पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः)। दौर्ब्राह्मण्यभिशापौ च सूर्योविर्भाववर्जनम्। निर्मितीकृत्य दशमे पशवः समुदीरिताः।। तैरतैर्दशाभिरनुवाकैः काम्यपशवः समापिताः। अथैकादशेनुवाके काम्येष्टि याज्या (पुरोनुवाक्य) उच्यन्ते। तस्मिंश्च काम्येष्टिकाण्डे पूर्वोदाहृतात्सोमारौद्रचरोरूर्ध्वं द्विहृविष्का काचिदिष्टिरेवमाम्नायते ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुत सप्तकपालं ग्रामकाम इन्द्रं चैव मरुतश्च स्वेन भागधेयेनाप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (सं. का. २प्र. २अ. ११) इति। प्रकृतौ सह प्रयुज्येमानयोरपि द्वयोः पुरोडाशयोरेकस्मिन्नेवाधिश्रयणम्। इह तु तद्वाधितुं विधत्ते “आहवनीय ऐन्द्रमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” [सं. का. २प्र. अ. १] इति। पापेन वस्यसं वसुमत्तरं पापवस्यसं पापाधिक्यापेतमित्यर्थः मरुतामुग्रदेवत्वात्तदीयं हविः पापवस्यसम्। ऐन्द्रस्य तद्धविषो विभागेनावधाणार्थं भिन्नाग्नावधिश्रयणम तत्रत्यकपालसंख्यां प्रशंसति “सप्तकपालो मारुतो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानवरुन्धे” (सं. का. २प्र. २अ. ११) इति। ईदृङ्गचेत्यादिनोक्ताः सप्तसंख्याका मरुत एको गणः। तथाविधाश्च गणाः सप्तसंख्याकाः। तेषां हविष्प्रदानेन गणशो बहुविधगणरूपान्भ्रातृमित्रभृत्यदीनवरुन्धे। प्रकृतौ सामिधेनीसंघानुवचनात्प्रागेव हविरासादनं, तदपवदितुं विधत्ते “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं. का. २प्र. २अ. ११) इति। अत्र सूत्रकारः “ऐन्द्रमासादयति सामिधेनीप्वनूच्यमानासु मारुतम्” इति। यजमानास्यानुकूलं वर्त्म वर्तन यस्या विशः सेयमनुवर्त्मा। अनयोरुभयोर्हविषोर्याज्यानुवाक्यानां पूर्वकाण्ड एव समाम्नातानां प्रतीकानु दाहरतिइन्द्र व इति। प्रथमं युग्मं षष्ठप्रपाठकस्यान्त्यानुवाके पठितम्। द्वितीयं युग्मं यु पञ्चमप्रापठकस्यान्त्यानुवाके पठितम्। तदर्थस्तु तत्रैव द्रष्टव्यः।"
"उक्तामेवेष्टिं फलान्तराय विधत्ते “एतामेव निर्वपेद्यः कामयेत क्षत्त्राय च विशे च समदं दध्यामित्यैन्द्रस्यवद्यन्ब्रूयादिन्द्रायानु ब्रूहित्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन्ब्रूयान्मरुद्भयोनु ब्रूहित्याश्राव्य ब्रूयादिन्द्रं यजेति स्व एवैभ्यो भागधेये समदं दधाति वितृ हाणास्तिष्ठन्ति” (सं. का. २प्र. २अ. ११) इति। मदेन सह वर्तत इति समदः कलहः। राज्ञः प्रजायाश्च परस्परं कलहं कुर्यामिति कामयितुरियामिष्टिः। अस्यामिष्टावयं प्रकृतेर्विशेषः – प्रकृतावाग्नेययस्यावदानकाले पुरोनुवाक्याप्रैषमुक्त्वा तदाश्रावणादूर्ध्वमाग्नेययाज्याया एव प्रैषं वदेत्, न तु देवतान्तरयाज्यायाः । सह त्वन्यविषयोनुवाक्याप्रैषोन्यविषयश्च याज्याप्रैष इति। एवं च सत्येभ्य इन्द्रमरुद्भ्यः स्वस्वभागे कलहं कृतवान्भवति। तदीयकलहानुसारेण राजा विशश्च वितृंहाणा विशेषेण परस्परं हिंसां कुर्वाणास्तिष्ठन्ति। कलहसमाधानकामस्य तामेवेष्टीं विधत्ते “एतामेव निर्वपेद्यः कामयेत कल्पेरन्निति यथादेवतमवदाय यथादेवतं यजेभ्दागधेयेनैवैनान्यथायथं कल्पयति कल्पन्त एव” (सं. का. २ प्र. २ अ. ११) इति। कल्पेरन्परस्परकलहरहिता भवेयुः। एतानिन्द्रमरुतः स्वस्वभागभाजिनः कल्पयति। तथा सति राजा विशश्च कल्पन्त एव कलहरहिता स्निग्धा भवन्त्येव। एतयोः कलहतत्समाधानार्थेष्ट्योः पूर्वोदाहृता एव याज्यानुवाक्याः । इष्ट्यन्तरं विधत्ते “ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्रं चैव विश्वाश्च देवान्त्स्वेव भागधेयेनेप धावति त एवास्मै सजातान्प्र यच्छति ग्राम्येव भवति” (सं. का. २ प्र. २ अ. ११) इति। प्रकृतौ हविर्द्वयस्य सहावदानं नास्ति। अत्र तु तद्विधते “ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येदयैन्द्रस्योपरिष्टादिन्द्रियेणैतास्मा उभयतः सजातान्परि गृह्णाति” (सं. का. २ प्र. २ अ. ११) इति। द्विर्हाविषोवद्यतीति श्रुतत्वादकेकस्य हविषो द्विर्द्विरवदान सहकर्तव्यम्। तथा सत्यत्र सकृदैन्दमवदाय ततो वैश्वदेवं द्विरवद्येत्पुनरप्युपरिष्टादैन्द्रमवद्येत। एवं सति यजमानार्थ सजातान्ग्रामनिवासिनः सर्वानुभयोः पार्श्वयोरिन्द्रियसामर्थ्ययुक्तान्करोति। अथ दक्षिणाविशेषं विधत्ते "
"“उपाधाय्यपूर्वयं वासो दक्षिणा सजातानामुपहित्यै” [सं. का. २ प्र. २ अ. ११] इति। वस्त्रस्योभयपार्श्वान्तयोरुपानीय स्थापनीयं रक्तसूत्रमुपाधाय्यं, तच्च पूर्वमेवोपानयनकाले वस्त्रं याति प्रामोतीति पूर्वयम्, उपाधाय्यं पूर्वयं यस्मिन्वाससि तदुपाधाय्यपूर्वयम्। अत एव सूत्रकारः—“उपाध्यायपूर्वयं वासो दक्षिणा (णेति) चित्रात्तम” इत्यर्थः (दिः) । सादृश्य वाससो दानं सजातानामुपहित्यै यजमान सेवायै संपद्यते। अस्यामिष्टौ पुरोनुवाक्यामाह—भरोष्बिन्द्रमिति। इन्द्रमग्न्यादिदेवां श्च भरेषु भ्रियमाणेषु संपाद्यमानेषु हविःषु हवामह आहवयामः। किमर्थं, सातये देवेभ्यो हविर्दानाय, स्वस्तये यजमानस्य श्रेयसे च। कीदृशमिन्द्रं, सुहवं सुखेनाह्वातुं शक्यम्। अहोमुचं पापान्मोचयितार, सुकृतं शोभनं हितं करोतीति सुकृतं, दैव्यं दिवि भवं, जनं जनयितारं वृष्टिद्वारेण सस्याद्युत्पादकम्। अत्र पूर्वार्धस्येन्द्रविषयत्वादुत्तरार्धस्येतरबहुदेवविषयत्वाच्च हविर्द्वयस्यैकैव पुरोनुवाक्या। तत्रैव याज्यामाहममत्तु न इति। परितः सर्वतो जेमनं भक्षणं यस्याग्नेः सोयं परिज्मा। स च नोस्मन्ममत्तु हर्षयतु। वासरस्य हन्ता गमयिता सूर्यः स च नो ममत्तु वातो नो ममत्तु। अपां वृषण्वान्वर्षकः पर्जन्यदेवो नो ममत्तु। प्रवतशब्देन कैलासादिपर्वतवासिदेवविशेषो हिमवान्वाभिधीयते। आश्वमेधिकेषु पशुविधिषु हिमवतो हस्तीति देवत्वश्रवणात्। हे इन्द्रापर्वतौ युवां नोस्माञ्शिशीतं तनू कुरुतंम्। पापबहुलानामस्माकं पापक्षयस्तनूकरणम्। तत्तेन हविष्प्रदानेन विश्वेदेवा नोस्मान्वरिवस्यन्तु परिचर्यासमये कृपयावलोकयन्तु। "
इष्ट्यन्तरं विधत्ते—“पृश्निनै दुग्धे प्रैयङ्गत्वं चरुं निर्वपेन्मरुभ्द्यो ग्रामकामः पृश्निये वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गनो मारुताः खलु वै देवतया सचाता मरुत एव स्वेन भागधेयेनोप धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्येव भवति” (स. का. २ प्र. २ अ. ११) इति। पृश्निः श्वेता गौस्तादृश्या गोर्मरुतां प्रियंगूनां (णां) चोत्पत्तिप्रसिध्दिः शाखान्तरीयार्थवाहे द्रष्टव्या। पृश्नियै प्रियंगव इत्यत्र पयसो जाता इत्यनुवर्तते। एकोदरत्वात्प्रियंगूनां(णां) मरुद्देवत्यत्वम्।
विधत्ते—“प्रियवती याज्यानुवाक्ये भवतः प्रियमेवैन समानाना करोति द्विपदा पुरोनुवाक्या भवति द्विपद एवाव रुन्धे चतुष्पदा याज्या चतुष्पद एव पशूनव रुन्धे” (सं. का. २ प्र. २अ. ११) इति। प्रियशब्दोस्ति ययोस्ते ऋचौ प्रियवत्यौ। ते चोदहरिष्येते। तत्प्रयोगाद्यजमानस्य समानानां मध्ये प्रियत्वम। तयोऋचोर्विद्यमानं पापप्राप्तं द्विपद(दा) त्वं चतुष्पद (दा) त्वं च मनुष्यप्राप्त्या पशुप्राप्त्या च प्रशस्यते। तत्र पुरोनूवाक्यां द्विपदामाह—प्रिया इति। मरुतस्तुराणां हविःस्वीकरं प्रति त्वरमाणानां वो युष्माकं प्रिया नाम प्रियाणि नामानि आहुव आह्वयामि। यद्यस्माद्यूयं तृपत्तृप्तिं वावशानाः कामयमानाः स्थ तस्मादाह्वयामि। तत्रैव चतुष्पदां याज्यामाह—श्रियसे कमिति। ते मरुतः पुरोवातरूपाः सन्तः कं सुखं श्रियसे प्राणिभिराश्रयितुं भानुभिर्भासकै रश्मिभिः सूर्यरश्मिभिः सहिताः संमिमिक्षिरे मेढुं वृष्ट्या भूमिं सम्यक्सेक्तुमिच्छन्ति। ते मरुत ऋक्वभिर्याज्यापुरो नुवाक्यरूपाभिऋग्भिः स्तुताः सन्तः सुखादयः शोभनं हविः खादितवन्तो भक्षितवन्तः। ततस्ते मरुतो वाशीमन्त उत्साहजनितघोषरूपबहुविधशब्दवन्त इष्मिणः स्वगृहान्प्रति गतिमन्तोभीरवः स्वकार्यस्य निष्पन्नत्वेन विघ्नकारिभ्योसुरेभ्यो भयरहिताः प्रियस्य मारुतस्य धान्नो मरुतां संबन्धि यत्प्रियं स्थानं तद्विदेः लब्धवन्तः।
"इष्ट्यन्तरं विधातुं प्रस्तौति “देवासुराः संयत्ता आसन्ते देवा पिथो विप्रिया आसन्तेन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैः स इन्द्रः प्रजापतिमुपाधावत्तमेतया संज्ञान्यायाजयदग्नये वसुमते पुरोडाशमष्टाकपालं निरवपत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुं ततो वा इन्द्रं देवा ज्यैष्ठ्यायामि समजानत” (सं. का. २ प्र. २ अ. ११) इति। देवा असुराश्च यदा युद्धार्थमुद्यतास्तदानीमहमेव ज्येष्ठो भविष्यामि नेतर इत्येवं परस्परं ज्यैष्ठ्यमनङ्गीकुर्वाणा देवाः परस्परं प्रियरहिताः सन्तः सेनां चतुर्धा विभज्य विविधं यथा भवति तथा प्रक्रान्तवन्तः। तत्र वसुभिः सहितोग्निरेकः संघः। रुद्रैः सहितः सोमो द्वितीयः संघः। मरुद्भिः सहित इन्द्रस्तृतीयः संघः। आदित्यैः सहितो वरुणश्चतुर्थः संघः। तदानीमीन्द्रः प्रजापतिमुपसेव्य तदुपदेशेन संज्ञानीनामिष्टिं कृतवान्। तत ऊर्ध्वमिष्टिसामर्थ्यादपगतमत्सरा देवा ज्यैष्ठ्यार्थमिन्द्रं सम्यगम्यनुज्ञातवन्तः। सम्यग्ज्ञायते ययेष्ठ्यासौ संज्ञानी। तानूनप्त्रार्थवादत्वेन संज्ञान्या अननुष्ठितत्वान्नास्ति कस्यचित्प्राधान्यं, किंतु स्वकार्यसिद्धिमभिप्रेत्य सर्वे मात्सर्यं जहुः। इह त्विष्टिप्रसादादिन्द्रस्य प्राधान्यम। एतच्चोभयं कल्पभेदाद्युगभेदाद्वा द्रष्टव्यम्। विधत्ते “यः समानैर्मिथो विप्रियः स्यात्तमेतया संज्ञान्या याजयेदग्नेय वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्दाय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुमिन्द्रमेवैनं भूतं ज्येष्ठ्याय समाना अभि संजानते वसिष्ठः समानानां भवति” (सं. का. २ प्र. २ अ. ११) इति। इन्द्रमेव भूतं स्वामिनमेव सन्तमेनं यजमानं ज्येष्ठ्यार्थं सभ्यगभ्यनुजानन्ति। ततोयं समानानां वसिष्ठो वासयितृतमः पालको भवति। तत्र पुरोनुवाक्यामाह अग्निरिति। वसुभिः सहितोग्निः प्रथमसंघाधिपतिर्नोस्मानवतु। रुद्रैः सहितः सोप्रस्त्मनास्वयमेव प्रीतिपुरःसरमाभिरक्षतु। मरुद्भिः सहितः इन्द्र ऋतुधा तत्तदृतूचितभोगधारिणोस्मान्करोतु। आदित्यैः सहितो वरुणो नोस्मान्संशिशातु संशितव्रतान्सम्य गनुष्ठितव्रतान्करोतु। तत्रैव याज्यामाह—सं नो देव इति। वसुभिः सहितोग्निर्देवो नोस्मान्समजिज्ञिपत्सम्यगनुष्ठानं ज्ञापयतु। रुद्रसंबन्धिनीभिस्तनूभिः सहितः सोमः समजिज्ञिपत्। यज्ञयोग्यैर्मरुध्दिः सहित इन्द्रः समजिज्ञिपत्। आदित्यैः सहितो वरुणः समजिज्ञिपत्। तत्रैवविकल्पितामन्यां याज्यामाह—यथादित्या इति। पूर्वोक्तेषु संघचतुष्टयमध्यवर्तिषु देवेषु यथा वरुणसमीपवर्तिन आदित्या अग्निसमीपवर्तिभिर्वसुभिः संबभूवः संमताः प्रीतियुक्ता बभुवुः, यथा चेन्द्रसमीवार्तिभिर्मरुभ्दिः सह सोमसमीपवर्तिनो रुद्रा अभिसमजानत ज्यैष्ठ्यं सम्यगभ्यनुज्ञातवन्तः,त्रीणि नामान्याहवनयिगार्हपत्यदक्षिणाग्निरूपाणि हव्यवाहनकव्यवाहनसहरक्षोरूपाणि वा यस्याग्नेः सोग्निस्त्रिणामा हे त्रिणामन्नेवा, एवमेव यथा रुद्रादयस्तद्वद्विघे देवा अन्येपि रुद्रादिसमीपवर्तिनो देवाः सर्वेहृणीयमाना वैरिभिर नपह्रियमाणविभूतयः समनसः परम्परं समानमनस्का भवन्तु। यद्यप्यत्र चत्वारि हवींषि तथापि सहप्रदातेन पुरोनुवाक्याया भेदो नास्ति, तथा याज्याया अपि यथा पूर्वत्र ग्रामकामं प्रति विहितयोरैन्द्रवैश्वदेवहविषोः सहप्रदानात्पुरोनुवाक्यादिभेदो नास्ति। अत्रैव स्विष्टकृतः पुरोनुवाक्यामाहकुत्राचिद्यस्येति। यस्य स्विष्टकृद्देवस्य समृतौ संततौ सत्यां नृषदने मनुष्यस्थाने ग्रामगृहादौ कुत्राचिद्यत्र कुत्रापि नरो मनुष्या रण्वा रममाणास्तिष्ठन्ति, किंच यं स्विष्टकृद्देवमर्हन्तश्चिन्मन्त्रविशेषैः पूजयन्त एव तदीयाहुत्यर्थमिन्धते वह्विं प्रज्वलयन्ति, प्रज्वाल्य च जन्तबो यजमानाः संजनयन्ति समीचीनं फलमुत्पादयन्ति, तादृशः स्विष्टकृद्देवः प्रसीदत्विति शेषः। तत्रैव याज्यामाहसं यदिष इति। यद्यस्मात्कारणदिष इष्यमाणान्यन्नानि संवनामहे स्विष्टकृद्देवप्रसादेन सम्यग्भजामः, मानुषाणां यजमाननां हव्या होमयोग्यानि द्रव्याणि संवनामहे, उतापि च द्यन्नस्य धनस्य शवसो बलस्य ऋतस्य यज्ञस्य च रश्मिं रश्मिवत्प्रकाशमुत्कर्षमाददे स्वी कुर्मः, तस्मात्कारणादेवमनुग्रहीतारं स्विष्टकृद्देवं भजाम इति शेषः। इष्ट्यन्तरं विधत्ते “आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपदे्भूतिकाम आदित्यावा एतं भूत्यै प्रति नुदन्ते योलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्यानेव भुवद्वतः स्वेन भागधेयेनो प धावति त एवैवं भूतिं गमयन्ति भवत्येव ” (सं. का. २प्र. ३अ.१) इति। यदीययोर्याज्यापुरोनुवाक्ययोर्भुवच्छब्दः श्रूयते त एत आदित्या भुवद्वन्तः। यद्यपि पुरोनुवाक्यायां भवता मृडयन्त इति भवतेत्ययं शब्दः पठितः, यद्यपि च याज्यायां भवति प्रणीताविति भवतीत्येष शब्दः पठितो न तु भुवच्छब्दः क्काप्यस्ति, तथापि वर्णविकारमभिप्रेत्य भुवद्वद्भ्य इत्युच्यते। एवमन्यत्रापि वायवे नियुत्वत आलभेत, अग्नेय पथिकृत इत्यादौ विशेषणैर्याज्यानुवाक्यागताः शब्दः स्मर्यन्त इति द्रष्टव्यम्। ते च याज्यादिगताः शब्दास्तत्तत्प्रकृतोचितफलस्य सूच काः। अतोत्रापि भूतिसूचकभुवच्छब्दवन्त इत्युक्तं भवति। तथा सति भुवद्वन्तः फलत्वेन दादव्यभूतिमन्त इत्यर्थोपि लभ्यते।"
"तत्र पुरोनुवाक्यामाह—यज्ञो देवानामिति। अथं यज्ञो देवानां सुम्नं सुखं प्रत्येति गच्छति प्रवर्तते। हे आदित्यसो यूयमस्मान्मृडयन्तः सुखयन्तो भवत तिष्ठत। युष्माकं सुमतिरनुग्रहबुध्दिरर्वाचीनेष्बस्मासु प्रवृत्ता सती, आववृत्यादावर्तताम्। या सुमतिरंहोश्चिदस्मदीयपापादपि आवर्तते पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तरासदतिशयेन परिचर्याभिज्ञा भवतु। तत्रैव याज्यामाह—शुचिरप इति। अथं यजमानः शुचिः सन्नपोनुष्ठीयमानं कर्मोपक्षेति समीपे प्राप्नोति। कीदृशोयं, सूयवसाः शोभनं यवसं तृणं तेनोपलक्षितमन्नादिभोग्यं यस्य सोयं सूयवसाः अदब्धः कैरपि शत्रुभिरतिरस्कृतः, वृध्दं दीर्घ वय आयुर्यस्यासौ वृध्दवयाश्चिरजीवीत्यर्थः। शोभना वीराःपुत्रा भृत्याश्च यस्यासौ सुवीरः। य ईदृशो यजमान आदित्यानां प्रणीतौ प्रणयने कर्मणि भवति प्रवर्तने तं यजमानं शत्रवोन्तितः समीपे नकिर्घ्नन्ति न विनाशयन्ति। दूरादपि न घ्नन्ति। नकिः शब्दो निषेधवाची। इष्ट्यन्तरं विधत्ते—“आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुध्दो वापरुघ्यमानो वादित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव धारयद्वतः स्वेन भागधेयेनोप धावति त एवैनं विशि दाध्रत्यनपरुध्यो भवति” (सं. का. २ प्र. ३ अ. १) इति। धारयच्छब्दो यदीययोर्याज्यानुवाक्ययोप्रविर्तते त इमे धारयद्वन्तः। स्थानभ्रष्ट स्वस्थाने धारयितुं क्षमा इति तस्य पदस्य पर्यवसितार्थः। ये राजा पूर्व स्वराष्ट्राद्वैरिणा निःसारितः सोपरुध्दः यस्त्विदानीं निःसार्यते सोपरुध्यमानः, तयोरन्यतरस्येयमिष्टिः अपरोध्दारः पर्वं निःसारयितारः। अवगमयितार इदानीं निःसारयितु द्युताः अथवा पुनः स्वराष्ट्रं प्रापयितारः। विशि स्वराष्ट्रगतप्रजायां दाध्रति धारयन्ति स्थापयन्तीत्यथः। ततोयं वैरिभिरपरोध्दुमशक्यो भवति। तत्र पुरोनुवाक्यामाह धारयन्त इति। आदित्या अस्मदभिमतं कुर्वन्त्विति वाक्यशेषः। कीदृशाः, धारयन्तोपरुध्दं यजमानं स्वराष्ट्रे स्थापयन्तः, जगत्स्थाः कृत्स्तं जगदनुग्रहीतुं तत्र तत्र तिन्ष्ठति, यद्वा जगध्दारयन्त इत्यत्रान्वयः। स्थाः स्थिताः, देवा दीव्यन्तः। विश्वस्य भुवनस्य गोपाः पालयितारः, जगध्दारयितुं दीर्घभूता धीर्येषां ते दीर्घधियः असवः प्राणास्ते यस्य सन्ति सोयं यजमानोसुरस्तस्मै हितमिदं कर्मासुर्यम्। यद्वा राक्षसवद्वाको राजासुरस्तन्निबारणायोपयुक्तमिदं कर्मासुरवदिति असूर्यं, तद्रक्षमाणः ऋसं सत्यं स्वराष्ट्रे यजमानं स्थापयाम इत्येतादृशवचनं तद्युक्ता ऋतावानः, ऋणानि चयमाना अपरोद्धुर्वैरिणो दारिद्र्यसंपादनेन बहुन्यृणानि संपादयन्तः। तत्रैव याज्यामह—तिस्त्रो भूमीरिति। हेर्यमन्वरुण मित्र, एतैस्त्रिभिर्नाभ भिरुपलक्षिताः सर्वेपि द्वादशादित्या वो युष्मांक तन्महित्वं माहात्म्यं चारु रमणीयं महि महदधिकं च। कयं माहात्म्याधिकं तदुच्यते—तिस्रो भूमीः स्वर्गंमर्त्यपातालरूपा धारयन्धरितवन्तः। अपि च त्रीन्द्यून्सूर्यचन्द्रवह्निगतान्प्रकाशन्धारितवन्तः। तत्र सूर्यरश्मिरूपस्य प्रकाशस्य धारयितृत्वं स्पष्टम्। सूर्यरश्मय एव जलमयेन चन्द्रमण्डलेन व्यवहिताः शीतस्पर्शा अभिभूतोष्णस्पर्शा ज्योत्स्नारूपेणावभासन्त इति केषांचिन्मतम्। एतदेवाभिप्रेत्य श्रूयते—“सुषुम्रः सूर्यरश्मिश्चन्द्रमा गन्धर्वः” इति। अग्निदीप्तेरादित्यसंबधश्च स्पष्टमेव श्रूयते—“उद्यन्तं वावादित्यमग्निरनुसमारोहति इति। तस्मात्प्रकाशत्रयबारयितृत्वं युक्तम्। किंचैषां यजमानानां विदये यज्ञे यानि त्रीणि व्रतान्यन्सःस्थितानि मनोवाक्कायकर्म निष्पाद्यानि वा नित्यनैमित्तिककाम्यरूषाणि या तानि सर्वाणि ऋतेन पालयिष्माम इत्येतादृशेन सत्यवचनेन धारितवन्तः।” अत्र पूर्वमपरुद्धस्य नास्ति विशेषाङ्गोपदेशः। अपरुध्यमानस्य तु प्रयोगे सोस्ति। तत्र कंचिन्मन्त्रमुत्पाद्य विनियुङ्गक्ते “अदितेनु मन्यस्वेत्यपरुध्यमानोस्य पदमा ददीतेयं वा अदितिरियमेवास्मै राज्यमनु मन्यते” (सं. का. २ प्र. ३ अ. १) इति। हेदिते भूमे त्वमनुमन्यस्व राष्ट्रप्रवेशार्थं मामनुमन्यस्वेत्येतं मन्त्रमुच्चारयन्नस्य शत्रोः पदाङ्कितभूरज आददीत। इयं पृथिव्येवादितिशब्दवाच्या, सैवास्या अपरुध्यमानार्थं राज्यमङ्गी करोति। "
"मन्त्रान्तरमुत्पाद्य व्याचष्टे “सत्याशीरित्याह सत्यामेवाशिषं कुरुते” (सं. का. २ प्र. ३ अ. १) इति। आशीरस्पदपेक्षितं फलं सत्यमस्त्विति शेषः। अन्यं मन्त्रमुत्पाद्य व्याचष्टे “इह मन इत्याह प्रजा एवास्मै समनसः करोति” (सं. का. २ प्र. ३ अ. १) इति। इह मदीये राष्ट्रप्रवेशे प्रजानां मनोनुकूलं भवत्विति शेषः। पुनरपि मन्त्रान्तरमुत्पाद्य व्याचष्टे “उष प्रेत मरुतः सुदनव एना विश्पतिनाभ्यमु राजनभित्याह। मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवैन राष्ट्रेण समर्धयति” (सं. का. २ प्र. ३ अ. १) इति। हे सुदानवः सुष्ठुराष्ट्रप्रवेशदातारो मरुतो यूयमेना विश्पतिनैतेन विरोधिना राष्ट्रपतिना सह योद्धुममुं वीरसिंहवर्माणं संजिहीर्षमाणमपरुध्यमानं राजानमभिमुखीकृत्योपप्रेत समीपे गच्छेत। अस्मिन्मन्त्रे विष्पतिनेति यदुक्तं तत्र या विट्प्रजा सा मरुतामधीनत्वान्मारुती, तस्या विशः पतिज्येष्ठोपरोध्दा, तेन ज्येष्ठेन विश्पतिना सह योद्धुमित्येवं ब्राह्मणेनोक्तस्य व्याख्यानस्य शेषः पूरणीयः। एतस्य ब्राह्मणव्याख्यानमन्त्रस्य पाठे सति प्रजया देशेन चैनं यजमानं समृध्द करोति। एतेषां मन्त्राणां विनियोगमापस्तम्बो दर्शयति—“हविष्कता वाचं विसृज्योप प्रेत मरुत सुदानव इति यजमानमभ्येति सत्याशीरिति यजमानस्योत्तरे वाससि पदै कदशं निवपतीह मन इत्युरसि शेषं निवपति” इति। "
