स य ए॒षो᳚ऽन्तर्.-हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ॥ अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लंब॑ते । से᳚न्द्र यो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्.षकपा॒ले ॥ भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ
कोर्वै (Index)
(वा॒या-व॒मृत॒ मेक॑म् च)