अनुवाकः 4 TS 2.1.4

(A4)

(म॒ध्यन्दि॑ने॒ - कद्रुं॑ - ॅय॒मस्य॒ - स्पर्द्ध॑मानो वैष्णावरु॒णीं -तमिन्द्रो᳚ - ऽस्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो - वाय॒व्यं॑ - द्विच॑त्वारिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 2.1.4 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑
PS1.2 दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तां
PS1.3 दश॑र्.षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒
PS1.4 स्यात् तस्मा॑ ए॒तां दश॑र्.षभा॒मा
PS1.5 ल॑भेता॒-मुमे॒वाऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS1.6 स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
PS1.7 ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्रीन्
PS1.8 ॅल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒
PS1.9 - [ ]
PS2.1 त्रीञ्छि॑ति पृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न् त्रीणि॒
PS2.2 वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚
PS2.3 प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व
PS2.4 तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒
PS2.5 आ ल॑भ्यन्ते-ऽभि पू॒र्वमे॒वास्मि॒न् तेजो॑
PS2.6 दधाति संॅवथ्स॒रं प॒र्याल॑भ्यन्ते संॅवथ्स॒रो
PS2.7 वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑ॅवथ्स॒र
PS2.8 ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति
PS2.9 ब्रह्मवर्च॒स्ये॑व भ॑वति संॅवथ्स॒रस्य॑ प॒रस्ता᳚त्
PS2.10 प्राजाप॒त्यं कद्रु॒ - [
PS2.11 ]
PS3.1 -मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑
PS3.2 दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑
PS3.3 बिभी॒याद्-दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णꣳ श्या॒ममा
PS3.4 ल॑भेत सौ॒म्यो वै दे॒वत॑या॒
PS3.5 पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑
PS3.6 दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न
PS3.7 दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै
PS3.8 य॒मश्चा॒स्मिन् ॅलो॒के᳚ऽस्पर्द्धन्त॒ स य॒मो
PS3.9 दे॒वाना॑मिन्द्रि॒यं ॅवी॒र्य॑मयुवत॒ तद्य॒मस्य॑ -
PS3.10 [ ]
PS4.1 यम॒त्वं ते दे॒वा अ॑मन्यन्त
PS4.2 य॒मो वा इ॒दम॑भू॒द्-यद्-व॒यꣳ स्म
PS4.3 इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ् स
PS4.4 ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒
PS4.5 ते दे॒वा वै᳚ष्णावरु॒णीं ॅव॒शामा-ऽल॑भन्तै॒न्द्रमु॒क्षाण॒तं
PS4.6 ॅवरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒
PS4.7 प्राणु॑दन्तै॒न्द्रेणै॒-वास्ये᳚न्द्रि॒यम॑-वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ्
PS4.8 स स्पर्द्ध॑मानो वैष्णावरु॒णीं -
PS4.9 [ ]
PS5.1 ॅव॒शामा ल॑भेतै॒न्द्रमु॒क्षाणं॒ ॅवरु॑णेनै॒व भ्रातृ॑व्यं
PS5.2 ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत
PS5.3 ऐ॒न्द्रेणै॒वास्ये᳚न्द्रि॒यं ॅवृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒
PS5.4 भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न् तं