अत्र कंचित्प्रयोगविशेषं क्रमेण विधत्ते “य परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्वीहीना हरेच्छुक्लाश्च कृष्णाश्च विचिनुयाद्ये शुक्ला स्युस्तमादित्यं चरुं निर्वपेदादित्या वै देवतया विडविशमेवाव गच्छति” सं. का. २ प्र. ३ अ. १ ) इति।
"ग्रामेभ्यो हितं ग्राम्यं तद्राज्ञोग्रे वदतीति ग्राम्यवादी। स द्विविधः अन्तरङ्गो बहिरङ्गश्च। तत्र बहिरङ्गः सभायामेय वदति। अन्तरङ्गःस्तु सभायाः परस्तादन्तःपुरे गत्वा गूढं हितं वदति तस्य गृहाद्व्रीहीनाहरेत्। विट्शब्दवाच्यायाः प्रजाया आदित्यदेताकत्वादादित्य चरुणा विशमेव प्राप्नोति। विभक्तानां द्विविधतण्डुलानी मध्ये शुक्लैरादित्यचरु विधाय कृष्णैर्वारुण चरुं विधत्ते “अवगतास्य विडनवगत राष्ट्रमित्याहुर्ये कृष्णा स्युस्तं वारुणं चरुं निर्वपेद्वारुणं वै राष्ट्रमुभे एवं विशं च राष्ट्रं चाव गच्छति” (सं. का. २ प्र. ३ अ. १ ) इति। अस्य यजमानस्यादित्यचरुणा यद्यपि प्रजा प्राप्ता भवति तथापि राष्ट्रं भूमिविशेषस्तावता न प्राप्यत इत्यभिज्ञा आहुः। अतस्तत्प्राप्तये वारुणं निर्वपेत्। यथा प्रजाया आदित्या देवता तद्वद्राष्ट्रस्य वरुणो देवता, ततस्तयोस्तुष्टया तदुभयं प्राप्यते। योयमरुध्यमानस्तस्यापरुध्दवद्यत्कमं विहितं तस्मिन्कर्मणि पूर्वोक्त एव याज्यानुवाक्ये। यत्तु यः परस्तादित्यादिना हर्विद्वयप्रयोगरूपं कर्मान्तर विहितं तत्र शुक्लहविषः पुरोनुवाक्यामाह त्यान्नु क्षत्रियामिति। वयं यजमाना अभिष्ट्ये देवताभिमुख्येन कर्तव्येष्टिसिध्द्यर्थमादित्यान्प्रत्यवोयाचिषामहे रक्षणं प्रार्थयामहे। कीदृशानादित्यान येषां पूर्वगन्त्रे माहात्म्यं प्रपंञ्चितं त्यान्नु तानेव क्षत्रियान्क्षत्रियवत्प्रबलान्सुमृडीकान्सुष्ठु सुखवितृन्। तत्रैव याज्यामाह न दक्षिणेति। हे वसवो वासयितार आदित्या वैरिणा परुध्यमानोहं तेनापराधेन व्यामूढचित्तः सन्किमपि न विचिकिते विशेषेण न जानाभि, इदं दक्षिणमिदं सव्यमिदं प्राचीनमिदं प्रतीचीनमिति कमपि विवेकं नानुभवामि। क इव, पाक्या चित्पाक्य इव धीर्या चिद्धीर्य इव। पूर्वं पक्वो न भवतीतः परं पाकं नेतव्यः पाक्योपरिपक्वधीर्बाल इत्यर्थ। युष्मानीतो युष्माभिः स्वकीयां विशं प्रापितः सन्नभयं ज्योतिः शत्रुभयरहितं विवेकज्ञानमश्यां प्राप्नुयाम्। तत्रैव विकल्पितमन्यां याज्यामाह आदित्यानामिति। यजमाना वयमादित्यानां संबन्धिना नूतनेनेदानीं संपादितेनावसा रक्षणेन युक्ता। कर्मणा शतमेव सर्वोपद्रवरहितत्वादतिशान्तेन सुखेन सक्षीमहि सक्ता भवेम। हे आदित्या भवन्तोनागास्त्वेस्मदीये निरपराधित्वेदितित्वे सर्वदैवाखण्डितत्वे निमित्तभूते सति श्रोषमाणा अस्मदीयां स्मृति शृण्वन्तस्तुरासस्त्वरमाणा इमं यज्ञं दधतु धारयन्तु। कृष्णव्रोहिचरौ पुरोनुक्यामाह—इमं म इति।"
