अनुवाकः 11 TS 2.1.11

(A11)

(नामा॒ - ऽग्निः सꣳ - शव॑सो॒ - रक्ष॑माणा - धी॒र्यां॑ चि॒दे - का॒न्न प॑ञ्चा॒शच्च॑)

अनुवाकः 11 - Complete Audio

TS 2.1.11 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रं॑ ॅवो वि॒श्वत॒स्परी न्द्रं॒
PS1.2 नरो॒ मरु॑तो॒ यद्ध॑ वो
PS1.3 दि॒वो या वः॒ शर्म॑
PS1.4 भरे॒ष्विन्द्रꣳ॑ सु॒हवꣳ॑ हवामहे ऽꣳहो॒मुचꣳ॑
PS1.5 सु॒कृतं॒ दैव्यं॒ जनं᳚
PS1.6 अ॒ग्निं मि॒त्रं ॅवरु॑णꣳ सा॒तये॒
PS1.7 भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚
PS1.8 म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्॒.हा
PS1.9 म॒मत्तु॒ वातो॑ अ॒पां ॅवृष॑ण्वान्न्
PS1.10 शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑
PS1.11 वरिवस्यन्तु दे॒वाः
PS1.12 प्रि॒या वो॒ नाम॑ -
PS1.13 [ ]
PS2.1 हुवे तु॒राणां᳚
PS2.2 आ यत् तृ॒पन्म॑रुतो वावशा॒नाः
PS2.3 श्रि॒यसे॒ कं भा॒नुभिः॒ सं
PS2.4 मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः
PS2.5 सुखा॒दयः॑
PS2.6 ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो
PS2.7 वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑
PS2.8 अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ्
PS2.9 सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षत॒ त्मना᳚
PS2.10 इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒
PS2.11 वरु॑णः॒ सꣳ शि॑शातु
PS2.12 सं नो॑ दे॒वो वसु॑भिर॒ग्निः
PS2.13 सꣳ - [ ]
PS3.1 सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः
PS3.2 समिन्द्रो॑ म॒रुद्भि॑ र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒
PS3.3 वरु॑णो अजिज्ञिपत्
PS3.4 यथा॑ऽऽदि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि
PS3.5 ए॒वा त्रि॑णाम॒न्न-हृ॑णीयमाना॒ विश्वे॑ दे॒वाः
PS3.6 सम॑नसो भवन्तु
PS3.7 कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा
PS3.8 नरो॑ नृ॒षद॑ने
PS3.9 अर्.ह॑न्तश्चि॒द्-यमि॑न्ध॒ते स॑जं॒नय॑न्ति ज॒न्तवः॑
PS3.10 सं ॅयदि॒षो वना॑महे॒ सꣳ
PS3.11 ह॒व्या मानु॑षाणां
PS3.12 उ॒त द्यु॒म्नस्य॒ शव॑स -
PS3.13 [ ]
PS4.1 ऋ॒तस्य॑ र॒श्मिमा द॑दे
PS4.2 य॒ज्ञो दे॒वाना॒म् प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒
PS4.3 भव॑ता मृड॒यन्तः॑
PS4.4 आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादꣳ॒॒ होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त्
PS4.5 शुचि॑र॒पः सू॒यव॑सा अद॑ब्ध॒ उप॑
PS4.6 क्षेति वृ॒द्धव॑याः सु॒वीरः॑
PS4.7 नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य
PS4.8 आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ
PS4.9 धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा
PS4.10 विश्व॑स्य॒ भुव॑नस्य गो॒पाः
PS4.11 दी॒र्घाधि॑यो॒ रक्ष॑माणा- [ ]
PS5.1 असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑
PS5.2 ति॒स्रो भूमी᳚र्द्धारय॒न् त्रीꣳ रु॒त
PS5.3 द्यून् त्रीणि॑ व्र॒ता वि॒दथे॑
PS5.4 अ॒न्तरे॑षां
PS5.5 ऋ॒तेना॑ऽऽ*दित्या॒ महि॑ वो महि॒त्वं
PS5.6 तद॑र्यमन् वरुण मित्र॒ चारु॑
PS5.7 त्यान्नु क्ष॒त्रियाꣳ॒॒ अव॑ आदि॒त्यान्. या॑चिषामहे
PS5.8 सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये
PS5.9 न द॑क्षि॒णा विचि॑किते॒ न
PS5.10 स॒व्या न प्रा॒चीन॑मादित्या॒ नोत
PS5.11 प॒श्चा
PS5.12 पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्
PS5.13 - [ ]
PS6.1 -यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां
PS6.2 आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन
PS6.3 अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं
PS6.4 ॅय॒ज्ञ्ं द॑धतु॒ श्रोष॑माणाः
PS6.5 इ॒मं मे॑ वरुण श्रुधी॒
PS6.6 हव॑म॒द्या च॑ मृडय
PS6.7 त्वाम॑व॒स्युरा च॑के
PS6.8 तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा
PS6.9 शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑
PS6.10 अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा
PS6.11 न॒ आयुः॒ प्रमो॑षीः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.11.1 TS 2.1.11.1
इन्द्रं॑ ॅवो वि॒श्वत॒स्परी न्द्रं॒ नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥भरे॒ष्विन्द्रꣳ॑ सु॒हवꣳ॑ हवामहे ऽꣳहो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जनं᳚ । अ॒ग्निं मि॒त्रं ॅवरु॑णꣳ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्॒.हा म॒मत्तु॒ वातो॑ अ॒पां ॅवृष॑ण्वान्न् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या वो॒ नाम॑ - [ ]
पदपाठः (Word-by-word)
इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ । मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । या । वः॒ । शर्म॑ ॥ भरे॑षु । इन्द्र᳚म् । सु॒हव॒मिति॑ सु - हव᳚म् । ह॒वा॒म॒हे॒ । अꣳ॒॒हो॒मुच॒मित्यꣳ॑हः - मुच᳚म् । सु॒कृत॒मिति॑ सु - कृत᳚म् । दैव्य᳚म् । जन᳚म् ॥ अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये᳚ । भग᳚म् । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । म॒रुतः॑ । स्व॒स्तये᳚ ॥ म॒मत्तु॑ । नः॒ । परि॒ज्मेति॒ परि॑-ज्मा॒ । व॒स॒र्॒.हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्वा॒निति॒ वृषण॑ - वा॒न् ॥ शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒तेती᳚न्द्रा - प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे᳚ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥ प्रि॒या । वः॒ । नाम॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः)। दौर्ब्राह्मण्यभिशापौ च सूर्योविर्भाववर्जनम्। निर्मितीकृत्य दशमे पशवः समुदीरिताः।। तैरतैर्दशाभिरनुवाकैः काम्यपशवः समापिताः। अथैकादशेनुवाके काम्येष्टि याज्या (पुरोनुवाक्य) उच्यन्ते। तस्मिंश्च काम्येष्टिकाण्डे पूर्वोदाहृतात्सोमारौद्रचरोरूर्ध्वं द्विहृविष्का काचिदिष्टिरेवमाम्नायते ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुत सप्तकपालं ग्रामकाम इन्द्रं चैव मरुतश्च स्वेन भागधेयेनाप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (सं. का. २प्र. २अ. ११) इति। प्रकृतौ सह प्रयुज्येमानयोरपि द्वयोः पुरोडाशयोरेकस्मिन्नेवाधिश्रयणम्। इह तु तद्वाधितुं विधत्ते “आहवनीय ऐन्द्रमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” [सं. का. २प्र. अ. १] इति। पापेन वस्यसं वसुमत्तरं पापवस्यसं पापाधिक्यापेतमित्यर्थः मरुतामुग्रदेवत्वात्तदीयं हविः पापवस्यसम्। ऐन्द्रस्य तद्धविषो विभागेनावधाणार्थं भिन्नाग्नावधिश्रयणम तत्रत्यकपालसंख्यां प्रशंसति “सप्तकपालो मारुतो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानवरुन्धे” (सं. का. २प्र. २अ. ११) इति। ईदृङ्गचेत्यादिनोक्ताः सप्तसंख्याका मरुत एको गणः। तथाविधाश्च गणाः सप्तसंख्याकाः। तेषां हविष्प्रदानेन गणशो बहुविधगणरूपान्भ्रातृमित्रभृत्यदीनवरुन्धे। प्रकृतौ सामिधेनीसंघानुवचनात्प्रागेव हविरासादनं, तदपवदितुं विधत्ते “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं. का. २प्र. २अ. ११) इति। अत्र सूत्रकारः “ऐन्द्रमासादयति सामिधेनीप्वनूच्यमानासु मारुतम्” इति। यजमानास्यानुकूलं वर्त्म वर्तन यस्या विशः सेयमनुवर्त्मा। अनयोरुभयोर्हविषोर्याज्यानुवाक्यानां पूर्वकाण्ड एव समाम्नातानां प्रतीकानु दाहरतिइन्द्र व इति। प्रथमं युग्मं षष्ठप्रपाठकस्यान्त्यानुवाके पठितम्। द्वितीयं युग्मं यु पञ्चमप्रापठकस्यान्त्यानुवाके पठितम्। तदर्थस्तु तत्रैव द्रष्टव्यः।"