PS5.5 ॅवृ॒त्रो ह॒तः षो॑ड॒शभि॑-र्भो॒गैर॑सिना॒त् तस्य॑
PS5.6 वृ॒त्रस्य॑ शीर्.ष॒तो गाव॒ उदा॑य॒न्
PS5.7 ता वै॑दे॒ह्यो॑ऽभव॒न् तासा॑मृष॒भो ज॒घनेऽनूदै॒त्
PS5.8 तमिन्द्रो॑ - [ ]
PS6.1 ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा
PS6.2 इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒
PS6.3 स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतै॒न्द्रमृ॑ष॒भं
PS6.4 तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑ सृतः
PS6.5 षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे᳚न्द्रि॒य- मा॒त्मन्न॑धत्त॒
PS6.6 यः पा॒प्मना॑ गृही॒तः स्याथ्
PS6.7 स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भ-म॒ग्निरे॒वास्य॒
PS6.8 स्वेन॑ भाग॒धेये॒नोप॑सृतः - [
PS6.9 ]
PS7.1 पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे᳚न्द्रि॒यमा॒त्मन् ध॑त्ते॒ मुच्य॑ते
PS7.2 पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा
PS7.3 ल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र्॒॒.हि वा
PS7.4 ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व
PS7.5 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते
PS7.6 ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒व
PS7.7 ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒
PS7.8 ह्ये॑तस्य॑ रा॒ष्ट्रं ॅयो ज्योग॑परुद्धः॒
PS7.9 समृ॑द्ध्यै वाय॒व्यं॑ - [
PS7.10 ]
PS8.1 ॅव॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स
PS8.2 इ॒मे वा ए॒तस्मै॑ लो॒का
PS8.3 अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व
PS8.4 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
PS8.5 ए॒वास्मा॑ इ॒मां ॅलो॒कान्. विशं॒
PS8.6 प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः
PS8.7 स्नु॑वन्तिभुञ्ज॒त्ये॑नं॒ ॅविडुप॑तिष्ठते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.4.1 TS 2.1.4.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तां दश॑र्.षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तां दश॑र्.षभा॒मा ल॑भेता॒-मुमे॒वाऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्रीन् ॅल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ - [ ]
पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्मै᳚ । ए॒ताम् । दश॑र्.षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् । एति॑ । अ॒ल॒भ॒न्त॒ । तया᳚ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । अ॒द॒धुः॒ । यः । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताम् । दश॑र्.षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । व॒सन्ता᳚ । प्रा॒तः । त्रीन् । ल॒लामान्॑ । एति॑ । ल॒भे॒त॒ । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः)। स्पर्धाकामो युद्धकामो ग्रामकामोऽन्नकामवान्। राज्यकामः प्रतिष्ठार्थी यः पापक्षयमिच्छति।। राज्यार्थी च पुमांसो ये तेषां पशव ईरिताः।। तृतीयानुवाके जयकामादीनां पशून्विधाय चतुर्थे ब्रह्मवर्चसकामादीनां पशू निधित्सुरादौ ब्रह्मवर्चसकामाय विधातुं प्रस्तौति असावादित्य इति। पूर्वमेवोक्तोऽप्यादित्यस्य दीप्त्यभावः कालविशेणेणात्रापि प्रतीकारान्तरं दर्शयितुं पुनरुच्यते। दशानामृषभाणां समाहारो दशर्षना। कर्मनामधेयमिनी केचित्। दत्तु नात्यन्वयुक्तिसहम्। आलमन्तेत्यस्थानन्वयप्रसङ्गाद्। विधत्ते यो ब्रह्मवर्चसकाम इति। अमुमेवाऽऽदित्यमित्यर्थवादे तत्वादादित्योऽस्मिन्कर्मणि देवता। तत्रैव कालविशेषसहितं पशुगुणविशेषं विधत्ते वसन्तेति। शितिपृष्ठाः श्वेतपृष्ठः। शितिवाराः श्वेतवालाः। पूर्वत्वकाल विशेषं प्रशंसति त्रीणि वा इति। विहितानेव त्रित्वोपेतान्संघान्प्रशंसति त्रयस्त्रय इति। पूर्वं वसन्ते यथा त्रित्वोपेतास्तथा ग्रीष्मशरदोरपि त्रित्वो पेतत्वे सति पूर्वसादृश्यं संपद्यन्ते। तद्वदस्मिन्यजमानेऽप्याभिपूर्वं पूर्वपूर्वसादृश्येनैवोत्तरकालेऽपि तेजो विधत्ते। न त्तु कदाचिदपि तेजो हीयत इत्यर्थः। आग्नेयकृष्णग्रीवादिष्विव ब्रह्मचर्यादिनियमकालं विधत्ते संवत्सरमिति। दशमस्यर्षभस्य देवताकालवर्णविशेषान्विधत्ते—

"संवत्सरस्येति। कद्रुः पिङ्गलः। प्रजापतेरुत्पादकत्वेन सर्वदेवता (त्म)- कत्वम्। त्वग्दोषनिवारणाय पशुं विधत्ते यदि बिभीयादिति। कण्डूत्यादिविशेषलिङ्गेन भाविकुष्ठरोगमनुमाय भीतस्यायं पशुः। पुरुषस्य सोमदेवताकत्वं पशूनां पौष्णत्वं च सोमापूषविषययाज्याव्याख्याप्रसङ्गेन दर्शितम्। भ्रातृव्यवतो द्विपशुकं कर्म विधातुं प्रस्तौति देवाश्चेति। अयुवत देवेभ्यः पृथक्कृतवान्। अतो यवनामकोऽयं वर्णव्यत्ययेन यमः संपन्नः। इन्द्रियगते वीर्येऽपगते सति देवाः परस्परमिदमब्रुवन् पूर्वं यद्भूलोकाधिपत्यं प्राप्यं वयं स्मस्तदिदं प्राप्य यम एवाभूत्। उक्षा सेचनसमर्थोवत्सोत्पादकः। वशा वन्ध्या। सिङ्गव्यत्ययो द्रष्टव्यः। तं यमं वरुणपाशेनैवग्राहयित्वा यज्ञरूपेण निष्कासितवन्तः। इन्द्रप्रसादेनास्य यमस्य वीर्यं नाशितवन्तः। विधत्ते यो भ्रातृव्यानिति। आत्मना स्वेन रूपेण यजमानो विजयी भवति। अस्य भ्रातृव्यः पराभवति। पापविमुक्तिकामस्य द्विपशुकं कर्म विधातुं प्रस्तौति इन्द्रो वृत्रमिति। तमिन्द्रं भोगैः शरीररैरसिनादबध्नाद्धताद्बृत्रादुत्पन्नानि क्रोधाविष्टानि षोडश शरीराणि परितो वेष्टयित्वा स्थितानि, स च वृत्रः सर्पाकारैस्तैः शरीरैस्तमिन्द्रं रज्जुभिरिव वबन्ध। ततस्तस्य वृत्रस्य शीर्षतः काश्चिद्गाव उत्पन्नाः। ताश्च गावो विशिष्टदेहसंबन्धिन्योऽभवन्। तासां गवां जघने पृष्ठभागं कश्चिदृषभोऽनुगम्योदगच्छत्। तमृषभमुद्दिश्येन्द्रोऽचायत्स्वात्मानं पूजितवान्, अहो मदीयं कार्यं संपन्नमिति। ततः स इन्द्रो मनसा व्यचारयत्। किमिति, यः कोऽपीममृषभमालभेत देवतोद्देशेन हिंस्यात्स ईदृशाद्वन्धनादिरूपात्पाप्मनो मुच्येत्तेति एवं विचार्य द्विपशुकं कर्म कृतवान्। तस्येन्द्रस्य संबन्धिना स्वभागेन तुष्टोऽग्निः सर्पाकाराणि षोड्श शरीराणि तं वृत्रमप्यदहत्। तत ऐन्द्रयागेन (ण) सामर्थ्यमिनः स्वात्मन्यधत्त। अथ विधत्ते यः पाप्मनेति। चिरं राज्यभ्रष्टस्य पशुं विधत्ते द्यावापृथिव्यामिति। ज्योगपरुद्धश्चिंर राज्यभ्रष्टः। यस्तु प्रजापालनस्याभावदस्मिँल्लोके न प्रतितिष्ठति, वै दिककर्मानुष्ठानाभावात्स्वर्गेऽपि न प्रतितिष्ठति तदानीं