TA 5.15

10 पञ्चाशत्

T.A.5.15.1
भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ॥ तस्मा॑ ए॒तत् प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ॥ तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत् प्रय॑न्त्य॒भि सम्ॅवि॑शन्ति । तद् विजि॑ज्ञासस्व । तद् ब्रह्मेति॑ ॥ स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.2
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भि-सम्ॅवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.3
प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भि-सम्ॅवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.4
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भि-सम्ॅवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.5
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒-द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भि-सम्ॅवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.6
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒-द्ध्ये॑व-खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भि-सम्ॅवि॑श॒न्तीति॑ ॥ सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता ॥ य ए॒वं ॅवेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.7
अन्नं॒ न नि॑न्द्यात् । तद् व्र॒तं ॥ प्रा॒णो वा अन्नं᳚ । शरी॑रमन्ना॒दं । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितं । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥ स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ॅवेद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्-ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.8
अन्नं॒ न परि॑चक्षीत । तद् व्र॒तं । आपो॒ वा अन्नं᳚ । ज्योति॑रन्ना॒दं । अ॒फ्सु ज्योतिः॒ प्रति॑ष्ठितं । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥ स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ॅवेद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ । म॒हान् कीर्त्या ।
कोर्वै (Index)
(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ )
T.A.5.15.9
अन्नं॑ ब॒हु कु॑र्वीत । तद् व्र॒तं ॥ पृ॒थि॒वी वा अन्नं᳚ । आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्या-मा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥ स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ॅवेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ।