पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः।।)जलोदरगृहीतो यो ये वाञ्छन्ति पशुप्रथाम्। ब्रह्मवर्चसकामो यो यो विद्वान्वक्तुमक्षमः।। दीर्घरोगी प्रजाकामः सभारञ्जनवर्जितः। पौरोहित्ये स्पर्धमानश्चैतेषां पशवः श्रुताः।। तानेता न्पशून्द्वितीयानुवाके विधाय तृतीयानुवाके जयादिहेतून्पशून्विधित्स-न्नादौ लोकत्रयजयहेतुं पशुं विधातुं प्रस्तौति देवासुरा इति। लोकेषु विषयभूतेषु वामनं ऱ्हस्वं पशुं स्वायै विष्णुरूपायै देवतायै। अथ विधत्ते वैष्णवमिति। स्पर्धमानो गृहक्षेत्रादिविषये विवादवान्। विष्णुप्रियहाविदा-नादस्योपचरितं विष्णुत्वम्। चोदकपरम्पराप्राप्तं समदेशमपवदितुं विधत्ते विषम इति। पृथिव्यादिलोकानामुत्तरोत्तरं विस्तृतत्वादभोगाधिक्याद्वा विष-मत्वम्। सोऽयं विषमदेशः समृद्ध्यै कल्पते। संग्रामार्थिनः पशुं विधत्ते इन्द्रायेति। मनस्वते धैर्यवते। ललामशब्दः श्वेपुण्ड्रवालाङ्कितललाटोपेत ब्रूते। प्राशृङ्गो मुखं प्रत्यासन्नशृङ्गः पुंगवः। प्राशृङ्गो गौरिति भरद्वाजवचनात्। प्राशृङ्गोऽवाकशृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्या इत्यापस्तम्बवचनात्। संयत्ते प्राप्ते सति। इन्द्रियं शारीरं बलम्। मन्युः शत्रुविषयः कोपः। मनो धैर्यम्। ग्रामार्थिनः पशुं विधत्ते इन्द्रायेति। मरुद्भिर्युक्तो मरुत्वान् पृश्निसक्यः श्वेतोरुः। सजातान्सहोत्प-न्नान्भ्रात्रादीन्सहवासिनो भूत्यादींश्च। पुंगवत्वं सक्थिश्वैत्यं च प्रशंसति यदृपभ इति। सेक्तृत्वसामान्येनेन्द्रसंबन्धित्वम् , वायव्यं श्वेतमित्युक्तत्वात्पृ-श्निवर्णस्य मारुतत्वं, तदुभयं समृद्ध्यै भवति। पुरोवर्तिनोरूर्वो पृश्निसक्थित्वं वारयितुं विधत्ते पश्चादिति। यजमानो ग्रामस्वामी प्रथमं यत्कार्य यथाऽध्यवस्यति तद्ग्राम-निवासिनी प्रजा पश्चाद्यजमानानुसारेणैव तत्कार्यमध्यवस्यति, न तु प्रातिकूल्यं चिन्तयतीति पश्चादन्ववसायिनी। अन्नार्थिनः पशुं विधत्ते सौम्यमिति। सोमो वा ओषधीना राजेति श्रुतत्वादन्नस्य सौम्यत्वम् अन्नादो व्याधिरहित्येन दीप्ताग्निः। पशुवर्ण प्रशंसति बभ्रुरिति। विदालितचणकाद्यन्नस्य प्रियंग्वादेर्वा रूपं पिङ्गलम्। राज्यप्रा-प्तिकामिनः पशुं विधत्ते सौम्यमिति। राज्ञो ज्येष्ठपुत्रत्वाच्छौर्यादिगुणसंपन्नत्वाद्राज्यायालं सन्तं सम्यग्योग्यं सन्तं यं पुरुषं प्रति राज्यं न प्राप्नुयात्तस्यायं पशुः सोमोऽस्माकं ब्राह्मणाना राजेति श्रुतत्वाद्राज्यं सौम्यम्। चन्द्रमण्डलस्य सुवर्णवर्णत्वाद्ब्रभ्रुत्वं सोमस्य रूपम् शत्रुबाधेन भ्रष्टश्रियः प्रतिष्ठार्थं पशुं विधत्ते इन्द्रायेति। वृत्रतूर्वैरिहिंसकः। पाप्मानमेव नरकपदपापवद्बाधकमेव वृत्रं वैरणम्। पापक्षयार्थिनः पशुं विधत्ते इन्द्रायेति। पाप्मना गोवधाद्युपपातकादिना। राज्यार्थिनः पश्वन्तरं विधत्ते इन्द्रायेति। वज्रं वज्रवत्प्रहरणसमर्थमायुधम्। स चाऽऽयुधविशेषो वज्रसपो भूत्वा इन्धे यजमानं वैरिसंतापाय प्रदीप्तं करोति। नतस्य शृङ्गस्य तीक्ष्णाग्र-त्वातीत्तीक्ष्णधारायुक्तवज्ररूपत्वम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके"
तृतीयोऽनुवाकः।। ३ ।।