TA 5.9

1 पञ्चाशत्

T.A.5.9.1
ऋतं च स्वाद्ध्याय प्रव॑चने॒ च । सत्यं च स्वाद्ध्याय प्रव॑चने॒ च । तपश्च स्वाद्ध्याय प्रव॑चने॒ च । दमश्च स्वाद्ध्याय प्रव॑चने॒ च । शमश्च स्वाद्ध्याय प्रव॑चने॒ च । अग्नयश्च स्वाद्ध्याय प्रव॑चने॒ च । अग्निहोत्रं च स्वाद्ध्याय प्रव॑चने॒ च । अतिथयश्च स्वाद्ध्याय प्रव॑चने॒ च । मानुषं च स्वाद्ध्याय प्रव॑चने॒ च । प्रजा च स्वाद्ध्याय प्रव॑चने॒ च ( ) । प्रजनश्च स्वाद्ध्याय प्रव॑चने॒ च । प्रजातिश्च स्वाद्ध्याय प्रव॑चने॒ च ॥ सत्यमिति सत्यवचा॑ राथी॒ तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाद्ध्याय प्रवचने एवेति नाको॑ मौद्ग॒ल्यः । तद्धि तप॑स्तद्धि॒ तपः ।
कोर्वै (Index)
(प्रजा च स्वाद्ध्यायप्रव॑चने॒ च षट्च॑)