सोऽत्र ज्योगपरुद्ध इत्युच्यते। तस्य द्यावापृथिव्योः परितोषादुभयत्र प्रतिष्ठा संपद्यते। धेनोः कंचिद्गुणं विधत्ते पर्यारिणीति। या गौगर्भिणी सती प्राप्तं प्रसवकालं परित्यज्य चिरं गर्भं धृत्वा पश्चात्प्रसूते सा पर्यारिणी। तथा च सूत्रकारः- “पर्यारिणीति परिहारसूर्भवति” इति। यो ज्योगपरुद्ध एतस्य राष्ट्रं पर्यारीव भवति, भोगकालं चिरमतीत्य पश्चात्प्राप्यमान (ण) त्वात्। अतः सदृशयोगः समृद्ध्यै भवति। ज्योगपरुद्धस्यैव धेनुप्रयोगादूर्ध्वं वत्सप्रयोगं विधत्ते वायव्यमिति। यथा वत्सो धेनोः समीप एव संचरति तथा वायुरपि द्यावापृथिव्योः संचरतीति तद्बत्सत्वप्। अत एव द्यावापृथिव्यधेनुप्रयोगसमीपे तदीयवत्सप्रयोगो युज्यते। यदा लोकाः प्रजा चैतस्मै राज्ञेऽपशुष्का अपरक्ता भवन्ति तदानीमेवैष ज्योगपरुद्धो भवति। लोकशब्देन तत्र तत्र प्रभुत्वेन स्थिता ग्रामण्यादयो मुख्यपुरुषा उच्यन्ते। अवशिष्टा सर्वा प्रजा विट्शब्देन। वत्सेन तुष्टो वायुर्लाकान्प्रजा च प्रदापयत्यनुरक्तान्करोति। ते च लोका अस्मै स्नुवन्ति मणि मुक्तादिधनं प्रस्रावयन्ति बाहुल्येन प्रयच्छन्तीत्यर्थः। प्रजा चैनं भुञ्जती पालयन्ती सेवते। "

अत्र मीमांसा। अष्टमाध्यायस्य प्रथमपादे चिन्तितम् “ललामादिगणे दैक्षादैकादशिनतोऽथवा। आद्यो विशेषराहित्यन्न गणत्वविशेषतः”।। काम्यपशुकाण्डे पशुगणः श्रूयते—“वसन्ते ललामांस्त्रीन्वृषभानालभेत” इति। तत्र रशनाद्वयादिविशेषलिङ्गाभावाद्दैक्षाद्ग्नीषोमीयाद्धर्मातिदेश इति चेत्। न। गणत्वेन विशेषलिङ्नेनैकादशिनेभ्योऽतिदेशात्। ऐकादशिनानां पशुगणप्रकृतित्वं लिङ्गादवगम्यते। तथा हि सौत्रामण्यां पशुगणं प्रकृत्यैवमाम्नायते “यत्त्रिषु यूपेष्वालभेत। बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात्। भ्रातृव्यमस्मै जनयेत्। एकयूप आलभते” इति। यद्यत्राग्नीषोमीयः प्रकृतिः स्यात्तदा

"चोदकादेकस्यैव यूपस्य प्राप्तत्वेन यूपत्रयमसक्त्यभावात्तदुपन्यासेन दोषाभिधानं पुनरेकयूपविधानं च व्यर्थं स्यात्। ऐकादशिनानां प्रकृतित्वे तु प्रतिपशु पृथग्यूपातिदेशेन प्रसाक्तिसद्भावात्तदुपपद्यते। तस्मात्पशुगणेष्वैकादशिनेभ्योऽतिदेशः। दशमाध्यायस्य द्वितीयपादे चिन्तितम् “धेनुवत्सर्षभाश्छगे गवि वा गुणकीर्तनात्। अजेऽतिदिष्टे स्युर्मैवं गोजात्येकगुणोक्तितः”।। पशुविकृतिषु श्रूयते---“द्यावापृथिव्या धेनुमालभेत मारुतं वत्समैन्द्र” इति। तत्र धेनुशब्द नवसूतिकामाचष्टे। वत्सशब्दो बालम्। ऋषभशब्दः पुमांसम्। तथा सति गुणवाचिन एते शब्दा अतिदिष्टमजद्रव्यमबाधित्वा तदेव द्रव्यं यथोक्तगुणविशिष्टं वदन्ति। गौस्तु न प्रत्यक्षमिह श्रूयते नाप्यतिदिश्यते। प्रकृतावनुपदिष्टत्वात्। अते न गां विशिंषन्तीति पूर्वपक्षः। न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हिगोगतानेव तान्गुणानाहुः। अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्या विशिंषन्तश्छागं बाधन्त इति राध्दान्तः।। इति श्रीमस्तायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः।।४।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 असावादित्य इत्यादि ॥ दशानामृषभानां समाहारो दशर्षभा । 'आकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते' इति त्रिफलादिवदजादित्वात् 'द्विगोः' इति ङीबभावः । 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । अनिगन्तेऽपि व्यत्ययेन प्रवर्तते । बहुव्रीहिर्वा ; समष्टिर्वाच्या । दशर्षभेति कर्मनाम, जातिरिति केचित् ॥
2 वसन्तेति ॥ पूर्ववत्सप्तम्या डादेशः । वसन्ते चतुर्दश्यां प्रक्रमः । प्रातःकाले उपाकरणं वपाहोमोभयं यथा स्यात्तथोपक्रमः । ग्रीष्मशरदोर्मध्याह्नापराह्णयोरेवोपक्रमः । सर्वत्र संवत्सरे ब्रह्मचर्यादि यजमानस्य केचिदिच्छन्ति । ललामा उक्ताः । शितिपृष्ठाश्वेतवाराः श्वेतवालाः । उभयत्रापि 'शितेर्नित्याबह्वच्' इत्युत्तरपद- प्रकृतिस्वरत्वम् । अभिपूर्वमिति । अनुक्रमेण त्रिभिः पशुभिः त्रीणि तेजांस्यस्मिन् दधाति । संवत्सरमित्यादि । गतम् ॥
3 संवत्सरस्येति ॥ यस्मिन्नारभ्यते पर्वणि दशर्षभा ततः प्रभृति द्वादशसु द्वादशसु पौर्णमासीषु द्वादशामावास्यासु चातीतासु त्रयोदशे पर्वणि सङ्कल्पः । कद्रुं पक्वबदरवर्णम् ॥
4 यदीत्यादि ॥ दुश्चर्मा कुष्ठी । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । कुष्ठादित्वग्दोषो मे भविष्यतीति यदि कथंचिल्लिङ्गाद्बिभीयादिति । स्वयेति । देवतया पशुभिश्च सहकारिभिः त्वचं शोभनां करोति ॥
5 देवाश्चेत्यादि ॥ अस्मिन् लोके एतल्लोकनिमित्तमस्पर्धन्त अस्माकमेवायं लोक इति देवाः, ममैवायमिति यमः । स इत्यादि । देवानामिन्द्रियं वीर्यं चायुवत देवेभ्यः पृथक्कृतवान् अपहृतवान् । व्यत्ययेन शप्, आत्मनेपदं च । तदिति । यवनाद्यमः । यौतेः पचाद्यचि अन्त्यविकारश्छान्दसः । यमो वा इति । यमो वा इदं विश्वमभूत् यमेश्वरमभूत् यद्वयं स्मः यदस्मदधीनं पूर्वमासीत् । त इति । तथा मन्यमाना देवाः प्रजापतिमुपसम्प्राप्ताः इत्थं स्मः अत्र प्रतिकर्तुमर्हसीति । स चात्मनः शरीरादुक्षवशौ निरमिमीत निर्माय दत्तवान् । उक्षा च वशा चोक्षवशौ, व्यत्ययेन पूर्ववल्लिङ्गता । उक्षा सेक्ता वशा वन्ध्या । ते इत्यादि । गतम् ॥
6 इन्द्रो वृत्रमहन्नित्यादि ॥ षोडशभिर्भोगैः शरीरदेशैः इन्द्रमसिनात् अबध्नात् । षिञ् बन्धने । वैदेह्यो गोविशेषाः । केचिदाहुः - विदेहा एव वैदेह्यः अशरीरा गावोऽभवन् । 'उदात्तस्वरितयोः' इति विभक्तिस्स्वर्यते । अथ तासां गवां जघने पश्चात् ऋषभोऽनूदैत् अनूद्गतः, तमिन्द्रश्श्रुतवान् । अस्मादिति । सर्वलोकप्रसिद्धात्, न तु प्रकृतात्, अत एवान्वादेशाभावान्निघाताभावः । 'ऊडिदम्' इति आविभक्तेरुदात्तत्वम् । अथैवं जानन्निन्द्रः स्वयं तावदाग्नेयं कृष्णग्रीवमालभत ऐन्द्रमृषभम् । पृथक् स्वेन भागधेयेनोपसृतोऽग्निरस्येन्द्रस्य बाधकान् वृत्रभोगान् षोडशधा स्थितानप्यदहत् यथाकाममदहत् । यद्वा - षोडशधा स्थितान्सर्वानप्यदहत् । ऐन्द्रेणात्मनीन्द्रियमधत्तेन्द्रः [गतमन्यत्] ॥
7 द्यावापृथिव्यामिति ॥ 'द्यावापृथिवी शुनासीर' इति यत् । ज्योगपरुद्धः दीर्घकालं दुर्गतः । राष्ट्रान्निर्वासित इत्येके । द्यावापृथिव्योरप्रतिष्ठितत्वादेष ज्योगपरुद्धो भवति । पर्यारिणी प्रसवकालमतीत्य कृतप्रसवा । केचिदाहुः - प्रजननकालमतीत्य प्रजायतः [... तीत्य या प्रजातेति । ] ज्योगपरुद्धस्य हि राष्ट्रं पर्यारि भवति दीर्घकालातिक्रमेण प्राप्तत्वात् । तस्मात्सदृशयोगस्समृद्ध्यै भवति ॥
