स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसं ॥ अथातः सꣳहिताया उपनिषदं ॅव्या᳚ख्यास्या॒मः । पञ्चस्वधि-क॑रणे॒षु । अधिलोकमधि-ज्यौतिष-मधिविद्य-मधिप्रज॑-मद्ध्या॒त्मं । ता महासꣳहिता इ॑त्याच॒क्षते ॥ अथा॑धि लो॒कं । पृथिवी पू᳚र्वरू॒पं । द्यौरुत्त॑ररू॒पं । आका॑शः स॒न्धिः
कोर्वै (Index)
(स॒न्धि - राचार्यः पू᳚र्वरू॒प - मित्यधि॒प्रजम् - ॅलो॑के॒न)