अनुवाकः 7 TS 2.1.7

(A7)

(अ॒भि - खलु॒ - वृष्टिः॒ छन्द॑सामे॒व रसे॑न - प्र॒जामव॑ - वैश्वदे॒वा वै - ब्र॑ह्मवर्च॒सं - ॅयूप॒ - एका॒न्नविꣳ॑श॒तिश्च॑)

अनुवाकः 7 - Complete Audio

TS 2.1.7 - स्वरानुगामी

0:00 0:00
PS1.1 व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त्
PS1.2 तस्यै॒ रसः॒ परा॑पत॒त् तं
PS1.3 बृह॒स्पति॒ रुपा॑ऽगृह्णा॒थ्‌सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो
PS1.4 द्वि॒तीयः॑ प॒राऽप॑त॒त् तं मि॒त्रावरु॑णा॒-वुपा॑गृह्णीताꣳ॒॒
PS1.5 सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्-यस्तृ॒तीयः॑ प॒राप॑त॒त्
PS1.6 तं ॅविश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ्
PS1.7 सा ब॑हुरू॒पा व॒शा भ॑व॒द्य-श्च॑तु॒र्त्थः
PS1.8 प॒राप॑त॒थ् स पृ॑थि॒वीं प्राऽवि॑श॒त्
PS1.9 तं बृह॒स्पति॑र॒भ्य॑ - [
PS1.10 ]
PS2.1 -गृह्णा॒-दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः
PS2.2 सम॑भव॒द्-यल्लोहि॑तं प॒राप॑त॒त् तद्-रु॒द्र उपा॑ऽगृह्णा॒थ्
PS2.3 सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्-
PS2.4 बार्.हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒
PS2.5 बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS2.6 स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
PS2.7 ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा
PS2.8 ए॒ष रसो॒ यद्व॒शा रस॑
PS2.9 इव॒ खलु॒- [ ]
PS3.1 वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒
PS3.2 रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं
PS3.3 द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं
PS3.4 ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒
PS3.5 वै प॒र्जन्यो॑ वर्.षति मि॒त्रावरु॑णावे॒व
PS3.6 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑
PS3.7 अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ ॅवर्.षयतः॒ छन्द॑सां॒
PS3.8 ॅवा ए॒ष रसो॒ यद्व॒शा
PS3.9 रस॑ इव॒ खलु॒ वै
PS3.10 वृष्टिः॒ छन्द॑सामे॒व रसे॑न॒ -
PS3.11 [ ]
PS4.1 रसं॒ ॅवृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं
PS4.2 द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं
PS4.3 ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒
PS4.4 वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व
PS4.5 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑
PS4.6 अहोरा॒त्राभ्यां᳚ प्र॒जां प्रज॑नयतः॒ छन्द॑सां॒
PS4.7 ॅवा ए॒ष रसो॒ यद्व॒शा
PS4.8 रस॑ इव॒ खलु॒ वै
PS4.9 प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑
PS4.10 प्र॒जामव॑ - [ ]
PS5.1 रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो
PS5.2 वैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व
PS5.3 दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS5.4 त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द
PS5.5 ए॒व भ॑वति॒ छन्द॑सां॒ ॅवा
PS5.6 ए॒ष रसो॒ यद्व॒शा रस॑
PS5.7 इव॒ खलु॒ वा अन्नं॒
PS5.8 छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे
PS5.9 वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो
PS5.10 वैश्वदे॒वा वै - [
PS5.11 ]
PS6.1 स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑
PS6.2 भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑
PS6.3 सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व
PS6.4 भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष
PS6.5 रसो॒ यद्व॒शा रस॑ इव॒
PS6.6 खलु॒ वै स॑जा॒ताः छन्द॑सामे॒व
PS6.7 रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे
PS6.8 बार्.हस्प॒त्य- मु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒
PS6.9 बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS6.10 स ए॒वास्मि॑न् ब्रह्मवर्च॒सं -
PS6.11 [ ]
PS7.1 द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒
PS7.2 ॅवा ए॒ष च॑रति॒ यदु॒क्षावश॑
PS7.3 इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं
PS7.4 ॅवशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धेरौ॒द्रीꣳरोहि॑णी॒मा
PS7.5 ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS7.6 धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति
PS7.7 ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री
PS7.8 ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो
PS7.9 यूपो॑ ( ) भवति॒
PS7.10 वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒
PS7.11 प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः
PS7.12 शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.7.1 TS 2.1.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒त् तं बृह॒स्पति॒ रुपा॑ऽगृह्णा॒थ्‌सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राऽप॑त॒त् तं मि॒त्रावरु॑णा॒-वुपा॑गृह्णीताꣳ॒॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्-यस्तृ॒तीयः॑ प॒राप॑त॒त् तं ॅविश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ् सा ब॑हुरू॒पा व॒शा भ॑व॒द्य-श्च॑तु॒र्त्थः प॒राप॑त॒थ् स पृ॑थि॒वीं प्राऽवि॑श॒त् तं बृह॒स्पति॑र॒भ्य॑ - [ ]
पदपाठः (Word-by-word)
व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । वै । गा॒य॒त्रि॒यै । शिरः॑ । अ॒च्छि॒न॒त् । तस्यै᳚ । रसः॑ । परेति॑ । अ॒प॒त॒त् । तम् । बृह॒स्पतिः॑ । उपेति॑ । अ॒गृ॒ह्णा॒त् । सा । शि॒ति॒पृ॒ष्ठेति॑ शिति - प॒ष्ठा । व॒शा । अ॒भ॒व॒त् । यः । द्वि॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । उपेति॑ । अ॒गृ॒ह्णी॒ता॒म् । सा । द्वि॒रू॒पेति॑ द्वि - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । तृ॒तीयः॑ । प॒राप॑त॒दिति॑ परा - अप॑तत् । तम् । विश्वे᳚ । दे॒वाः । उपेति॑ । अ॒गृ॒ह्ण॒न्न् । सा । ब॒हु॒रू॒पेति॑ बहु - रू॒पा । व॒शा । अ॒भ॒व॒त् । यः । च॒तु॒र्थः । प॒राप॑त॒दिति॑ परा - अप॑तत् । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । तम् । बृह॒स्पतिः॑ । अ॒भीति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)। (ब्रह्मवर्चसकामादीनां पशुविधिः)) पृष्टकामोन्नकामो द्वाविन्द्रियार्थी सनिं तथा। अन्नं ग्रामं च वाञ्छन्तोऽज्ञातरोगाश्च ये स्थिताः।। षष्ठेऽनुवाकं पशवः क्रमेणैषामुदीरिताः।। अथ सप्तमे ब्रह्मवर्चसकामादीनां यथायोगं पश्वन्तराणि विधातुं प्रस्तौति वषट्कार इति। वौषडित्यस्य मन्त्रस्याभिमानिदेवो वषट्कारः। तस्य गायत्र्या सह विरोधो ब्राह्मणान्तरे प्रसिध्दः इति वैशब्देन सूच्यते। छिन्नान्द्रा यत्रीशिरसो जलं रक्तं च निर्गतं ताभ्यामुभाभ्यामनेकविधा वशा उत्पन्नाः। ताश्च बृहस्पत्यादीनां परिग्रहेण प्रियाः संपन्नाः।। द्वाभ्यां वर्णाभ्यामुपेता द्विरूपा। बहुभिर्वर्णैरुपेता बहुरूपा। चतुर्थपर्याये भूमौ पतितं रसं वृथा विनष्टो मा भूदिति बृहस्पतिरभ्यगृहणात्। तस्यायमभिप्रायः- अथं रसो मम भोगाय भवत्वेव। उक्षवशो व्यर्थवीर्यो वृषभः। तत्राऽद्यं पशुं विधत्ते बार्हस्पत्यमिति। ब्रह्मवर्चस्यैहिकामुष्मिकपूजाहेतुत्वेन सारत्वाद्रससादृ-श्यमित्यभिप्रेत्य तत्साधनभूतां वशां प्रशंसति। छन्दसामिति। वशाया गायत्रीछन्दोरसत्वं व्याख्यातम्। गायत्री च सोमा-हरणेन च्छन्दोन्तरात्प्रशस्ता। तस्माद्वशा सर्वेषां छन्दसां सारः। तेन च्छन्दोरसेन वशारूपेणैहिकामुष्मिकपूजाहेतुतया रसरूपं ब्रह्मवर्चसमवरुन्धे द्वितीयं पशुं विधत्ते