8 अथ वायव्यो वत्सोऽपरुद्धस्यैव विधीयते - तस्या एव धेनोर्द्यावापृथिव्योः हि वत्सो वायुः । इमे च द्युप्रभृतयो लोकाः एतस्मै पुरुषायापशुष्काः अपरक्ता अस्मिन् भवन्ति । विट्च प्रजा चापशुष्का भवति । अथैष ज्योगपरुद्धो भवति । प्रदापयतीति । अपरं हित्वा यथास्मै वसूनि ददाति विट्च तथा करोति वायुः, ततश्चास्मै इमे लोकाः प्रस्नुवन्ति वसस्नेहः [सस्नेहं] वसूनि दुहन्ति, विट्च एनमुपतिष्ठते सङ्गच्छते इति । सङ्गतिकरण आत्मनेपदम्, कीदृशा भूत्वा - भुञ्जति सर्वदा एनं परिपालयन्ति । 'भुजोऽनवने' इत्यात्मनेपदाभावात् 'शतुरनुमः' इति नद्या उदात्तत्वम् ॥

द्वितीये प्रथमे चतुर्थः ॥

पञ्चशत् 2 #
TS 2.1.4.2 TS 2.1.4.2
त्रीञ्छि॑ति पृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्ते-ऽभि पू॒र्वमे॒वास्मि॒न् तेजो॑ दधाति संॅवथ्स॒रं प॒र्याल॑भ्यन्ते संॅवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑ॅवथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति संॅवथ्स॒रस्य॑ प॒रस्ता᳚त् प्राजाप॒त्यं कद्रु॒ - [ ]
पदपाठः (Word-by-word)
त्रीन् । शि॒ति॒पृ॒ष्ठानिति॑ शिति - पृ॒ष्ठान् । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर-अ॒ह्ने । त्रीन् । शि॒ति॒वारा॒निति॑ शिति - वारान्॑ । त्रीणि॑ । वै । आ॒दि॒त्यस्य॑ । तेजाꣳ॑सि । व॒सन्ता᳚ । प्रा॒तः । ग्री॒ष्मे । म॒द्ध्यन्दि॑ने । श॒रदि॑ । अ॒प॒रा॒ह्ण इत्य॑पर-अ॒ह्ने । याव॑न्ति । ए॒व । तेजाꣳ॑सि । तानि॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । त्रय॑स्त्रय॒ इति॒ त्रयः॑-त्र॒यः॒ । एति॑ । ल॒भ्य॒न्ते॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । अ॒स्मि॒न्न् । तेजः॑ । द॒धा॒ति॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प॒र्याल॑भ्यन्त॒ इति॑ परि-आल॑भ्यन्ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । प्र॒दा॒तेति॑ प्र - दा॒ता । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ए॒व । अ॒स्मै॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । प्रेति॑ । य॒च्छ॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प॒रस्ता᳚त् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । कद्रु᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.4.3 TS 2.1.4.3
-मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्-दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णꣳ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिन् ॅलो॒के᳚ऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यं ॅवी॒र्य॑मयुवत॒ तद्य॒मस्य॑ - [ ]
पदपाठः (Word-by-word)
एति॑ । ल॒भे॒त॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑सु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यदि॑ । बि॒भी॒यात् । दु॒श्चर्मेति॑ दुः-चर्मा᳚ । भ॒वि॒ष्या॒मि॒ । इति॑ । सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् । श्या॒मम् । एति॑ । ल॒भे॒त॒ । सौ॒म्यः । वै । दे॒वत॑या । पुरु॑षः । पौ॒ष्णाः । प॒शवः॑ । स्वया᳚ । ए॒व । अ॒स्मै॒ । दे॒वत॑या । प॒शुभि॒रिति॑ प॒शु - भिः॒ । त्वच᳚म् । क॒रो॒ति॒ । न । दु॒श्चर्मेति॑ दुः - चर्मा᳚ । भ॒व॒ति॒ । दे॒वाः । च॒ । वै । य॒मः । च॒ । अ॒स्मिन्न् । लो॒के । अ॒स्प॒र्ध॒न्त॒ । सः । य॒मः । दे॒वाना᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒यु॒व॒त॒ । तत् । य॒मस्य॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.4.4 TS 2.1.4.4
