वरु॑णो॒ दशा᳚क्षरेण वि॒राज॒-मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒-मुद॑जय॒द् विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑ दशाक्षरेण त्रयोद॒शꣳ स्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शꣳ स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शꣳ स्तोम॒मुद॑जय॒न्नदि॑तिः॒ षोड॑शाक्षरेण षोड॒शꣳ स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शꣳ स्तोम॒मुद॑जयत् ॥
पदपाठः (Word-by-word)
वरु॑णः । दशा᳚क्षरे॒णेति॒ दश॑ - अ॒क्ष॒रे॒ण॒ । वि॒राज॒मिति॑ वि - राज᳚म् । उदिति॑ । अ॒ज॒य॒त् । इन्द्रः॑ । एका॑दशाक्षरे॒णेत्येका॑दश - अ॒क्ष॒रे॒ण॒ । त्रि॒ष्टुभ᳚म् । उदिति॑ । अ॒ज॒य॒त् । विश्वे᳚ । दे॒वाः । द्वाद॑शाक्षरे॒णेति॒ द्वाद॑श - अ॒क्ष॒रे॒ण॒ । जग॑तीम् । उदिति॑ । अ॒ज॒य॒न्न् । वस॑वः । त्रयो॑दशाक्षरे॒णेति॒ त्रयो॑दश - अ॒क्ष॒रे॒ण॒ । त्र॒यो॒द॒शमिति॑ त्रयः - द॒शम् । स्तोम᳚म् । उदिति॑ । अ॒ज॒य॒न्न् । रु॒द्राः । चतु॑र्दशाक्षरे॒णेति॒ चतु॑र्दश - अ॒क्ष॒रे॒ण॒ । च॒तु॒र्द॒शमिति॑ चतुः-द॒शम् । स्तोम᳚म् । उदिति॑ । अ॒ज॒य॒न्न् । आ॒दि॒त्याः । पञ्च॑दशाक्षरे॒णेति॒ पञ्च॑दश - अ॒क्ष॒रे॒ण॒ । प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् । स्तोम᳚म् । उदिति॑ । अ॒ज॒य॒॒न्न् । अदि॑तिः । षोड॑शाक्षरे॒णेति॒ षोड॑श - अ॒क्ष॒रे॒ण॒ । षो॒ड॒शम् । स्तोम᳚म् । उदिति॑ । अ॒ज॒य॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । स॒प्तद॑शाक्षरे॒णेति॑ स॒प्तद॑श-अ॒क्ष॒रे॒ण॒ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । स्तोम᳚म् । उदिति॑ । अ॒ज॒य॒त् ॥