पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः)। [काम्येष्टियाज्यापुरोनुवाक्याविधानम्] अन्नाद्यमन्नमात्रं च वाञ्छतौ दीर्घरोगवान्। पुष्टीकामश्च नवम एतेषां पशवः श्रुताः।। अथ दशमेनुवाके नैमित्तिकाः पशवो विधातव्याः। तत्र दुर्ब्राह्मणस्य सोम पानेच्छां निमित्तीकृत्य पशुं विधत्ते आश्विनमिति। मलिनश्वैत्यं धूम्रत्वम। ललाटे शौक्ल्येन लाञ्छितोवशिष्टे शरीरे धूम्रवर्णः पशुरश्विनोः प्रियः। दुर्बाह्मणलक्षणं बौधायन आह “यस्य वेदश्च वेदी च विच्छिद्येते त्रिपुरुषम्।” स बै दुर्बाह्मणो नाम यश्चैव वृषलीपतिः” इति। पूर्वोक्तपुनरुत्सृष्टपशौ यो ब्राह्मणः तृतीयादित्युक्तत्वादीदृशो दुर्बाह्मणो नाधिकारी। अब तु सोमपाने श्रध्दालुत्वेनेच्छावत्वे सति दुर्बाह्मणोधिक्रियते। आश्विनग्रहब्राह्मणे तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरा भिषजा इत्युक्तत्वादपूतयोरितरदेववत्सेमपातृत्वं नास्ति। वश्चाद्यज्ञस्य च्छिन्नं शिरःप्रतिसंधाय तेन तुष्टेभ्यो देवेभ्यः सोमग्रहं लब्धवन्ती। तदपि तत्रैवाम्रातम—“तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्” इति। अतः समानशीलत्वाद्दुब्राह्मणस्य सोमं पिपासोरश्विनौ देवता। पशोर्घूम्रत्ववर्णेन दौर्ब्राह्मण्यलक्षण धूम्रिमाणं मालिन्यमस्मादपहन्ति। ललाटे शौक्ल्येनास्मिन्मुखद एव मुख्यमेव ब्रह्मवर्चसलक्षणं तेजो धत्ते। मिथ्यापवादं निमित्तीकृत्य कंचित्पशुं विधत्ते वायव्यमिति। गोभिः सहारण्ये चरितुं गताद्वृषभात्कस्यांचिन्मृग्यामुत्पन्नो गोमृगः। उभयलक्षणदर्शनात्तथात्वं निश्चेयम्। कश्चित्पुरुषो ब्राह्मणं न हतवांस्तथाशङ्रकया तादृशं यं पुरुषं जना ब्रह्महेत्यपवदेयुस्तस्यायं पशुः। यद्यप्यस्य पुरुषस्य ब्रह्महत्याप्रयुक्तो नरको नास्ति तथाप्यपूता वागृच्छत्येतं निन्दारूपा वाक् शङकितैर्जनैः क्रियमाणा प्राप्नोत्येव। तामेव निन्दां निमित्तीकृत्यैव विहितो गोमृगो मुख्यो ग्राम्यो न भवति। मृग्यामुत्पन्नत्वात्। नापि मुख्य आरण्यो वृषभदुत्पन्नत्वात्। अभिशस्तस्य ग्रामे नास्ति वासो बन्धुभिः सह व्यवहाराभावात्। नापि वानप्रस्थादिवदरण्ये ग्रामवासित्वात्। देवानांमध्ये वायोः पवित्रत्वं द्रव्यशुध्दिहेतुत्वादवगम्यते। तच्च याज्ञवल्येन स्मर्यते “रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मरुतार्केण शुध्यति पक्केष्टकचितानि च” इति। अनुष्ठितेप्यस्मिन्पशौ निन्दां केचिल्लौकिका न परित्यजन्तीतिचेत्तर्हि निदन्तु नाम ते। तथाप्यसावभिज्ञैः शिष्टैर्व्यवहार्य एव। सोमयागमध्य आश्विनशस्त्रकाले सूर्यानाविर्भावं निमित्तीकृत्य कंचित्पशुं विधत्ते पराचिति। अग्निर्होता गृहपतिः स राजेत्यादिकं सहस्रसंख्याकामिऋग्भिरुपेतं शस्त्रमाश्विनम्। तच्चातिरात्रयागे रात्रिपर्यायनामकेषु शस्त्रेषु पठितेषूषःकालात्प्राग्वेला यामारब्धव्यम्। तस्मिञ्शस्त्रे शस्यमाने सति सूर्य उदित्वा मेघाद्यावरणमन्तरेण यदाविर्भवेत्तदा नायं पशुरपेक्षितः। यस्य यजमानस्य तदानीं नाविर्भवेदेतस्मै यजमानायेयं रात्रिर्व्युच्छन्ती प्रभातं प्राप्नुवती सती न सम्यक्प्राप्नोति। किंतु पराची व्युच्छती पराङ्मुखी तस्मिन्नपरक्ता सती प्रभातं प्राप्नोति। तदानीमयं यजमानः प्रकाशविरुध्दं नमः स्वर्गविरोधिनं पाप्मानं च प्रविशति। तादृशस्यायं पशुः, स च बहुरूपश्चित्रवर्णः। प्रतीची संमुखी तस्मिन्ननुरक्तेत्यर्थः। तेन पशुना तमः पाप्मानं चापहन्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके दशमोनुवाकः।।१०।।"
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
यस्य वेदश्च वेदी च विछेद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः ॥ इति ।
न नियतौपासनिकस्य दौर्ब्राह्मण्यमित्याचार्यः । पश्चेति । 'पश्चपश्चाच्च' इति निपात्यते । पश्चादित्यर्थः । धूम्रिमाणमिति । धूम्रत्वं मलिनत्वम् । 'वर्णदृढादिभ्यः' इतीमनिच् । ललाम इति मत्वर्थीयो लुप्यते ॥