यम॒त्वं ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्-यद्-व॒यꣳ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ् स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीं ॅव॒शामा-ऽल॑भन्तै॒न्द्रमु॒क्षाण॒तं ॅवरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒-वास्ये᳚न्द्रि॒यम॑-वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मानो वैष्णावरु॒णीं - [ ]
पदपाठः (Word-by-word)
य॒म॒त्वमिति॑ यम - त्वम् । ते । दे॒वाः । अ॒म॒न्य॒न्त॒ । य॒मः । वै । इ॒दम् । अ॒भू॒त् । यत् । व॒यम् । स्मः । इति॑ । ते । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒वन्न् । सः । ए॒तौ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । आ॒त्मनः॑ । उ॒क्ष॒व॒शावित्यु॑क्ष - व॒शौ । निरिति॑ । अ॒मि॒मी॒त॒ । ते । दे॒वाः । वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा-व॒रु॒णीम् । व॒शाम् । एति॑ । अ॒ल॒भ॒न्त॒ । ऐ॒न्द्रम् । उ॒क्षाण᳚म् । तम् । वरु॑णेन । ए॒व । ग्रा॒ह॒यि॒त्वा । विष्णु॑ना । य॒ज्ञेन॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ । ऐ॒न्द्रेण॑ । ए॒व । अ॒स्य॒ । इ॒न्द्रि॒यम् । अ॒वृ॒ञ्ज॒त॒ । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । स्पर्द्ध॑मानः । वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा - व॒रु॒णीम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.4.5 TS 2.1.4.5
ॅव॒शामा ल॑भेतै॒न्द्रमु॒क्षाणं॒ ॅवरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्ये᳚न्द्रि॒यं ॅवृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न् तं ॅवृ॒त्रो ह॒तः षो॑ड॒शभि॑-र्भो॒गैर॑सिना॒त् तस्य॑ वृ॒त्रस्य॑ शीर्.ष॒तो गाव॒ उदा॑य॒न् ता वै॑दे॒ह्यो॑ऽभव॒न् तासा॑मृष॒भो ज॒घनेऽनूदै॒त् तमिन्द्रो॑ - [ ]
पदपाठः (Word-by-word)
व॒शाम् । एति॑ । ल॒भे॒त॒ । ऐ॒न्द्रम् । उ॒क्षाण᳚म् । वरु॑णेन । ए॒व । भ्रातृ॑व्यम् । ग्रा॒ह॒यि॒त्वा । विष्णु॑ना । य॒ज्ञेन॑ । प्रेति॑ । नु॒द॒ते॒ । ऐ॒न्द्रेण॑ । ए॒व । अ॒स्य॒ । इ॒न्द्रि॒यम् । वृ॒ङ्क्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । तम् । वृ॒त्रः । ह॒तः । षो॒ड॒शभि॒रिति॑ षोड॒श - भिः॒ । भो॒गैः । अ॒सि॒ना॒त् । तस्य॑ । वृ॒त्रस्य॑ । शी॒र्.॒ष॒तः । गावः॑ । उदिति॑ । आ॒य॒न्न् । ताः । वै॒दे॒ह्यः॑ । अ॒भ॒व॒न्न् । तासा᳚म् । ऋ॒ष॒भः । ज॒घने᳚ । अनु॑ । उदिति॑ । ऐ॒त् । तम् । इन्द्रः॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.1.4.6 TS 2.1.4.6
ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒ स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतै॒न्द्रमृ॑ष॒भं तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑ सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे᳚न्द्रि॒य- मा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ् स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भ-म॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः - [ ]