मैत्रावरुणीमिति। मित्रस्य सूर्यत्वादह्रस्तदयित्वम्। अन्धकारेणाऽऽवरण हेतुत्वाद्रात्रेर्वारुणत्वम् ष्टेर्द्रवत्वादोषन्याध्युत्पादकत्वेन सारत्वाच्च रसोपमानम्। तमेव द्वितीयं पशुं फलान्तराय विधत्ते—मैत्रावरुणीमिति। अहोरात्रपरित्यागेन यथा वृष्टिर्न संभवति तथा प्रजोत्पत्तिरपि न संभवति। ततस्तयोर्वृष्टिसाधनत्ववत्पजोत्पत्तिसाधनत्वमपि द्रष्टव्यम्। तृतीयं पशुं विधत्ते वैश्वदेवीमिति। अन्नस्य सर्वदेवभोज्यत्वाद्वैश्वदेवत्वं, जीवनहेतुत्वेन सार स्वाद्रससाम्यम्। तमेव पशुं फलान्तराय विधसे वैश्वदेवीमिति। सजातानां भ्रात्रादीनां भृत्यादीनां च बहुत्वेन देवतासाम्येव वैश्वदेवत्वं स्धाम्युपकारित्वेन च रससादृश्यम्। चतुर्थं पशुं विधत्ते बार्हस्पत्यमिति। वशत्वविशेषणं प्रशंसति बशं वा इति। उक्षेति यदेष वशं चरति धेनुभिः सहैवारण्ये गत्वा पुनस्तासामेव पृष्ठतो गृहेष्बागच्छतीति तस्य गोवशवाचित्वम्। ब्रह्मवर्चसमपीन्द्रियनियमनोपेतत्वाद्वश इव स्वाधीनपदार्थं इव भवति। पञ्चमं पशुं विधत्ते रौद्रीमिति। रुद्राध्याये नीलग्रीवो विलोहित इति रुद्रस्य विशेषेण लोहितत्वं भूयते रोहिणी द्रदेवताका। पूर्ववच्चोदकप्राप्तमपवदितुं विधत्ते स्फ्यो यूप इति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।"""

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वषट्कार इत्यादि ॥ रसः शरीरस्थं जलम् । शितिपृष्ठादिवशान्तानामुत्पत्तिरुच्यते । शितिपृष्ठा । उक्तमुत्तरपदप्रकृतिस्वरत्वम् । यो द्वितीयः परापतदिति । 'यद्वृत्तान्नित्यम्' इति निघाते प्रतिषिद्धे, 'उदात्तवता तिङा' इति समासः । द्विरूपा शुक्लकृष्णा वे[ष्णैवे]ति केचित् । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । बहुरूपा । 'बहोर्नञ्वत्' इत्युत्तरपदान्तोदात्तत्वम् । अभ्यगृह्णादिति । निर्गमनकाल एव ग्रहणमुपग्रहणम् । निर्गत्य भूमौ प्रविष्टस्य उपरिग्रहणमभिग्रहणम् । अस्त्वेवेति । अयं मम भोगायैवास्तु वृधा भूमौ सङ्क्रान्तो मा भूदिति । उक्षवश इति । उक्षा चासौ वशश्चेत्युक्षवशः । यथेष्टचारी वशः । मोघरेता इत्यन्ये । प्रजननाशक्त इत्यन्ये । या गर्भं ध्वंसयन्ती स्वैरं चरति सा वशा । रोहिणी लोहितवर्णा । 'वर्णादनुदात्तात्' इति ङीप् ॥
2 अथ शितिपृष्ठादीनां विधानं - बार्हस्पत्यामिति ॥ गायत्र्यास्सर्वछन्दोयोनित्वात् छन्दसामित्युक्तम् । रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् । वश इवेति । वश इन्द्रियसंयमः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
3 रौद्रीमित्यादि ॥ गतम् ॥
4 स्फ्य इत्यादि ॥ व्याख्यातम् ॥
इति द्वितीये प्रथमे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.1.7.2 TS 2.1.7.2
-गृह्णा॒-दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः सम॑भव॒द्-यल्लोहि॑तं प॒राप॑त॒त् तद्-रु॒द्र उपा॑ऽगृह्णा॒थ् सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्- बार्.हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒- [ ]
पदपाठः (Word-by-word)
अ॒गृ॒ह्णा॒त् । अस्तु॑ । ए॒व । अ॒यम् । भोगा॑य । इति॑ । सः । उ॒क्ष॒व॒श इत्यु॑क्ष - व॒शः । समिति॑ । अ॒भ॒व॒त् । यत् । लोहि॑तम् । प॒राप॑त॒दिति॑ परा - अप॑तत् । तत् । रु॒द्रः । उपेति॑ । अ॒गृ॒ह्णा॒त् । सा । रौ॒द्री । रोहि॑णी । व॒शा । अ॒भ॒व॒त् । बा॒र्.॒ह॒स्प॒त्याम् । शि॒ति॒पृ॒ष्ठामिति॑ शिति - पृ॒ष्ठाम् । एति॑ । ल॒भे॒त॒ । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.7.3 TS 2.1.7.3
वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्.षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ ॅवर्.षयतः॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टिः॒ छन्द॑सामे॒व रसे॑न॒ - [ ]
पदपाठः (Word-by-word)