"उक्तामेवेष्टिं फलान्तराय विधत्ते “एतामेव निर्वपेद्यः कामयेत क्षत्त्राय च विशे च समदं दध्यामित्यैन्द्रस्यवद्यन्ब्रूयादिन्द्रायानु ब्रूहित्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन्ब्रूयान्मरुद्भयोनु ब्रूहित्याश्राव्य ब्रूयादिन्द्रं यजेति स्व एवैभ्यो भागधेये समदं दधाति वितृ हाणास्तिष्ठन्ति” (सं. का. २प्र. २अ. ११) इति। मदेन सह वर्तत इति समदः कलहः। राज्ञः प्रजायाश्च परस्परं कलहं कुर्यामिति कामयितुरियामिष्टिः। अस्यामिष्टावयं प्रकृतेर्विशेषः – प्रकृतावाग्नेययस्यावदानकाले पुरोनुवाक्याप्रैषमुक्त्वा तदाश्रावणादूर्ध्वमाग्नेययाज्याया एव प्रैषं वदेत्, न तु देवतान्तरयाज्यायाः । सह त्वन्यविषयोनुवाक्याप्रैषोन्यविषयश्च याज्याप्रैष इति। एवं च सत्येभ्य इन्द्रमरुद्भ्यः स्वस्वभागे कलहं कृतवान्भवति। तदीयकलहानुसारेण राजा विशश्च वितृंहाणा विशेषेण परस्परं हिंसां कुर्वाणास्तिष्ठन्ति। कलहसमाधानकामस्य तामेवेष्टीं विधत्ते “एतामेव निर्वपेद्यः कामयेत कल्पेरन्निति यथादेवतमवदाय यथादेवतं यजेभ्दागधेयेनैवैनान्यथायथं कल्पयति कल्पन्त एव” (सं. का. २ प्र. २ अ. ११) इति। कल्पेरन्परस्परकलहरहिता भवेयुः। एतानिन्द्रमरुतः स्वस्वभागभाजिनः कल्पयति। तथा सति राजा विशश्च कल्पन्त एव कलहरहिता स्निग्धा भवन्त्येव। एतयोः कलहतत्समाधानार्थेष्ट्योः पूर्वोदाहृता एव याज्यानुवाक्याः । इष्ट्यन्तरं विधत्ते “ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्रं चैव विश्वाश्च देवान्त्स्वेव भागधेयेनेप धावति त एवास्मै सजातान्प्र यच्छति ग्राम्येव भवति” (सं. का. २ प्र. २ अ. ११) इति। प्रकृतौ हविर्द्वयस्य सहावदानं नास्ति। अत्र तु तद्विधते “ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येदयैन्द्रस्योपरिष्टादिन्द्रियेणैतास्मा उभयतः सजातान्परि गृह्णाति” (सं. का. २ प्र. २ अ. ११) इति। द्विर्हाविषोवद्यतीति श्रुतत्वादकेकस्य हविषो द्विर्द्विरवदान सहकर्तव्यम्। तथा सत्यत्र सकृदैन्दमवदाय ततो वैश्वदेवं द्विरवद्येत्पुनरप्युपरिष्टादैन्द्रमवद्येत। एवं सति यजमानार्थ सजातान्ग्रामनिवासिनः सर्वानुभयोः पार्श्वयोरिन्द्रियसामर्थ्ययुक्तान्करोति। अथ दक्षिणाविशेषं विधत्ते "

"“उपाधाय्यपूर्वयं वासो दक्षिणा सजातानामुपहित्यै” [सं. का. २ प्र. २ अ. ११] इति। वस्त्रस्योभयपार्श्वान्तयोरुपानीय स्थापनीयं रक्तसूत्रमुपाधाय्यं, तच्च पूर्वमेवोपानयनकाले वस्त्रं याति प्रामोतीति पूर्वयम्, उपाधाय्यं पूर्वयं यस्मिन्वाससि तदुपाधाय्यपूर्वयम्। अत एव सूत्रकारः—“उपाध्यायपूर्वयं वासो दक्षिणा (णेति) चित्रात्तम” इत्यर्थः (दिः) । सादृश्य वाससो दानं सजातानामुपहित्यै यजमान सेवायै संपद्यते। अस्यामिष्टौ पुरोनुवाक्यामाह—भरोष्बिन्द्रमिति। इन्द्रमग्न्यादिदेवां श्च भरेषु भ्रियमाणेषु संपाद्यमानेषु हविःषु हवामह आहवयामः। किमर्थं, सातये देवेभ्यो हविर्दानाय, स्वस्तये यजमानस्य श्रेयसे च। कीदृशमिन्द्रं, सुहवं सुखेनाह्वातुं शक्यम्। अहोमुचं पापान्मोचयितार, सुकृतं शोभनं हितं करोतीति सुकृतं, दैव्यं दिवि भवं, जनं जनयितारं वृष्टिद्वारेण सस्याद्युत्पादकम्। अत्र पूर्वार्धस्येन्द्रविषयत्वादुत्तरार्धस्येतरबहुदेवविषयत्वाच्च हविर्द्वयस्यैकैव पुरोनुवाक्या। तत्रैव याज्यामाहममत्तु न इति। परितः सर्वतो जेमनं भक्षणं यस्याग्नेः सोयं परिज्मा। स च नोस्मन्ममत्तु हर्षयतु। वासरस्य हन्ता गमयिता सूर्यः स च नो ममत्तु वातो नो ममत्तु। अपां वृषण्वान्वर्षकः पर्जन्यदेवो नो ममत्तु। प्रवतशब्देन कैलासादिपर्वतवासिदेवविशेषो हिमवान्वाभिधीयते। आश्वमेधिकेषु पशुविधिषु हिमवतो हस्तीति देवत्वश्रवणात्। हे इन्द्रापर्वतौ युवां नोस्माञ्शिशीतं तनू कुरुतंम्। पापबहुलानामस्माकं पापक्षयस्तनूकरणम्। तत्तेन हविष्प्रदानेन विश्वेदेवा नोस्मान्वरिवस्यन्तु परिचर्यासमये कृपयावलोकयन्तु। "

इष्ट्यन्तरं विधत्ते—“पृश्निनै दुग्धे प्रैयङ्गत्वं चरुं निर्वपेन्मरुभ्द्यो ग्रामकामः पृश्निये वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गनो मारुताः खलु वै देवतया सचाता मरुत एव स्वेन भागधेयेनोप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (स. का. २ प्र. २ अ. ११) इति। पृश्निः श्वेता गौस्तादृश्या गोर्मरुतां प्रियंगूनां (णां) चोत्पत्तिप्रसिध्दिः शाखान्तरीयार्थवाहे द्रष्टव्या। पृश्नियै प्रियंगव इत्यत्र पयसो जाता इत्यनुवर्तते। एकोदरत्वात्प्रियंगूनां(णां) मरुद्देवत्यत्वम्।

विधत्ते—“प्रियवती याज्यानुवाक्ये भवतः प्रियमेवैन समानाना करोति द्विपदा पुरोनुवाक्या भवति द्विपद एवाव रुन्धे चतुष्पदा याज्या चतुष्पद एव पशूनव रुन्धे” (सं. का. २ प्र. २अ. ११) इति। प्रियशब्दोस्ति ययोस्ते ऋचौ प्रियवत्यौ। ते चोदहरिष्येते। तत्प्रयोगाद्यजमानस्य समानानां मध्ये प्रियत्वम। तयोऋचोर्विद्यमानं पापप्राप्तं द्विपद(दा) त्वं चतुष्पद (दा) त्वं च मनुष्यप्राप्त्या पशुप्राप्त्या च प्रशस्यते। तत्र पुरोनूवाक्यां द्विपदामाह—प्रिया इति। मरुतस्तुराणां हविःस्वीकरं प्रति त्वरमाणानां वो युष्माकं प्रिया नाम प्रियाणि नामानि आहुव आह्वयामि। यद्यस्माद्यूयं तृपत्तृप्तिं वावशानाः कामयमानाः स्थ तस्मादाह्वयामि। तत्रैव चतुष्पदां याज्यामाह—श्रियसे कमिति। ते मरुतः पुरोवातरूपाः सन्तः कं सुखं श्रियसे प्राणिभिराश्रयितुं भानुभिर्भासकै रश्मिभिः सूर्यरश्मिभिः सहिताः संमिमिक्षिरे मेढुं वृष्ट्या भूमिं सम्यक्सेक्तुमिच्छन्ति। ते मरुत ऋक्वभिर्याज्यापुरो नुवाक्यरूपाभिऋग्भिः स्तुताः सन्तः सुखादयः शोभनं हविः खादितवन्तो भक्षितवन्तः। ततस्ते मरुतो वाशीमन्त उत्साहजनितघोषरूपबहुविधशब्दवन्त इष्मिणः स्वगृहान्प्रति गतिमन्तोभीरवः स्वकार्यस्य निष्पन्नत्वेन विघ्नकारिभ्योसुरेभ्यो भयरहिताः प्रियस्य मारुतस्य धान्नो मरुतां संबन्धि यत्प्रियं स्थानं तद्विदेः लब्धवन्तः।

