ओ-मिति॒ ब्रह्म॑ ॥ ओ-मिती॒दꣳ सर्वं᳚ ॥ ओमित्ये॒त-द॑नुकृति हस्म॒ वा अ॒प्यो श्रा॑व॒येत्या-श्रा॑वयन्ति । ओ-मिति॒ सामा॑नि गायन्ति । ओꣳ शोमिति॑ श॒स्त्राणि॑ शꣳसन्ति । ओमित्य॑द्ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्र-मनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वो-पा᳚प्नोति ।
कोर्वै (Index)
(ओम् दश॑)