पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)। (ब्रह्मवर्चसकामादीनां पशुविधिः)) पृष्टकामोन्नकामो द्वाविन्द्रियार्थी सनिं तथा। अन्नं ग्रामं च वाञ्छन्तोऽज्ञातरोगाश्च ये स्थिताः।। षष्ठेऽनुवाकं पशवः क्रमेणैषामुदीरिताः।। अथ सप्तमे ब्रह्मवर्चसकामादीनां यथायोगं पश्वन्तराणि विधातुं प्रस्तौति वषट्कार इति। वौषडित्यस्य मन्त्रस्याभिमानिदेवो वषट्कारः। तस्य गायत्र्या सह विरोधो ब्राह्मणान्तरे प्रसिध्दः इति वैशब्देन सूच्यते। छिन्नान्द्रा यत्रीशिरसो जलं रक्तं च निर्गतं ताभ्यामुभाभ्यामनेकविधा वशा उत्पन्नाः। ताश्च बृहस्पत्यादीनां परिग्रहेण प्रियाः संपन्नाः।। द्वाभ्यां वर्णाभ्यामुपेता द्विरूपा। बहुभिर्वर्णैरुपेता बहुरूपा। चतुर्थपर्याये भूमौ पतितं रसं वृथा विनष्टो मा भूदिति बृहस्पतिरभ्यगृहणात्। तस्यायमभिप्रायः- अथं रसो मम भोगाय भवत्वेव। उक्षवशो व्यर्थवीर्यो वृषभः। तत्राऽद्यं पशुं विधत्ते बार्हस्पत्यमिति। ब्रह्मवर्चस्यैहिकामुष्मिकपूजाहेतुत्वेन सारत्वाद्रससादृ-श्यमित्यभिप्रेत्य तत्साधनभूतां वशां प्रशंसति। छन्दसामिति। वशाया गायत्रीछन्दोरसत्वं व्याख्यातम्। गायत्री च सोमा-हरणेन च्छन्दोन्तरात्प्रशस्ता। तस्माद्वशा सर्वेषां छन्दसां सारः। तेन च्छन्दोरसेन वशारूपेणैहिकामुष्मिकपूजाहेतुतया रसरूपं ब्रह्मवर्चसमवरुन्धे द्वितीयं पशुं विधत्ते मैत्रावरुणीमिति। मित्रस्य सूर्यत्वादह्रस्तदयित्वम्। अन्धकारेणाऽऽवरण हेतुत्वाद्रात्रेर्वारुणत्वम् ष्टेर्द्रवत्वादोषन्याध्युत्पादकत्वेन सारत्वाच्च रसोपमानम्। तमेव द्वितीयं पशुं फलान्तराय विधत्ते—मैत्रावरुणीमिति। अहोरात्रपरित्यागेन यथा वृष्टिर्न संभवति तथा प्रजोत्पत्तिरपि न संभवति। ततस्तयोर्वृष्टिसाधनत्ववत्पजोत्पत्तिसाधनत्वमपि द्रष्टव्यम्। तृतीयं पशुं विधत्ते वैश्वदेवीमिति। अन्नस्य सर्वदेवभोज्यत्वाद्वैश्वदेवत्वं, जीवनहेतुत्वेन सार स्वाद्रससाम्यम्। तमेव पशुं फलान्तराय विधसे वैश्वदेवीमिति। सजातानां भ्रात्रादीनां भृत्यादीनां च बहुत्वेन देवतासाम्येव वैश्वदेवत्वं स्धाम्युपकारित्वेन च रससादृश्यम्। चतुर्थं पशुं विधत्ते बार्हस्पत्यमिति। वशत्वविशेषणं प्रशंसति बशं वा इति। उक्षेति यदेष वशं चरति धेनुभिः सहैवारण्ये गत्वा पुनस्तासामेव पृष्ठतो गृहेष्बागच्छतीति तस्य गोवशवाचित्वम्। ब्रह्मवर्चसमपीन्द्रियनियमनोपेतत्वाद्वश इव स्वाधीनपदार्थं इव भवति। पञ्चमं पशुं विधत्ते रौद्रीमिति। रुद्राध्याये नीलग्रीवो विलोहित इति रुद्रस्य विशेषेण लोहितत्वं भूयते रोहिणी द्रदेवताका। पूर्ववच्चोदकप्राप्तमपवदितुं विधत्ते स्फ्यो यूप इति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।"""