"इष्ट्यन्तरं विधातुं प्रस्तौति “देवासुराः संयत्ता आसन्ते देवा पिथो विप्रिया आसन्तेन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैः स इन्द्रः प्रजापतिमुपाधावत्तमेतया संज्ञान्यायाजयदग्नये वसुमते पुरोडाशमष्टाकपालं निरवपत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुं ततो वा इन्द्रं देवा ज्यैष्ठ्यायामि समजानत” (सं. का. २ प्र. २ अ. ११) इति। देवा असुराश्च यदा युद्धार्थमुद्यतास्तदानीमहमेव ज्येष्ठो भविष्यामि नेतर इत्येवं परस्परं ज्यैष्ठ्यमनङ्गीकुर्वाणा देवाः परस्परं प्रियरहिताः सन्तः सेनां चतुर्धा विभज्य विविधं यथा भवति तथा प्रक्रान्तवन्तः। तत्र वसुभिः सहितोग्निरेकः संघः। रुद्रैः सहितः सोमो द्वितीयः संघः। मरुद्भिः सहित इन्द्रस्तृतीयः संघः। आदित्यैः सहितो वरुणश्चतुर्थः संघः। तदानीमीन्द्रः प्रजापतिमुपसेव्य तदुपदेशेन संज्ञानीनामिष्टिं कृतवान्। तत ऊर्ध्वमिष्टिसामर्थ्यादपगतमत्सरा देवा ज्यैष्ठ्यार्थमिन्द्रं सम्यगम्यनुज्ञातवन्तः। सम्यग्ज्ञायते ययेष्ठ्यासौ संज्ञानी। तानूनप्त्रार्थवादत्वेन संज्ञान्या अननुष्ठितत्वान्नास्ति कस्यचित्प्राधान्यं, किंतु स्वकार्यसिद्धिमभिप्रेत्य सर्वे मात्सर्यं जहुः। इह त्विष्टिप्रसादादिन्द्रस्य प्राधान्यम। एतच्चोभयं कल्पभेदाद्युगभेदाद्वा द्रष्टव्यम्। विधत्ते “यः समानैर्मिथो विप्रियः स्यात्तमेतया संज्ञान्या याजयेदग्नेय वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्दाय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुमिन्द्रमेवैनं भूतं ज्येष्ठ्याय समाना अभि संजानते वसिष्ठः समानानां भवति” (सं. का. २ प्र. २ अ. ११) इति। इन्द्रमेव भूतं स्वामिनमेव सन्तमेनं यजमानं ज्येष्ठ्यार्थं सभ्यगभ्यनुजानन्ति। ततोयं समानानां वसिष्ठो वासयितृतमः पालको भवति। तत्र पुरोनुवाक्यामाह अग्निरिति। वसुभिः सहितोग्निः प्रथमसंघाधिपतिर्नोस्मानवतु। रुद्रैः सहितः सोप्रस्त्मनास्वयमेव प्रीतिपुरःसरमाभिरक्षतु। मरुद्भिः सहितः इन्द्र ऋतुधा तत्तदृतूचितभोगधारिणोस्मान्करोतु। आदित्यैः सहितो वरुणो नोस्मान्संशिशातु संशितव्रतान्सम्य गनुष्ठितव्रतान्करोतु। तत्रैव याज्यामाह—सं नो देव इति। वसुभिः सहितोग्निर्देवो नोस्मान्समजिज्ञिपत्सम्यगनुष्ठानं ज्ञापयतु। रुद्रसंबन्धिनीभिस्तनूभिः सहितः सोमः समजिज्ञिपत्। यज्ञयोग्यैर्मरुध्दिः सहित इन्द्रः समजिज्ञिपत्। आदित्यैः सहितो वरुणः समजिज्ञिपत्। तत्रैवविकल्पितामन्यां याज्यामाह—यथादित्या इति। पूर्वोक्तेषु संघचतुष्टयमध्यवर्तिषु देवेषु यथा वरुणसमीपवर्तिन आदित्या अग्निसमीपवर्तिभिर्वसुभिः संबभूवः संमताः प्रीतियुक्ता बभुवुः, यथा चेन्द्रसमीवार्तिभिर्मरुभ्दिः सह सोमसमीपवर्तिनो रुद्रा अभिसमजानत ज्यैष्ठ्यं सम्यगभ्यनुज्ञातवन्तः,त्रीणि नामान्याहवनयिगार्हपत्यदक्षिणाग्निरूपाणि हव्यवाहनकव्यवाहनसहरक्षोरूपाणि वा यस्याग्नेः सोग्निस्त्रिणामा हे त्रिणामन्नेवा, एवमेव यथा रुद्रादयस्तद्वद्विघे देवा अन्येपि रुद्रादिसमीपवर्तिनो देवाः सर्वेहृणीयमाना वैरिभिर नपह्रियमाणविभूतयः समनसः परम्परं समानमनस्का भवन्तु। यद्यप्यत्र चत्वारि हवींषि तथापि सहप्रदातेन पुरोनुवाक्याया भेदो नास्ति, तथा याज्याया अपि यथा पूर्वत्र ग्रामकामं प्रति विहितयोरैन्द्रवैश्वदेवहविषोः सहप्रदानात्पुरोनुवाक्यादिभेदो नास्ति। अत्रैव स्विष्टकृतः पुरोनुवाक्यामाहकुत्राचिद्यस्येति। यस्य स्विष्टकृद्देवस्य समृतौ संततौ सत्यां नृषदने मनुष्यस्थाने ग्रामगृहादौ कुत्राचिद्यत्र कुत्रापि नरो मनुष्या रण्वा रममाणास्तिष्ठन्ति, किंच यं स्विष्टकृद्देवमर्हन्तश्चिन्मन्त्रविशेषैः पूजयन्त एव तदीयाहुत्यर्थमिन्धते वह्विं प्रज्वलयन्ति, प्रज्वाल्य च जन्तबो यजमानाः संजनयन्ति समीचीनं फलमुत्पादयन्ति, तादृशः स्विष्टकृद्देवः प्रसीदत्विति शेषः। तत्रैव याज्यामाहसं यदिष इति। यद्यस्मात्कारणदिष इष्यमाणान्यन्नानि संवनामहे स्विष्टकृद्देवप्रसादेन सम्यग्भजामः, मानुषाणां यजमाननां हव्या होमयोग्यानि द्रव्याणि संवनामहे, उतापि च द्यन्नस्य धनस्य शवसो बलस्य ऋतस्य यज्ञस्य च रश्मिं रश्मिवत्प्रकाशमुत्कर्षमाददे स्वी कुर्मः, तस्मात्कारणादेवमनुग्रहीतारं स्विष्टकृद्देवं भजाम इति शेषः। इष्ट्यन्तरं विधत्ते “आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपदे्भूतिकाम आदित्यावा एतं भूत्यै प्रति नुदन्ते योलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्यानेव भुवद्वतः स्वेन भागधेयेनो प धावति त एवैवं भूतिं गमयन्ति भवत्येव ” (सं. का. २प्र. ३अ.१) इति। यदीययोर्याज्यापुरोनुवाक्ययोर्भुवच्छब्दः श्रूयते त एत आदित्या भुवद्वन्तः। यद्यपि पुरोनुवाक्यायां भवता मृडयन्त इति भवतेत्ययं शब्दः पठितः, यद्यपि च याज्यायां भवति प्रणीताविति भवतीत्येष शब्दः पठितो न तु भुवच्छब्दः क्काप्यस्ति, तथापि वर्णविकारमभिप्रेत्य भुवद्वद्भ्य इत्युच्यते। एवमन्यत्रापि वायवे नियुत्वत आलभेत, अग्नेय पथिकृत इत्यादौ विशेषणैर्याज्यानुवाक्यागताः शब्दः स्मर्यन्त इति द्रष्टव्यम्। ते च याज्यादिगताः शब्दास्तत्तत्प्रकृतोचितफलस्य सूच काः। अतोत्रापि भूतिसूचकभुवच्छब्दवन्त इत्युक्तं भवति। तथा सति भुवद्वन्तः फलत्वेन दादव्यभूतिमन्त इत्यर्थोपि लभ्यते।"

"तत्र पुरोनुवाक्यामाह—यज्ञो देवानामिति। अथं यज्ञो देवानां सुम्नं सुखं प्रत्येति गच्छति प्रवर्तते। हे आदित्यसो यूयमस्मान्मृडयन्तः सुखयन्तो भवत तिष्ठत। युष्माकं सुमतिरनुग्रहबुध्दिरर्वाचीनेष्बस्मासु प्रवृत्ता सती, आववृत्यादावर्तताम्। या सुमतिरंहोश्चिदस्मदीयपापादपि आवर्तते पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तरासदतिशयेन परिचर्याभिज्ञा भवतु। तत्रैव याज्यामाह—शुचिरप इति। अथं यजमानः शुचिः सन्नपोनुष्ठीयमानं कर्मोपक्षेति समीपे प्राप्नोति। कीदृशोयं, सूयवसाः शोभनं यवसं तृणं तेनोपलक्षितमन्नादिभोग्यं यस्य सोयं सूयवसाः अदब्धः कैरपि शत्रुभिरतिरस्कृतः, वृध्दं दीर्घ वय आयुर्यस्यासौ वृध्दवयाश्चिरजीवीत्यर्थः। शोभना वीराःपुत्रा भृत्याश्च यस्यासौ सुवीरः। य ईदृशो यजमान आदित्यानां प्रणीतौ प्रणयने कर्मणि भवति प्रवर्तने तं यजमानं शत्रवोन्तितः समीपे नकिर्घ्नन्ति न विनाशयन्ति। दूरादपि न घ्नन्ति। नकिः शब्दो निषेधवाची। इष्ट्यन्तरं विधत्ते—“आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुध्दो वापरुघ्यमानो वादित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव धारयद्वतः स्वेन भागधेयेनोप धावति त एवैनं विशि दाध्रत्यनपरुध्यो भवति” (सं. का. २ प्र. ३ अ. १) इति। धारयच्छब्दो यदीययोर्याज्यानुवाक्ययोप्रविर्तते त इमे धारयद्वन्तः। स्थानभ्रष्ट स्वस्थाने धारयितुं क्षमा इति तस्य पदस्य पर्यवसितार्थः। ये राजा पूर्व स्वराष्ट्राद्वैरिणा निःसारितः सोपरुध्दः यस्त्विदानीं निःसार्यते सोपरुध्यमानः, तयोरन्यतरस्येयमिष्टिः अपरोध्दारः पर्वं निःसारयितारः। अवगमयितार इदानीं निःसारयितु द्युताः अथवा पुनः स्वराष्ट्रं प्रापयितारः। विशि स्वराष्ट्रगतप्रजायां दाध्रति धारयन्ति स्थापयन्तीत्यथः। ततोयं वैरिभिरपरोध्दुमशक्यो भवति। तत्र पुरोनुवाक्यामाह धारयन्त इति। आदित्या अस्मदभिमतं कुर्वन्त्विति वाक्यशेषः। कीदृशाः, धारयन्तोपरुध्दं यजमानं स्वराष्ट्रे स्थापयन्तः, जगत्स्थाः कृत्स्तं जगदनुग्रहीतुं तत्र तत्र तिन्ष्ठति, यद्वा जगध्दारयन्त इत्यत्रान्वयः। स्थाः स्थिताः, देवा दीव्यन्तः। विश्वस्य भुवनस्य गोपाः पालयितारः, जगध्दारयितुं दीर्घभूता धीर्येषां ते दीर्घधियः असवः प्राणास्ते यस्य सन्ति सोयं यजमानोसुरस्तस्मै हितमिदं कर्मासुर्यम्। यद्वा राक्षसवद्वाको राजासुरस्तन्निबारणायोपयुक्तमिदं कर्मासुरवदिति असूर्यं, तद्रक्षमाणः ऋसं सत्यं स्वराष्ट्रे यजमानं स्थापयाम इत्येतादृशवचनं तद्युक्ता ऋतावानः, ऋणानि चयमाना अपरोद्धुर्वैरिणो दारिद्र्यसंपादनेन बहुन्यृणानि संपादयन्तः। तत्रैव याज्यामह—तिस्त्रो भूमीरिति। हेर्यमन्वरुण मित्र, एतैस्त्रिभिर्नाभ भिरुपलक्षिताः सर्वेपि द्वादशादित्या वो युष्मांक तन्महित्वं माहात्म्यं चारु रमणीयं महि महदधिकं च। कयं माहात्म्याधिकं तदुच्यते—तिस्रो भूमीः स्वर्गंमर्त्यपातालरूपा धारयन्धरितवन्तः। अपि च त्रीन्द्यून्सूर्यचन्द्रवह्निगतान्प्रकाशन्धारितवन्तः। तत्र सूर्यरश्मिरूपस्य प्रकाशस्य धारयितृत्वं स्पष्टम्। सूर्यरश्मय एव जलमयेन चन्द्रमण्डलेन व्यवहिताः शीतस्पर्शा अभिभूतोष्णस्पर्शा ज्योत्स्नारूपेणावभासन्त इति केषांचिन्मतम्। एतदेवाभिप्रेत्य श्रूयते—“सुषुम्रः सूर्यरश्मिश्चन्द्रमा गन्धर्वः” इति। अग्निदीप्तेरादित्यसंबधश्च स्पष्टमेव श्रूयते—“उद्यन्तं वावादित्यमग्निरनुसमारोहति इति। तस्मात्प्रकाशत्रयबारयितृत्वं युक्तम्। किंचैषां यजमानानां विदये यज्ञे यानि त्रीणि व्रतान्यन्सःस्थितानि मनोवाक्कायकर्म निष्पाद्यानि वा नित्यनैमित्तिककाम्यरूषाणि या तानि सर्वाणि ऋतेन पालयिष्माम इत्येतादृशेन सत्यवचनेन धारितवन्तः।” अत्र पूर्वमपरुद्धस्य नास्ति विशेषाङ्गोपदेशः। अपरुध्यमानस्य तु प्रयोगे सोस्ति। तत्र कंचिन्मन्त्रमुत्पाद्य विनियुङ्गक्ते “अदितेनु मन्यस्वेत्यपरुध्यमानोस्य पदमा ददीतेयं वा अदितिरियमेवास्मै राज्यमनु मन्यते” (सं. का. २ प्र. ३ अ. १) इति। हेदिते भूमे त्वमनुमन्यस्व राष्ट्रप्रवेशार्थं मामनुमन्यस्वेत्येतं मन्त्रमुच्चारयन्नस्य शत्रोः पदाङ्कितभूरज आददीत। इयं पृथिव्येवादितिशब्दवाच्या, सैवास्या अपरुध्यमानार्थं राज्यमङ्गी करोति। "

"मन्त्रान्तरमुत्पाद्य व्याचष्टे “सत्याशीरित्याह सत्यामेवाशिषं कुरुते” (सं. का. २ प्र. ३ अ. १) इति। आशीरस्पदपेक्षितं फलं सत्यमस्त्विति शेषः। अन्यं मन्त्रमुत्पाद्य व्याचष्टे “इह मन इत्याह प्रजा एवास्मै समनसः करोति” (सं. का. २ प्र. ३ अ. १) इति। इह मदीये राष्ट्रप्रवेशे प्रजानां मनोनुकूलं भवत्विति शेषः। पुनरपि मन्त्रान्तरमुत्पाद्य व्याचष्टे “उष प्रेत मरुतः सुदनव एना विश्पतिनाभ्यमु राजनभित्याह। मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवैन राष्ट्रेण समर्धयति” (सं. का. २ प्र. ३ अ. १) इति। हे सुदानवः सुष्ठुराष्ट्रप्रवेशदातारो मरुतो यूयमेना विश्पतिनैतेन विरोधिना राष्ट्रपतिना सह योद्धुममुं वीरसिंहवर्माणं संजिहीर्षमाणमपरुध्यमानं राजानमभिमुखीकृत्योपप्रेत समीपे गच्छेत। अस्मिन्मन्त्रे विष्पतिनेति यदुक्तं तत्र या विट्प्रजा सा मरुतामधीनत्वान्मारुती, तस्या विशः पतिज्येष्ठोपरोध्दा, तेन ज्येष्ठेन विश्पतिना सह योद्धुमित्येवं ब्राह्मणेनोक्तस्य व्याख्यानस्य शेषः पूरणीयः। एतस्य ब्राह्मणव्याख्यानमन्त्रस्य पाठे सति प्रजया देशेन चैनं यजमानं समृध्द करोति। एतेषां मन्त्राणां विनियोगमापस्तम्बो दर्शयति—“हविष्कता वाचं विसृज्योप प्रेत मरुत सुदानव इति यजमानमभ्येति सत्याशीरिति यजमानस्योत्तरे वाससि पदै कदशं निवपतीह मन इत्युरसि शेषं निवपति” इति। "

अत्र कंचित्प्रयोगविशेषं क्रमेण विधत्ते “य परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्वीहीना हरेच्छुक्लाश्च कृष्णाश्च विचिनुयाद्ये शुक्ला स्युस्तमादित्यं चरुं निर्वपेदादित्या वै देवतया विडविशमेवाव गच्छति” सं. का. २ प्र. ३ अ. १ ) इति।

"ग्रामेभ्यो हितं ग्राम्यं तद्राज्ञोग्रे वदतीति ग्राम्यवादी। स द्विविधः अन्तरङ्गो बहिरङ्गश्च। तत्र बहिरङ्गः सभायामेय वदति। अन्तरङ्गःस्तु सभायाः परस्तादन्तःपुरे गत्वा गूढं हितं वदति तस्य गृहाद्व्रीहीनाहरेत्। विट्शब्दवाच्यायाः प्रजाया आदित्यदेताकत्वादादित्य चरुणा विशमेव प्राप्नोति। विभक्तानां द्विविधतण्डुलानी मध्ये शुक्लैरादित्यचरु विधाय कृष्णैर्वारुण चरुं विधत्ते “अवगतास्य विडनवगत राष्ट्रमित्याहुर्ये कृष्णा स्युस्तं वारुणं चरुं निर्वपेद्वारुणं वै राष्ट्रमुभे एवं विशं च राष्ट्रं चाव गच्छति” (सं. का. २ प्र. ३ अ. १ ) इति। अस्य यजमानस्यादित्यचरुणा यद्यपि प्रजा प्राप्ता भवति तथापि राष्ट्रं भूमिविशेषस्तावता न प्राप्यत इत्यभिज्ञा आहुः। अतस्तत्प्राप्तये वारुणं निर्वपेत्। यथा प्रजाया आदित्या देवता तद्वद्राष्ट्रस्य वरुणो देवता, ततस्तयोस्तुष्टया तदुभयं प्राप्यते। योयमरुध्यमानस्तस्यापरुध्दवद्यत्कमं विहितं तस्मिन्कर्मणि पूर्वोक्त एव याज्यानुवाक्ये। यत्तु यः परस्तादित्यादिना हर्विद्वयप्रयोगरूपं कर्मान्तर विहितं तत्र शुक्लहविषः पुरोनुवाक्यामाह त्यान्नु क्षत्रियामिति। वयं यजमाना अभिष्ट्ये देवताभिमुख्येन कर्तव्येष्टिसिध्द्यर्थमादित्यान्प्रत्यवोयाचिषामहे रक्षणं प्रार्थयामहे। कीदृशानादित्यान येषां पूर्वगन्त्रे माहात्म्यं प्रपंञ्चितं त्यान्नु तानेव क्षत्रियान्क्षत्रियवत्प्रबलान्सुमृडीकान्सुष्ठु सुखवितृन्। तत्रैव याज्यामाह न दक्षिणेति। हे वसवो वासयितार आदित्या वैरिणा परुध्यमानोहं तेनापराधेन व्यामूढचित्तः सन्किमपि न विचिकिते विशेषेण न जानाभि, इदं दक्षिणमिदं सव्यमिदं प्राचीनमिदं प्रतीचीनमिति कमपि विवेकं नानुभवामि। क इव, पाक्या चित्पाक्य इव धीर्या चिद्धीर्य इव। पूर्वं पक्वो न भवतीतः परं पाकं नेतव्यः पाक्योपरिपक्वधीर्बाल इत्यर्थ। युष्मानीतो युष्माभिः स्वकीयां विशं प्रापितः सन्नभयं ज्योतिः शत्रुभयरहितं विवेकज्ञानमश्यां प्राप्नुयाम्। तत्रैव विकल्पितमन्यां याज्यामाह आदित्यानामिति। यजमाना वयमादित्यानां संबन्धिना नूतनेनेदानीं संपादितेनावसा रक्षणेन युक्ता। कर्मणा शतमेव सर्वोपद्रवरहितत्वादतिशान्तेन सुखेन सक्षीमहि सक्ता भवेम। हे आदित्या भवन्तोनागास्त्वेस्मदीये निरपराधित्वेदितित्वे सर्वदैवाखण्डितत्वे निमित्तभूते सति श्रोषमाणा अस्मदीयां स्मृति शृण्वन्तस्तुरासस्त्वरमाणा इमं यज्ञं दधतु धारयन्तु। कृष्णव्रोहिचरौ पुरोनुक्यामाह—इमं म इति।"

हे वरुण म मदीयमिमै हवमाह्वानं श्रुधि शुणु। श्रुत्वा चाद्यास्मान्मृड्य सुखय। अहं चावस्युः पालनेच्छुस्त्वामाचक आ समन्ताच्छब्दयामि प्रार्थयामि। तत्रैव याज्यामाह—तत्त्वा यामीति। तत्तस्मै रक्षणाय ब्रह्मणा मन्त्रैण वन्दमानस्त्वा यामि त्वां प्राप्नोमि। अथं यजमानो हविर्भिराराध्य तद्रक्षणमाशास्ते। हे वरुणाहेडमानः क्रोधरहित इह क्रर्मणि बोधि अस्माद्विज्ञापनां बुध्यस्व। हे उरुशंस प्रभूतस्तुते नोस्माकमायुर्माप्रमोषीर्मा विनाशय। अपरुध्यमानस्य विशो राष्ट्रस्य च प्राप्तये द्विहविष्का काचिदिष्टिरुक्ता। के नचित्प्रतिबन्धविशेषेण यदि कृतायामपीष्टो तत्प्राप्तिः प्रतिबध्येत तदानीं विशेषं विधत्ते “यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाभ्यामुष्मादमुष्यै विशोवगन्तोरिति निर्वपेदादित्या एवैनं भागधेयं प्रेप्सन्तो विषमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इममित्यादिनिर्बापमन्त्रोत्रैवोत्पाद्यते। अहं यजमानोमुष्माद्वैरिणोमुष्यास्तदीयप्रजायाश्चानीयेमं व्रीहीरूपं हविर्भागमादित्येभ्यो निर्वपामि। किमर्थम्। अवगन्तोरस्मदीयां प्रजां राष्ट्रं चावगन्तुम्। अनेन मन्त्रेण निर्वापे सत्यादित्याः स्वयमेव तं भागमपेक्षमाणा एनं यजमानं स्वकीयां विशं प्रापयम्ति। प्रतिबन्धाधिक्ये सति तावताप्यप्राप्तौ पुनरन्यं विशेपं विधत्ते “यदि नावगच्छेदाश्वत्थान्मयूखान्त्सप्त मध्यपेषायामुप हन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोबगन्तोरित्यादित्या एवैनं बद्धवीरा विशमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इदमित्यादिर्बन्धनमन्त्रः। अमुष्माद्वैरिणः सकाशादमुष्या मदीयाया विशोवगन्तोः प्राप्तये यजमानोहमादित्यानिदं बध्वामि। इदमिति हस्तेन प्रदर्शनम्। अनेन मन्त्रेणाश्वत्थजन्यान्सप्त शङकूह्नविर्धारिणः शकटस्य मध्यमायामीषायांकीलप्रक्षेपेण बध्नीयात्। तथा सत्यादित्याः स्वयमेव बध्दवीराः सन्तः स्वकीयान्भृत्यान्मोचयितुमेनं यजमानं विशं प्रापयन्ति। ततोपि प्रबलतरप्रतिबन्धके सति पुनरप्यन्यं विशेषं विधत्ते “यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेदिध्मेपि मयूखान्त्सं नह्येदनपरुध्यमेवाव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। पूर्वत्र मध्यमायामीषायां शङ्कवः कीलिताः इदानीमिध्मेपि शङकुबन्धनं विशेषः। तेषां शङकूनां पूर्ववद्वृक्षविशेशं विधत्ते “आश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। अश्वत्थस्थ मरुदोजस्त्वमर्थवादान्तरे द्रष्टव्यम्। शङकुसंख्यां विधत्ते “सप्त भवन्ति सप्तगणा वै मरुतो गणश एव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। एतेषु सर्वेष्वपि प्रयोगेषु पूर्वोक्ते एव याज्यानुवाक्ये द्रष्टव्ये। अत्र विनियोगसंग्रहः “ऐन्द्रयागे त्विरुद्रमिन्द्रं मरुद्यावेति मारुते। भरेषु वैश्वदेवेन्द्रे प्रिया प्रैयंगवे चरौ।। अग्निर्वसुमदादीनां चतुर्णां हि समूहके। यथा विकल्पिता याज्या कुत्र स्विष्टकृतो द्वयम्।। यज्ञो भुवद्वति चरौ धारयन्धारयद्वति। त्यान्नुत्रयं शुक्लचराविमं कृष्णचरौ तथा। एकादशेनुवाके स्मिन्मन्त्रा द्वाविंशतिर्मताः।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः।। ११ ।।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्रिद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराज परमेश्वरस्यश्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण यजुर्वेदीयतत्तिरीयसंहिताभाष्ये द्वितीय काण्डे प्रथमः प्रपाठकः।।१।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ याज्याकाण्डं वैश्वदेवमेव । तत्र 'ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः' इत्यस्य द्विहविष इष्टेरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, 'इन्द्रं वो विशतस्परि हवामहे' इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् । हे ऋत्विग्यजमानाः वः युष्मदर्थं विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥
2 तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं 'यत्सर्वेषामर्धमिन्द्रः प्रति' इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥
3 अथ मारुतस्य सप्तकपालस्य पुरोनुवाक्या - मरुतो यद्ध व इति गायत्री ॥ इयमपि 'वैश्वानरो नः' । इत्यत्र व्याख्याता । इह तु प्रतीकग्रहणम् । हे मरुतः वः युष्मान् सुम्नायन्तः सुखमिच्छन्तो वयं यद्यस्माद्दिवो द्युलोकात् हवामहे आह्वयामः तस्मादस्मान् शीघ्रमुपगन्तन उपगच्छतेति ॥
4 तत्रैव याज्या - या वश्शर्मेति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकग्रहणमिहास्याः । हे मरुतः युष्माकं यानि यानि शर्माणि सुखानि शशमानाय युष्मान् वृषणः वर्षितारः कामानामस्मभ्यं सुवीरं शोभनपुत्रादिकं रयिं धनं धत्तेति ॥
5 ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकामः' इत्यस्याः पुरोनुवाक्या - भरेर्ष्विन्द्रमिति जगती ॥ भरेषु सङ्ग्रामेषु इन्द्रं सुहवं स्वाह्वानं आह्वानप्रयोजनस्य शीघ्रं कर्तारम् । प्रत्ययोत्पत्तेः प्रागेव 'बहुलं छन्दसि' इति सम्प्रसारणे अकारान्तलक्षणस्याचोप्रसङ्गात्, 'ईषद्दुस्सुषु' इति खल्, कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । हवामहे आह्वयामः पूर्ववत्सम्प्रसारणम् । यद्वा - सुहवं सुयुद्धं युद्धे जेतृत्वात् । 'भावेनुपसर्गस्य' इति ह्वयतेरप्प्रत्यये सम्प्रसारणम्, तेनैव बहुव्रीहौ, 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अंहोमुचं पापेभ्यो मोचयितारं सुकृतं सुष्ठु कर्तारम् । 'सुकर्मपाप' इति करोतेः क्विप् । दैव्यं दिवि भवम् । 'देवाद्यञञौ' इति यञ् । जनमन्यमपि द्युलोके जातम् । एकैकत्वेन तमाचष्टे - अग्निं मित्रं वरुणं सातये । 'ऊतियूति' इत्यादिना सनेः क्तिन्प्रत्ययो निपात्यते । भगं द्यावापृथिवी मरुतश्च, एतानप्याह्वयामः । किमर्थम् ? सातये लाभाय अभिमतानि नो दद्युरिति । किञ्च – स्वस्तये ग्रामस्य चाविनाशार्थम् ॥
6 अथ तत्रैव याज्या - ममत्तु न इति त्रिष्टुप् ॥ ममत्तु तृप्यतु नः अस्मदर्थं अस्मान्वा अभिमतप्रदानेन तर्पयतु । परिज्मा परितस्सर्वतः भक्षयिता । 'श्वन्नुक्षन्' इत्यादिना जनेः कनिन्प्रत्ययो निपात्यते । अजेर्वा जिनातेर्वा अग्निरुच्यते । वसर्हा अग्निहोत्रशरणाभिमुखस्थानार्हा वसनार्हा । नाशब्दो लुप्यते, पृषोदरादिः, 'सुपां सुलुक्' इति सोराकारः । यद्वा - वसितॄणां छादयितॄणां काष्ठादीनां हन्ता । छान्दसो रेफोपजनः । वस्तेः पचाद्यचि हन्तेः क्विप् । कश्चिदाह - वासरस्य हन्ता गमयिता वसर्हा । वर्णविकारलोपौ छान्दसौ । आदित्य उच्यते । वातो वायुश्च ममत्तु । अपां वृषा वर्षिता पर्जन्यः तद्वान् तत्सहितो वातः । अनो नुट् । हे इन्द्रापर्वता इन्द्रापर्वतौ । पर्वतस्संवत्सर इत्येके । युवामपि नोस्मान् शिशीतिं तनूकुरुतं निर्मलीकुरुतम् । श्यतेः 'बहुलं छन्दसि' इति शपश्श्लुः, ईत्वं च । तत्तस्माद्विश्वेपि देवाः अन्येपि जनाः नः अस्मभ्यं वरिवस्यन्तु अन्नं दातुमिच्च्छन्तु ; वरिवोन्नम् । 'छन्दसि परेच्छायाम्' इति क्यच् ॥
7 'पृश्नियै दुग्धे प्रैयङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः' इत्यस्याः पुरोनुवाक्या - प्रिया वो नामेति द्विपदा त्रिष्टुप् ॥ हे मरुतः वः युष्माकं प्रिया प्रियाणि नाम नामानि । 'सुपां सुलुक्' इति लुक् । तुराणां कार्यं प्रति त्वरमाणानां हुवे आह्वयामि । पूर्ववत्सम्प्रसारणम् । आ इति आङ्पदश्रवणाद्योग्यं क्रियापदमध्याहार्यम् । आगच्छतेत्यर्थः । आगमनं विशिनष्टि - यत् यस्मिन्नागमने वावशाना ग्रामादिकं कामयमानाः यजमानाः तृपन् तृपेयुरिति । लेटि वचनव्यत्ययः, तृपतिस्तौदादिकः । यद्वा - तृप्तिस्तृपन् औणादिकोनिप्रत्ययः । यद्यस्मद्यूयं तृप्तिं वावशानाः कामयमानास्स्थ, तस्मादागच्छतेति, यजमानस्य वा तृप्तिं वावशानाः यस्मात्तस्मादागच्छतेति । वशेर्यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम् । 'न वशः' इति सम्प्रसारणाभावः ॥
8 तत्रैव याज्या - श्रियस इति चतुष्पदा जगती । विद्र इति चतुर्थपादादिः ॥ हे मरुतः श्रियसे सेवितुं कं जलं वृष्ट्यर्थम् । तुमर्थे असेप्रत्ययः । भानुभिः भानवद्भिः भानशीतैर्वा रश्मिभिः सूर्यस्य रश्मिभिः करैः सम्मिमिक्षिरे सङ्गच्छन्ते । मिक्षतिर्गतिकर्मा छान्दसः । यद्वा - लोके जलं श्रयितुं रश्मिभिस्सह मिमिक्षिरे मेढुमिच्छन्ति वृष्ट्या पृथिवीं सेक्तुमिच्छन्ति ते मरुतः सुखादयः सुखादनाः । खादतेरौणादिक इप्रत्ययः । सुष्ठु हविषां भक्षयितारो भूत्वा ऋत्विग्भिः सङ्गच्छन्ते । ऋक्वन्तो मन्त्रवन्तः ऋत्विज इत्यर्थः । 'छन्दसीवनिपौ' इति वनिप्, अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाज्जश्त्वाभावः । ऋत्विग्भिस्संयुज्य हवींषि भक्षयन्तीत्यर्थः । ते मरुतो वाशीमन्तः शब्दवन्तः इष्मिणः गमनवन्तः अभीरवः भयरहिताः प्रियस्य सर्वाभिमतस्य मारुतस्य धाम्नः मरुतां सम्बन्धिनस्स्थानावीशेषस्य विद्रे लब्धवन्तः सर्वोपकारकत्वात् हविषस्सम्बन्धितया च विशिष्टं पदं प्राप्ताः । पूर्ववत्कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । विन्दतेर्लेटि द्विर्वचनाभावश्छान्दसः, 'इरयो रे' इति रेभावः । यद्वा - लटि वचनव्यत्ययेनैकवचनम्, 'बहुलं छन्दसि' इति विकरणस्य लुक्, 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'बहुलं छन्दसि' इति रुट्, पादादित्वान्न निहन्यते ॥
9 'यस्समानैर्मिथो विप्रियस्स्यात्तमेतया संज्ञान्या याजयेदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुम्' इत्यस्याः पुरोनुवाक्या - अग्निः प्रथम इति त्रिष्टुप् ॥ अग्निः प्रथमः प्रधानः आद्यो वा वसुभिस्सहास्मानव्यात् रक्षतु । रुद्रेभी रुद्रैस्सह सोमोस्मानभिरक्षतु त्मना आत्मना आत्मनैव अन्यनिरपेक्षः । 'मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । इन्द्रो मरुद्भिस्सह ऋतुधा ऋतावृतौ तद्धर्मान् कृणोतु करोतु तयातया विधया प्रवर्तयतु । धाप्रत्ययश्छान्दसः । आदित्यैस्सह वरुणोस्मान् संशिशातु संशितव्रतान् करोतु निर्मलीकरोतु । श्यतेर्लोटि शपश्श्लुः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् ॥
10 अथ याज्या - सं न इति त्रिष्टुप् पङ्क्तिप्रकारो वा ॥ नोस्मानग्निर्देवः वसुभिस्सह समजिज्ञिपत् सम्यक् ज्ञापयतु सम्यगभ्युपगच्छतु । ज्ञापयतेः छान्दसो लुङ्, छान्दसो वर्णविकारः । सोमोपि रुद्रियाभिः रुद्रार्हाभिस्तनूभिश्शरीरैः एकादशधा स्थिताभिरस्मान्समजि ज्ञिपत् । इन्द्रश्च यज्ञियैर्यज्ञार्हैर्मरुद्भिस्सहास्मान्समजिज्ञिपत् । वरुणश्चादित्यैस्सहास्मान् समनिज्ञिपत् ॥
11 अथ याज्याविकल्पः - यथेति त्रिष्टुप् ॥ यथा वसुभिस्सहादित्यास्सम्बभूवुः एकीबभूवुः यथा वा मरुद्भिस्सह रुद्रा अभिसमजानत आभिमुख्येन सङ्गताः । एवा एवम् । 'सुपां सुलुक्' इति डादेशः । हे त्रिणामन् त्रीणि नामानि गुह्यप्रकाशसोमनिमित्तानि यस्य स तथोक्तः । 'पूर्वपदात्संज्ञायामगः' इति णत्वम् । अग्नियजमानयोरभेद उपचर्यते अहृणीयमानाः अहीयमानः वि[...यमानवि]भूतयः । हृणिः कण्ड्वादिः । ईदृशा विश्वे देवाः परस्परमभिसमनसो भवन्तु समानमनसो भवन्तु । 'समानस्य छन्दसि' इति सभावः ॥
12 अथ कुत्रा चिदित्यनयोरनुष्टुभोः कुत्र चिद्विनियोगो द्रष्टव्यः केचिदाहुः - अत्रैव स्विष्टकृतः पुरोनुवाक्या याज्या चेति ॥ कुत्रा चित् कुत्र चिदपि सर्वत्रापीति यावत् । यस्य समृतौ सम्प्राप्तौ नरो मनुष्याः रण्वा रमणा भवन्ति । रणनवन्तो वा, गतिमन्तो वा । रवि गतौ, इदित्त्वान्नुम्, पचाद्यच् । नृषदने नरास्सीदन्ति यत्रयत्र सर्वत्र प्रदेशे । किञ्च - यमेवाग्निं अर्हन्तो महान्तः पूजयन्तो वा मनुष्याः इन्धते दीपयन्ति । किञ्च - यमग्निं जन्तवो मनुष्याः सञ्जनयन्ति आधानादिना सम्यगुत्पादयन्ति । सोस्माकमस्य ऋतस्य सत्यस्य रश्मिमिममग्निमाददे आददीमहे । वचनव्यत्ययः । आश्रयामह इत्यर्थः ॥
13 'आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकामः' इत्यस्याः पुरोनुवाक्या - यज्ञो देवानामिति त्रिष्टुप् ॥ ग्रहेषु व्याख्याता 'कदाचन' इत्यत्र । अयमस्मदीयो यज्ञः देवानां सुम्नं सुखं प्रत्येति गच्छतु । किञ्च - हे आदित्याः यूयमप्यस्मान् मृडयन्तो भवत किञ्च - युष्माकं सुमतिश्शोभनानुग्रहात्मिका बुद्धिरर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । किञ्च - अंहो ज्ञातुरिव ज्ञातृष्विव या मतिः वरिवोवित्तरा धनस्य लम्भयित्री भवेदिति ॥
14 तत्रैव याज्या - शुचिरिति त्रिष्टुप् ॥ शुचिश्शुद्धो भूत्वा अपः कर्माणि कर्मफलानि वा उपक्षेति उपगच्छति । क्षि निवासगत्योः, 'बहुलं छन्दसि' इति शपो लुक् । सूयवसाः शोभनयवसाः शोभनांशुकाः । 'अन्येषामपि दृश्यते' इति दीर्घत्वम्, 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अदब्धः केन चिदप्यहिंसितः वृद्धवयाः प्रभूतान्नतमः सुवीरः शोभनपुत्रपौत्रादिकः । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । किञ्च - केचिदपि तं नकिः घ्नन्ति हन्तुं समर्था भवन्ति । 'युष्मत्तत्ततक्षुषु' इति षत्वम् । अन्तितः अन्तिकेपि स्थिताः न च दूराद्दूरेपि स्थिताः । 'कादिलोपो बहुलम्' इत्यन्तिकस्य लोपः । कस्यैतदेवं भवतीत्याहय – आदित्यानामादित्यार्थं प्रणीतौ परिचरणे भवति वर्तते ॥
15 'आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वाऽपरुद्ध्यमानो वा' इत्यस्याः पुरोनुवाक्या - धारयन्त इति त्रिष्टुप् ॥ जगद्धारयन्तस्स्थापयन्तः आदित्यासः आदित्याः स्थाः स्थास्नवः 'क्विप्च' इति क्विप् । देवाः देवनशीलाः विश्वस्य भुवनस्य भूतजातस्य गोपाः पोषकाः दीर्घाधियः दीर्घाण्यविच्छिन्नानि धियः कर्माणि उदयास्तमयलक्षणानि बुद्धयो वा येषान्ते दीर्घाधियः । छान्दसं पूर्वपदस्य दीर्घत्वम् । असुर्यं असुरमर्हतीति । 'छन्दसि च' इति यः । असुस्थानीयमुदकं ददातीत्यसुरो मेघः । तेन धार्यमुदकं रक्षमाणा रक्षन्तः ऋतावानस्सत्यवन्तः यज्ञवन्तो वा । पूर्ववद्वनिप्, दीर्घत्वं च, चयमानाः चाययन्तः गमयन्तः । चय गतौ, अनुदात्तेत् भौवादिकः । ऋणानि दिव्यानि मानुषाणि ; वृष्ट्या हि सस्योत्पत्तौ यजमानस्य सर्वाणि ऋणान्यपाक्रियन्ते इति । क्रियापदाभावाद्योग्यं पदमध्याह्रियते । ईदृशा आदित्या इमं यजमानमनपरुद्धं कुर्वन्त्विति ॥
16 तत्रैव याज्या - तिस्र इति त्रिष्टुप् ॥ तिस्रो भूमीः पृथिवी पातालनागलोकान् पृथिव्यन्तरिक्षद्युलोकान्वा । ये इत्यध्याह्रियते । ये धारयन् धारयन्ति । धारयतेश्छान्दसो लङ्, 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । उत अपि च त्रीन् द्यून् दिवः परान् द्युतिमतो लोकान् । रुत्वानुनासिकौ पूर्ववत् । किञ्च - त्रीणि व्रतानि कर्माणि लोकत्रयगोचराणि त्रीणि व्रतानि । एषां लोकानां अन्तः मध्ये सर्वलोकधारणार्थानि रसादानधारणमध्यस्थानायनलक्षणानि च कर्माणि ये धारयन्ति आदित्या विदथे यज्ञे यज्ञार्थं, उपलक्षणत्वात् सर्वव्यापारार्थं, इत्थं कुर्वन्त्येते आदित्याः यद्वा - धारयन्तीति वचनव्यत्ययेनैकवचनम् । हे धारयन्तः आदित्याः किं तिस्रो भूमीः त्रींश्च द्यून् येषां च मध्ये त्रीणि व्रतानि यज्ञार्थं धारयन्तः हे आदित्याः वः युष्माकं महित्वं महत्त्वं माहात्म्यं, महि महत् तत्तादृशं यथोक्तलक्षणं चारु शोभनं चायनीयं वा ऋतेन सत्येन नात्र कार्या विचारणेति । इदानीमादित्यानेकैकत्वेनामन्त्रयते - अर्यमन्वरुण मित्रेति । प्रदर्शनं चैतदन्येषामपि ॥
17 'यः परस्ताद्ग्राम्यवादीस्यात्तस्य गृहाद्वीहीनाहरेच्छुक्लांश्चकृष्णांश्च वि चिनुयाद्ये शुक्लास्स्युस्तमादित्यं चरुं निर्वपेत्' इत्यस्याः पुरोनुवाक्या - त्यानिति गायत्री ॥ त्यांस्तान् नु प्राक्तनान् क्षत्रियान् बलवतः - आदित्यान् अवः रक्षणं याचिषामहे याचामहे । 'सिब्बहुलं लेटि' 'लेटोडाटौ' इत्यडागमः । सुमृडीकान् सुष्ठु सुखयितॄन् । 'मृडीकादयश्च' इति निपात्यते । शोभनम्मृडीकत्वं येषामिति बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्, उञ्छादिर्वा द्रष्टव्यः ; पूर्ववद्रुत्वानुनासिकौ । अभिष्टये आभिमुख्येन तानेव यष्टुम् । अन्वादित्वात्पररूपत्वम् । यद्वा - अभिष्टयो यागस्तन्निमित्तम् । छान्दसो वर्णविकारः ॥
18 तत्रैव याज्या - न दकिष्णेति त्रिष्टुप् ॥ दक्षिणा दक्षिणं साव्या सव्यम्, उभयत्रापि 'सुपां सुलुक्' इत्याडादेशः । दक्षिणं सव्यं च न विचिकिते न विजानामि विशेषेण न जानामि, दक्षिणसव्यविभागज्ञानमपि मे नास्तीत्यर्थः । किततेश्छान्दसो लिट् । हे आदित्याः प्राचीनं प्राक् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । पश्चा पश्चात् । 'पश्च पश्चाच्च' इति निपात्यते । प्राक्पश्चाच्च न विचिकिते इति, प्राक्प्रत्यग्विभागज्ञानमपि मे नस्तीति । यस्मादेवं तस्मादहं पाक्याचित् पाकयितव्यः, अपरिपक्वः पाक्यः बालः । 'ऋहलोर्ण्यत्' 'तित्स्वरितम्' इति स्वरितत्वम् । हे वसवः वासहेतवः धीर्या चित् धीरयितव्यः, धीर्यः कातरः इति । तत्करोति इति णिजन्ताण्ण्यत्, पूर्ववदाकारः । यथा बालाः कातराश्च स्वयं किञ्चिद्धिताहितमजानन्तः अन्यैर्हिताहितकारिभिः देवेन वा नीयमाना भवन्ति, एवमहमपि युष्माभिर्नीतः युष्माभिस्समिद्धते [...भिरस्मद्धिते] पथि प्रवर्तमानः । वर्णविकारश्छान्दसः ; 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, विकृतत्वादनवग्रहः । अभयं ज्योतिर्ज्ञानं विडवगमलक्षणमश्यां प्राप्र्नुयाम् । 'बहुलं छन्दसि' इति शपो लुक् । यद्वा - युष्मत्प्रसादेन अभयं अपुनरावृत्तिभयं परं ज्योतिरश्याम्, किम्पुनर्विडवगमादीति ॥
19 अथ तत्रैव याज्या विकल्प्यते - आदित्यानामिति त्रिष्टुप् ॥ आदित्यानामवसा नूतनेन अभिनवेन सक्षीमहि युक्ता भूयास्म, केन ? शर्मणा सुखेन शन्तमेन सुखतमेन शान्ततमेन वा । किञ्च - अनागास्त्वे निरपराधित्वे अदितित्वे खण्डनरहितत्वे च इममस्मदीयं यज्ञं दधतु स्थापयन्तु तुरासस्त्वरमाणाः । तुर त्वरासम्भ्रमयोः, 'इगुपधात्कः' 'आज्जसेरसुक्' । श्रोषमाणाः अस्माकं स्तुतीश्शृण्वन्तः । शृणोतेर्विकरणौ सिप्शपौ लेटो वा व्यत्ययेन शानच् । श्रोषतिर्वा धात्वन्तरं द्रष्टव्यम् ॥
20 अथ 'ये कृष्णास्स्युस्तं वारुणं चरुं निर्वपेत्' इत्यस्याः पुरोनुवाक्या - इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । 'बहुलं छन्दसि' इति शपो लुक् । 'श्रुशृणुपृकृवृभ्यः' इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । 'क्याच्छन्दसि' इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । कै गै शब्दे ॥
20 तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, 'हुझल्भ्यो हेर्धिः', 'वा छन्दसि' इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥
इति भट्टभास्करमिश्रविरचिते यजुवेर्दभाष्ये द्वितीये काण्डे प्रथमप्रपाठके एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

