरु॑णः । शन्नो॑ भवत्वर्य॒मा । शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑ रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मा वा॑दिषं । ऋ॒तम॑वादिषं । स॒त्यम॑वादिषं ( ) । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्मां । आवी᳚द्व॒क्तारं᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
कोर्वै (Index)
(स॒त्यम॑वादिष॒म् पञ्च॑ च)