पदपाठः (Word-by-word)
अ॒चा॒य॒त् । सः । अ॒म॒न्य॒त॒ । यः । वै । इ॒मम् । आ॒लभे॒तेत्या᳚ - लभे॑त । मुच्ये॑त । अ॒स्मात् । पा॒प्मनः॑ । इति॑ । सः । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । अ॒ल॒भ॒त॒ । ऐ॒न्द्रम् । ऋ॒ष॒भम् । तस्य॑ । अ॒ग्निः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उप॑सृत॒ इत्युप॑ - सृ॒तः॒ । षो॒ड॒श॒धेति॑ षोडश-धा । वृ॒त्रस्य॑ । भो॒गान् । अपीति॑ । अ॒द॒ह॒त् । ऐ॒न्द्रेण॑ । इ॒न्द्रि॒यम् । आ॒त्मन्न् । अ॒ध॒त्त॒ । यः । पा॒प्मना᳚ । गृ॒ही॒तः । स्यात् । सः । आ॒ग्ने॒यम् । कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् । एति॑ । ल॒भे॒त॒ । ऐ॒न्द्रम् । ऋ॒ष॒भम् । अ॒ग्निः । ए॒व । अ॒स्य॒ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उप॑सृत॒ इत्युप॑ - सृ॒तः॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.1.4.7 TS 2.1.4.7
पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे᳚न्द्रि॒यमा॒त्मन् ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र्॒॒.हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं ॅयो ज्योग॑परुद्धः॒ समृ॑द्ध्यै वाय॒व्यं॑ - [ ]
पदपाठः (Word-by-word)
पा॒प्मान᳚म् । अपीति॑ । द॒ह॒ति॒ । ऐ॒न्द्रेण॑ । इ॒न्द्रि॒यम् । आ॒त्मन्न् । ध॒त्ते॒ । मुच्य॑ते । पा॒प्मनः॑ । भव॑ति । ए॒व । द्या॒वा॒पृ॒थि॒व्या॑मिति॑ द्यावा - पृ॒थि॒व्या᳚म् । धे॒नुम् । एति॑ । ल॒भे॒त॒ । ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ । अ॒नयोः᳚ । हि । वै । ए॒षः । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । अथ॑ । ए॒षः । ज्योक् । अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते इति॑ । ए॒व । ए॒न॒म् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒तः॒ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । प॒र्या॒रिणी᳚ । भ॒व॒ति॒ । प॒र्या॒रि । इ॒व॒ । हि । ए॒तस्य॑ । रा॒ष्ट्रम् । यः । ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वा॒य॒व्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 8 #
TS 2.1.4.8 TS 2.1.4.8
ॅव॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒मां ॅलो॒कान्. विशं॒ प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्तिभुञ्ज॒त्ये॑नं॒ ॅविडुप॑तिष्ठते ॥
पदपाठः (Word-by-word)
व॒थ्सम् । एति॑ । ल॒भे॒त॒ । वा॒युः । वै । अ॒नयोः᳚ । व॒थ्सः । इ॒मे । वै । ए॒तस्मै᳚ । लो॒काः । अप॑शुष्का॒ इत्यप॑ - शु॒ष्काः॒ । विट् । अप॑शु॒ष्केत्यप॑ - शु॒ष्का॒ । अथ॑ । ए॒षः । ज्योक् । अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ । वा॒युम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । इ॒मान् । लो॒कान् । विश᳚म् । प्रेति॑ । दा॒प॒य॒ति॒ । प्रेति॑ । अ॒स्मै॒ । इ॒मे । लो॒काः । स्नु॒व॒न्ति॒ । भु॒ञ्ज॒ती । ए॒न॒म् । विट् । उपेति॑ । ति॒ष्ठ॒ते॒ ॥
पदसंख्या: 42