—-------------------

पञ्चशत् 2 #
TS 2.1.11.2 TS 2.1.11.2
हुवे तु॒राणां᳚ । आ यत् तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ् सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षत॒ त्मना᳚ । इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑णः॒ सꣳ शि॑शातु ॥ सं नो॑ दे॒वो वसु॑भिर॒ग्निः सꣳ - [ ]
पदपाठः (Word-by-word)
हु॒वे॒ । तु॒राणा᳚म् ॥ एति॑ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥ श्रि॒यसे᳚ । कम् । भा॒नुभि॒रिति॑ भा॒नु-भिः॒ । समिति॑ । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । ते । ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ । सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ ॥ ते । वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥ अ॒ग्निः । प्र॒थ॒मः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । नः॒ । अ॒व्या॒त् । सोमः॑ । रु॒द्रेभिः॑ । अ॒भीति॑ । र॒क्ष॒तु॒ । त्मना᳚ ॥ इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । ऋ॒तु॒धेत्यृ॑तु - धा । कृ॒णो॒तु॒ । आ॒दि॒त्यैः । नः॒ । वरु॑णः । समिति॑ । शि॒शा॒तु॒ ॥ समिति॑ । नः॒ । दे॒वः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । अ॒ग्निः । समिति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.11.3 TS 2.1.11.3
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑ र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ॥ यथा॑ऽऽदि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्न-हृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवन्तु ॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्.ह॑न्तश्चि॒द्-यमि॑न्ध॒ते स॑जं॒नय॑न्ति ज॒न्तवः॑ ॥ सं ॅयदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणां । उ॒त द्यु॒म्नस्य॒ शव॑स - [ ]
पदपाठः (Word-by-word)
सोमः॑ । त॒नूभिः॑ । रु॒द्रिया॑भिः ॥ समिति॑ । इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । य॒ज्ञियैः᳚ । समिति॑ । आ॒दि॒त्यैः । नः॒ । वरु॑णः । अ॒जि॒ज्ञि॒प॒त् ॥ यथा᳚ । आ॒दि॒त्याः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । स॒म्ब॒भू॒वुरिति॑ सं - ब॒भू॒वुः । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । रु॒द्राः । स॒मजा॑न॒तेति॑ सं - अजा॑नत् । अ॒भि ॥ ए॒वा । त्रि॒णा॒म॒न्निति॑ त्रि - ना॒म॒न्न् । अहृ॑णीयमानाः । विश्वे᳚ । दे॒वाः । सम॑नस॒ इति॒ स - म॒न॒सः॒ । भ॒व॒न्तु॒ ॥ कुत्र॑ । चि॒त्॒ । यस्य॑ । समृ॑ता॒विति॒ सं-ऋ॒तौ॒ । र॒ण्वाः । नरः॑ । नृ॒षद॑न॒ इति॑ नृ-सद॑ने ॥ अर्.ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒ञ्ज॒नय॒न्तीति॑ सं - ज॒नय॑न्ति । ज॒न्तवः॑ ॥ समिति॑ । यत् । इ॒षः । वना॑महे । समिति॑ । ह॒व्या । मानु॑षाणाम् ॥ उ॒त । द्यु॒म्नस्य॑ । शव॑सः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.11.4 TS 2.1.11.4
ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वाना॒म् प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादꣳ॒॒ होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ॥ शुचि॑र॒पः सू॒यव॑सा अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा- [ ]
पदपाठः (Word-by-word)
ऋ॒तस्य॑ । र॒श्मिम् । एति॑ । द॒दे॒ ॥ य॒ज्ञ्ः । दे॒वाना᳚म् । प्रतीति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ड॒यन्तः॑ ॥ एति॑ । वः॒ । अ॒र्वाची᳚ । सु॒म॒तिरिति॑ सु - म॒तिः । व॒वृ॒त्या॒त् । अꣳ॒॒होः । चि॒त् । या । व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित् - त॒रा॒ । अस॑त् ॥ शुचिः॑ । अ॒पः । सू॒यव॑सा॒ इति॑ सु - यव॑साः । अद॑ब्धः । उपेति॑ । क्षे॒ति॒ । वृ॒द्धव॑या॒ इति॑ वृ॒द्ध - व॒याः॒ । सु॒वीर॒ इति॑ सु - वीरः॑ ॥ नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना᳚म् । भव॑ति । प्रणी॑त॒विति॒ प्र - नी॒तौ॒ ॥ धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पा इति॑ गो-पाः ॥ दी॒र्घाधि॑य॒ इति॑ दी॒र्घ - धि॒यः॒ । रक्ष॑माणाः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.11.5 TS 2.1.11.5
असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्द्धारय॒न् त्रीꣳ रु॒त द्यून् त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षां । ऋ॒तेना॑ऽऽ*दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन् वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रियाꣳ॒॒ अव॑ आदि॒त्यान्. या॑चिषामहे । सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद् - [ ]
पदपाठः (Word-by-word)
अ॒सु॒र्य᳚म् । ऋ॒तावा॑न॒ इत्यृ॒त - वा॒नः॒ । चय॑मानाः । ऋ॒णानि॑ ॥ ति॒स्रः । भूमीः᳚ । धा॒र॒य॒न्न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे᳚ । अ॒न्तः । ए॒षा॒म् ॥ ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒त्वमिति॑ महि - त्वम् । तत् । अ॒र्य॒म॒न्न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥ त्यान् । नु । क्ष॒त्रियान्॑ । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ॥ सु॒मृ॒डी॒कानिति॑ सु - म॒डी॒कान् । अ॒भिष्ट॑ये ॥ न । द॒क्षि॒णा । वीति॑ । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन᳚म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ॥ पा॒क्या᳚ । चि॒त् । व॒स॒वः॒ । धी॒र्या᳚ । चि॒त् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.1.11.6 TS 2.1.11.6
-यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं ॅय॒ज्ञ्ं द॑धतु॒ श्रोष॑माणाः ॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
पदपाठः (Word-by-word)
यु॒ष्मानी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥ आ॒दि॒त्याना᳚म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ॥ अ॒ना॒गा॒स्त्व इत्य॑नागाः-त्वे । अ॒दि॒ति॒त्व इत्य॑दिति - त्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञ्म् । द॒ध॒तु॒ । श्रोष॑माणाः ॥ इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒ध॒ । हव᳚म् । अ॒द्य । च॒ । मृ॒ड॒य॒ ॥ त्वाम् । अ॒व॒स्युः । एति॑ । च॒के॒ ॥ तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । एति॑ । शा॒स्ते॒ । यज॑मानः । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ अहे॑डमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑शꣳ॒॒सेत्युरु॑ - शꣳ॒॒स॒ । मा । नः॒ । आयुः॑ । प्रेति॑ । मो॒षीः॒ ॥
पदसंख्या: 49