TA 5.7

1 पञ्चाशत्

T.A.5.7.1
पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्-दिशो॑ऽवान्तरदि॒शाः । अ॒ग्निर्-वा॒यु-रा॑दि॒त्य-श्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तं ॥ अथाद्ध्या॒त्मं । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् । चर्म॑ माꣳ॒॒ सꣳस्नावास्थि॑ म॒ज्जा ॥ ए॒त द॑धिवि॒धाय॒र्॒.षि॒ रवो॑चत् । पाङ्क्तं॒ ॅवा इ॒दꣳ सर्वं᳚ ( ) । पाङ्क्त॑नै॒व पाङ्क्तꣳ॑ स्पृणो॒तीति॑ ।
कोर्वै (Index)
(सर्व॒मेक॑म् च)