प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.7.12.2 TS 1.7.12.2
समु॑ब्जितः । तेषां॒ ॅविशि॑प्रियाणा॒-मिष॒मूर्जꣳ॒॒ सम॑ग्रभी-मे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाꣳ रस॒मुद्व॑यसꣳ॒॒ सूर्य॑रश्मिꣳ स॒माभृ॑तं । अ॒पाꣳ रस॑स्य॒ यो रस॒स्तं ॅवो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रुर् वरा॑य गा॒तुः । स प्रत्युदै᳚द् ध॒रुणो मद्ध्वो॒ अग्रꣳ॒॒ स्वायां॒ ॅयत् त॒नुवां᳚ ( ) त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥
पदपाठः (Word-by-word)
समु॑ब्जित॒ इति॒ सं - उ॒ब्जि॒तः॒ ॥ तेषा᳚म् । विशि॑प्रियाणा॒मिति॒ वि - शि॒प्रि॒या॒णा॒म् । इष᳚म् । ऊर्ज᳚म् । समिति॑ । अ॒ग्र॒भी॒म् । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ ॥ अ॒पाम् । रस᳚म् । उद्व॑यस॒मित्युत् - व॒य॒स॒म् । सूर्य॑रश्मि॒मिति॒ सूर्य॑ - र॒श्मि॒म् । स॒माभृ॑त॒मिति॑ सं - आभृ॑तम् ॥ अ॒पाम् । रस॑स्य । यः । रसः॑ । तम् । वः॒ । गृ॒ह्णा॒मी॒ । उ॒त्त॒ममित्यु॑त् - त॒मम् । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ ॥ अ॒या । वि॒ष्ठा इति॑ वि-स्थाः । ज॒नयन्न्॑ । कर्व॑राणि । सः । हि । घृणिः॑ । उ॒रुः । वरा॑य । गा॒तुः ॥ सः । प्रति॑ । उदिति॑ । ऐ॒त् । ध॒रुणः॑ । मद्ध्वः॑ । अग्र᳚म् । स्वाया᳚म् । यत् । त॒नुवां᳚ ( ) । त॒नूम् । ऐर॑यत ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । ए॒षः । ते॒ । योनिः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ ॥
पदसंख्या: 63