TA 5.14

9 पञ्चाशत्

T.A.5.14.1
ब्र॒ह्म॒विदा᳚प्नोति॒ परं᳚ ॥ तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञा॒न-म॑न॒न्तं ब्रह्म॑ । यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्न् । सो᳚ऽश्नुते॒ सर्वा॒न् कामा᳚न्थ् स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः संभू॑तः । आ॒का॒शाद् वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योऽन्नं᳚ । अन्ना॒त् पुरु॑षः ॥ स वा एष पुरुषोऽन्न॑रस॒मयः ॥ तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इदं पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.2
अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीꣳ श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑यन्त्यन्त॒तः । अन्नꣳ॒॒ हि भू॒तानां॒ ज्येष्ठं᳚ । तस्मा᳚थ् सर्वौष॒ध मु॑च्यते । सर्वं॒ ॅवै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । अन्नꣳ॒॒ हि भू॒तानां॒ ज्येष्ठं᳚ । तस्मा᳚थ् सर्वौष॒ध मु॑च्यते । अन्ना᳚द् भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्द्धन्ते । अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति ॥ तस्माद्वा एतस्मा-दन्न॑रस॒मयात् । अन्योऽन्तर आत्मा᳚ प्राण॒ मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धतां । अन्वयं॑ पुरुष॒ विधः । तस्य प्राण॑ एव॒ शिरः ॥ व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.3
प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ् सर्वायु॒ष मु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ् सर्वायुष-मुच्य॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्मा᳚त् प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धतां । अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग् दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.4
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्मा᳚न् मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धतां । अन्वयं॑ पुरुष॒ विधः । तस्य श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.5
वि॒ज्ञानं॑ ॅय॒ज्ञ्ं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञानं॑ दे॒वाः सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒-मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद् वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्-कामान्थ्-समश्नु॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्माद्-वि॑ज्ञान॒मयात् । अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धतां । अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑-मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.6
अस॑न्ने॒व स॑ भवति । अस॒द् ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद् वे॒द । सन्तमेनं ततो वि॑दुरि॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ अथातो॑ऽनु प्र॒श्नाः ॥ उ॒ता वि॒द्वा न॒मुं ॅलो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं ॅलो॒कं प्रेत्य॑ । कश्चि॒त् सम॑श्नु॒ता(3) उ॒ ॥ सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दꣳ सर्व॑-मसृजत ॥ यदि॒दं किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒ प्रावि॑शत् ॥ तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चा नि॑रुक्तं च । नि॒लय॑नं॒ चा नि॑लयनं च । वि॒ज्ञानं॒ चा वि॑ज्ञानं च । सत्यं चानृतं च स॑त्य-म॒भवत् ॥ यदि॑दं कि॒ञ्च । तथ्सत्य-मि॑त्या च॒क्षते ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.7
अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानꣳ स्वय॑-मकु॒रुत । तस्मात् तथ् सुकृतमुच्य॑त इ॒ति ॥ यद्वै॑ तथ् सु॒कृतं । र॑सो वै॒ सः । रसꣳ ह्येवायं ॅलब्ध्वाऽऽन॑न्दी भ॒वति ॥ को ह्येवान्या᳚त् कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवान॑न्दया॒ति ॥ य॒दा ह्ये॑वैष॒ एतस्मिन्-नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रति॑ष्ठां ॅवि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति ॥ य॒दा ह्ये॑वैष॒ एतस्मिन्-नुदर-मन्त॑रं कु॒रुते । अथ तस्य भ॑यं भ॒वति ॥ तत्त्वेव भयं ॅविदुषो-ऽम॑न्वान॒स्य ॥ तदप्येष श्लो॑को भ॒वति ।
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.8
भी॒षाऽस्मा॒-द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मा-दग्नि॑-श्चेन्द्र॒श्च । मृत्युर् धावति पञ्च॑म इ॒ति ॥ सैषाऽऽनन्दस्य मीमाꣳ॑सा भ॒वति ॥ युवा स्याथ् साधु यु॑वाऽद्ध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः ॥ ते ये शतं मानुषा॑ आन॒न्दाः
कोर्वै (Index)
(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः । अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छꣳ॒॒ षड्विꣳ॑शतिः । प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः । यतः॑ श्र॒द्धर्तꣳ सत्यम् ॅयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञान॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः । अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श । भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ॅये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् । यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑)
T.A.5.14.9
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति ॥ एतꣳ ह वा व॑ न त॒पति । किमहꣳ साधु॑ नाक॒रवं । किमहं पाप-मकर॑व-मि॒ति ॥ स य एवं ॅविद्वानेते आत्मा॑नꣳ स्पृ॒णुते ॥ उ॒भे ह्ये॑वैष॒ एते आत्मा॑नꣳ स्पृ॒णुते । य ए॒वं ॅवेद॑ ॥ इत्यु॑प॒निष॑त् ।