पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः)। स्पर्धाकामो युद्धकामो ग्रामकामोऽन्नकामवान्। राज्यकामः प्रतिष्ठार्थी यः पापक्षयमिच्छति।। राज्यार्थी च पुमांसो ये तेषां पशव ईरिताः।। तृतीयानुवाके जयकामादीनां पशून्विधाय चतुर्थे ब्रह्मवर्चसकामादीनां पशू निधित्सुरादौ ब्रह्मवर्चसकामाय विधातुं प्रस्तौति असावादित्य इति। पूर्वमेवोक्तोऽप्यादित्यस्य दीप्त्यभावः कालविशेणेणात्रापि प्रतीकारान्तरं दर्शयितुं पुनरुच्यते। दशानामृषभाणां समाहारो दशर्षना। कर्मनामधेयमिनी केचित्। दत्तु नात्यन्वयुक्तिसहम्। आलमन्तेत्यस्थानन्वयप्रसङ्गाद्। विधत्ते यो ब्रह्मवर्चसकाम इति। अमुमेवाऽऽदित्यमित्यर्थवादे तत्वादादित्योऽस्मिन्कर्मणि देवता। तत्रैव कालविशेषसहितं पशुगुणविशेषं विधत्ते वसन्तेति। शितिपृष्ठाः श्वेतपृष्ठः। शितिवाराः श्वेतवालाः। पूर्वत्वकाल विशेषं प्रशंसति त्रीणि वा इति। विहितानेव त्रित्वोपेतान्संघान्प्रशंसति त्रयस्त्रय इति। पूर्वं वसन्ते यथा त्रित्वोपेतास्तथा ग्रीष्मशरदोरपि त्रित्वो पेतत्वे सति पूर्वसादृश्यं संपद्यन्ते। तद्वदस्मिन्यजमानेऽप्याभिपूर्वं पूर्वपूर्वसादृश्येनैवोत्तरकालेऽपि तेजो विधत्ते। न त्तु कदाचिदपि तेजो हीयत इत्यर्थः। आग्नेयकृष्णग्रीवादिष्विव ब्रह्मचर्यादिनियमकालं विधत्ते संवत्सरमिति। दशमस्यर्षभस्य देवताकालवर्णविशेषान्विधत्ते—
"संवत्सरस्येति। कद्रुः पिङ्गलः। प्रजापतेरुत्पादकत्वेन सर्वदेवता (त्म)- कत्वम्। त्वग्दोषनिवारणाय पशुं विधत्ते यदि बिभीयादिति। कण्डूत्यादिविशेषलिङ्गेन भाविकुष्ठरोगमनुमाय भीतस्यायं पशुः। पुरुषस्य सोमदेवताकत्वं पशूनां पौष्णत्वं च सोमापूषविषययाज्याव्याख्याप्रसङ्गेन दर्शितम्। भ्रातृव्यवतो द्विपशुकं कर्म विधातुं प्रस्तौति देवाश्चेति। अयुवत देवेभ्यः पृथक्कृतवान्। अतो यवनामकोऽयं वर्णव्यत्ययेन यमः संपन्नः। इन्द्रियगते वीर्येऽपगते सति देवाः परस्परमिदमब्रुवन् पूर्वं यद्भूलोकाधिपत्यं प्राप्यं वयं स्मस्तदिदं प्राप्य यम एवाभूत्। उक्षा सेचनसमर्थोवत्सोत्पादकः। वशा वन्ध्या। सिङ्गव्यत्ययो द्रष्टव्यः। तं यमं वरुणपाशेनैवग्राहयित्वा यज्ञरूपेण निष्कासितवन्तः। इन्द्रप्रसादेनास्य यमस्य वीर्यं नाशितवन्तः। विधत्ते यो भ्रातृव्यानिति। आत्मना स्वेन रूपेण यजमानो विजयी भवति। अस्य भ्रातृव्यः पराभवति। पापविमुक्तिकामस्य द्विपशुकं कर्म विधातुं प्रस्तौति इन्द्रो वृत्रमिति। तमिन्द्रं भोगैः शरीररैरसिनादबध्नाद्धताद्बृत्रादुत्पन्नानि क्रोधाविष्टानि षोडश शरीराणि परितो वेष्टयित्वा स्थितानि, स च वृत्रः सर्पाकारैस्तैः शरीरैस्तमिन्द्रं रज्जुभिरिव वबन्ध। ततस्तस्य वृत्रस्य शीर्षतः काश्चिद्गाव उत्पन्नाः। ताश्च गावो विशिष्टदेहसंबन्धिन्योऽभवन्। तासां गवां जघने पृष्ठभागं कश्चिदृषभोऽनुगम्योदगच्छत्। तमृषभमुद्दिश्येन्द्रोऽचायत्स्वात्मानं पूजितवान्, अहो मदीयं कार्यं संपन्नमिति। ततः स इन्द्रो मनसा व्यचारयत्। किमिति, यः कोऽपीममृषभमालभेत देवतोद्देशेन हिंस्यात्स ईदृशाद्वन्धनादिरूपात्पाप्मनो मुच्येत्तेति एवं विचार्य द्विपशुकं कर्म कृतवान्। तस्येन्द्रस्य संबन्धिना स्वभागेन तुष्टोऽग्निः सर्पाकाराणि षोड्श शरीराणि तं वृत्रमप्यदहत्। तत ऐन्द्रयागेन (ण) सामर्थ्यमिनः स्वात्मन्यधत्त। अथ विधत्ते यः पाप्मनेति। चिरं राज्यभ्रष्टस्य पशुं