हे वरुण म मदीयमिमै हवमाह्वानं श्रुधि शुणु। श्रुत्वा चाद्यास्मान्मृड्य सुखय। अहं चावस्युः पालनेच्छुस्त्वामाचक आ समन्ताच्छब्दयामि प्रार्थयामि। तत्रैव याज्यामाह—तत्त्वा यामीति। तत्तस्मै रक्षणाय ब्रह्मणा मन्त्रैण वन्दमानस्त्वा यामि त्वां प्राप्नोमि। अथं यजमानो हविर्भिराराध्य तद्रक्षणमाशास्ते। हे वरुणाहेडमानः क्रोधरहित इह क्रर्मणि बोधि अस्माद्विज्ञापनां बुध्यस्व। हे उरुशंस प्रभूतस्तुते नोस्माकमायुर्माप्रमोषीर्मा विनाशय। अपरुध्यमानस्य विशो राष्ट्रस्य च प्राप्तये द्विहविष्का काचिदिष्टिरुक्ता। के नचित्प्रतिबन्धविशेषेण यदि कृतायामपीष्टो तत्प्राप्तिः प्रतिबध्येत तदानीं विशेषं विधत्ते “यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाभ्यामुष्मादमुष्यै विशोवगन्तोरिति निर्वपेदादित्या एवैनं भागधेयं प्रेप्सन्तो विषमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इममित्यादिनिर्बापमन्त्रोत्रैवोत्पाद्यते। अहं यजमानोमुष्माद्वैरिणोमुष्यास्तदीयप्रजायाश्चानीयेमं व्रीहीरूपं हविर्भागमादित्येभ्यो निर्वपामि। किमर्थम्। अवगन्तोरस्मदीयां प्रजां राष्ट्रं चावगन्तुम्। अनेन मन्त्रेण निर्वापे सत्यादित्याः स्वयमेव तं भागमपेक्षमाणा एनं यजमानं स्वकीयां विशं प्रापयम्ति। प्रतिबन्धाधिक्ये सति तावताप्यप्राप्तौ पुनरन्यं विशेपं विधत्ते “यदि नावगच्छेदाश्वत्थान्मयूखान्त्सप्त मध्यपेषायामुप हन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोबगन्तोरित्यादित्या एवैनं बद्धवीरा विशमव गमयन्ति” (सं. का. २ प्र. ३ अ. १) इति। इदमित्यादिर्बन्धनमन्त्रः। अमुष्माद्वैरिणः सकाशादमुष्या मदीयाया विशोवगन्तोः प्राप्तये यजमानोहमादित्यानिदं बध्वामि। इदमिति हस्तेन प्रदर्शनम्। अनेन मन्त्रेणाश्वत्थजन्यान्सप्त शङकूह्नविर्धारिणः शकटस्य मध्यमायामीषायांकीलप्रक्षेपेण बध्नीयात्। तथा सत्यादित्याः स्वयमेव बध्दवीराः सन्तः स्वकीयान्भृत्यान्मोचयितुमेनं यजमानं विशं प्रापयन्ति। ततोपि प्रबलतरप्रतिबन्धके सति पुनरप्यन्यं विशेषं विधत्ते “यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेदिध्मेपि मयूखान्त्सं नह्येदनपरुध्यमेवाव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। पूर्वत्र मध्यमायामीषायां शङ्कवः कीलिताः इदानीमिध्मेपि शङकुबन्धनं विशेषः। तेषां शङकूनां पूर्ववद्वृक्षविशेशं विधत्ते “आश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। अश्वत्थस्थ मरुदोजस्त्वमर्थवादान्तरे द्रष्टव्यम्। शङकुसंख्यां विधत्ते “सप्त भवन्ति सप्तगणा वै मरुतो गणश एव विशमव गच्छति” (सं. का. २ प्र. ३ अ. १) इति। एतेषु सर्वेष्वपि प्रयोगेषु पूर्वोक्ते एव याज्यानुवाक्ये द्रष्टव्ये। अत्र विनियोगसंग्रहः “ऐन्द्रयागे त्विरुद्रमिन्द्रं मरुद्यावेति मारुते। भरेषु वैश्वदेवेन्द्रे प्रिया प्रैयंगवे चरौ।। अग्निर्वसुमदादीनां चतुर्णां हि समूहके। यथा विकल्पिता याज्या कुत्र स्विष्टकृतो द्वयम्।। यज्ञो भुवद्वति चरौ धारयन्धारयद्वति। त्यान्नुत्रयं शुक्लचराविमं कृष्णचरौ तथा। एकादशेनुवाके स्मिन्मन्त्रा द्वाविंशतिर्मताः।।” इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः।। ११ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्रिद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराज परमेश्वरस्यश्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण यजुर्वेदीयतत्तिरीयसंहिताभाष्ये द्वितीय काण्डे प्रथमः प्रपाठकः।।१।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
—-------------------