वै । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् । द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् । एति॑ । ल॒भे॒त॒ । वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ । मै॒त्रम् । वै । अहः॑ । वा॒रु॒णी । रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प॒र्जन्यः॑ । व॒र्.॒ष॒ति॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । प॒र्जन्य᳚म् । व॒र्.॒ष॒य॒तः॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । वृष्टिः॑ । छन्द॑साम् । ए॒व । रसे॑न ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.7.4 TS 2.1.7.4
रसं॒ ॅवृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं ॅवा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प्र॒जां प्रज॑नयतः॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ - [ ]
पदपाठः (Word-by-word)
रस᳚म् । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् । द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । मै॒त्रम् । वै । अहः॑ । वा॒रु॒णी । रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । खलु॑ । वै । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । जा॒य॒न्ते॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । प्र॒जामिति॑ प्र -जाम् । प्रेति॑ । ज॒न॒य॒तः॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । प्र॒जेति॑ प्र-जा । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । प्र॒जामिति॑ प्र -जाम् । अवेति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.7.5 TS 2.1.7.5
रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु - रू॒पाम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । अन्न᳚म् । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् । ब॒हु॒रू॒पामिति॑ बहु-रू॒पाम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.1.7.6 TS 2.1.7.6
स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ ॅवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताः छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे बार्.हस्प॒त्य- मु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं - [ ]
पदपाठः (Word-by-word)
स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रसः॑ । यत् । व॒शा । रसः॑ । इ॒व॒ । खलु॑ । वै । स॒जा॒ता इति॑ स - जा॒ताः । छन्द॑साम् । ए॒व । रसे॑न । रस᳚म् । स॒जा॒तानिति॑ स - जा॒तान् । अवेति॑ । रु॒न्धे॒ । बा॒र्.॒ह॒स्प॒त्यम् । उ॒क्ष॒व॒शमित्यु॑क्ष - व॒शम् । एति॑ । ल॒भे॒त॒ । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.1.7.7 TS 2.1.7.7
द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ ॅवा ए॒ष च॑रति॒ यदु॒क्षावश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं ॅवशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धेरौ॒द्रीꣳरोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ ( ) भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं᳚ ॥
पदपाठः (Word-by-word)
द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । वश᳚म् । वै । ए॒षः । च॒र॒ति॒ । यत् । उ॒क्षा । वशः॑ । इ॒व॒ । खलु॑ । वै । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । वशे॑न । ए॒व । वश᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । रौ॒द्रीम् । रोहि॑णीम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि-चरन्॑ । रु॒द्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । रोहि॑णी । भ॒व॒ति॒ । रौ॒द्री । हि । ए॒षा । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ ( ) । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥
पदसंख्या: 69