विधत्ते द्यावापृथिव्यामिति। ज्योगपरुद्धश्चिंर राज्यभ्रष्टः। यस्तु प्रजापालनस्याभावदस्मिँल्लोके न प्रतितिष्ठति, वै दिककर्मानुष्ठानाभावात्स्वर्गेऽपि न प्रतितिष्ठति तदानीं सोऽत्र ज्योगपरुद्ध इत्युच्यते। तस्य द्यावापृथिव्योः परितोषादुभयत्र प्रतिष्ठा संपद्यते। धेनोः कंचिद्गुणं विधत्ते पर्यारिणीति। या गौगर्भिणी सती प्राप्तं प्रसवकालं परित्यज्य चिरं गर्भं धृत्वा पश्चात्प्रसूते सा पर्यारिणी। तथा च सूत्रकारः- “पर्यारिणीति परिहारसूर्भवति” इति। यो ज्योगपरुद्ध एतस्य राष्ट्रं पर्यारीव भवति, भोगकालं चिरमतीत्य पश्चात्प्राप्यमान (ण) त्वात्। अतः सदृशयोगः समृद्ध्यै भवति। ज्योगपरुद्धस्यैव धेनुप्रयोगादूर्ध्वं वत्सप्रयोगं विधत्ते वायव्यमिति। यथा वत्सो धेनोः समीप एव संचरति तथा वायुरपि द्यावापृथिव्योः संचरतीति तद्बत्सत्वप्। अत एव द्यावापृथिव्यधेनुप्रयोगसमीपे तदीयवत्सप्रयोगो युज्यते। यदा लोकाः प्रजा चैतस्मै राज्ञेऽपशुष्का अपरक्ता भवन्ति तदानीमेवैष ज्योगपरुद्धो भवति। लोकशब्देन तत्र तत्र प्रभुत्वेन स्थिता ग्रामण्यादयो मुख्यपुरुषा उच्यन्ते। अवशिष्टा सर्वा प्रजा विट्शब्देन। वत्सेन तुष्टो वायुर्लाकान्प्रजा च प्रदापयत्यनुरक्तान्करोति। ते च लोका अस्मै स्नुवन्ति मणि मुक्तादिधनं प्रस्रावयन्ति बाहुल्येन प्रयच्छन्तीत्यर्थः। प्रजा चैनं भुञ्जती पालयन्ती सेवते। "
अत्र मीमांसा। अष्टमाध्यायस्य प्रथमपादे चिन्तितम् “ललामादिगणे दैक्षादैकादशिनतोऽथवा। आद्यो विशेषराहित्यन्न गणत्वविशेषतः”।। काम्यपशुकाण्डे पशुगणः श्रूयते—“वसन्ते ललामांस्त्रीन्वृषभानालभेत” इति। तत्र रशनाद्वयादिविशेषलिङ्गाभावाद्दैक्षाद्ग्नीषोमीयाद्धर्मातिदेश इति चेत्। न। गणत्वेन विशेषलिङ्नेनैकादशिनेभ्योऽतिदेशात्। ऐकादशिनानां पशुगणप्रकृतित्वं लिङ्गादवगम्यते। तथा हि सौत्रामण्यां पशुगणं प्रकृत्यैवमाम्नायते “यत्त्रिषु यूपेष्वालभेत। बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात्। भ्रातृव्यमस्मै जनयेत्। एकयूप आलभते” इति। यद्यत्राग्नीषोमीयः प्रकृतिः स्यात्तदा
"चोदकादेकस्यैव यूपस्य प्राप्तत्वेन यूपत्रयमसक्त्यभावात्तदुपन्यासेन दोषाभिधानं पुनरेकयूपविधानं च व्यर्थं स्यात्। ऐकादशिनानां प्रकृतित्वे तु प्रतिपशु पृथग्यूपातिदेशेन प्रसाक्तिसद्भावात्तदुपपद्यते। तस्मात्पशुगणेष्वैकादशिनेभ्योऽतिदेशः। दशमाध्यायस्य द्वितीयपादे चिन्तितम् “धेनुवत्सर्षभाश्छगे गवि वा गुणकीर्तनात्। अजेऽतिदिष्टे स्युर्मैवं गोजात्येकगुणोक्तितः”।। पशुविकृतिषु श्रूयते---“द्यावापृथिव्या धेनुमालभेत मारुतं वत्समैन्द्र” इति। तत्र धेनुशब्द नवसूतिकामाचष्टे। वत्सशब्दो बालम्। ऋषभशब्दः पुमांसम्। तथा सति गुणवाचिन एते शब्दा अतिदिष्टमजद्रव्यमबाधित्वा तदेव द्रव्यं यथोक्तगुणविशिष्टं वदन्ति। गौस्तु न प्रत्यक्षमिह श्रूयते नाप्यतिदिश्यते। प्रकृतावनुपदिष्टत्वात्। अते न गां विशिंषन्तीति पूर्वपक्षः। न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हिगोगतानेव तान्गुणानाहुः। अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्या विशिंषन्तश्छागं बाधन्त इति राध्दान्तः।। इति श्रीमस्तायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः।।४।।"
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
द्वितीये प्रथमे चतुर्थः ॥