अनुवाकः 3 TS 2.1.3

(A3)

(स॒ग्रां॒मे - तेना - ल॑ - मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमै - नं॒ - पञ्च॑दश च )

अनुवाकः 3 - Complete Audio

TS 2.1.3 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स
PS1.2 ए॒तं ॅविष्णु॑-र्वाम॒नम॑पश्य॒त् तꣳ स्वायै॑
PS1.3 दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै
PS1.4 स इ॒मां ॅलो॒कान॒भ्य॑जयद्- वैष्ण॒वं
PS1.5 ॅवा॑म॒नमा ल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व
PS1.6 भू॒त्वेमान् ॅलो॒कान॒भि ज॑यति॒ विष॑म॒
PS1.7 आ ल॑भेत॒ विष॑मा इव॒
PS1.8 हीमे लो॒काः समृ॑द्ध्या॒ इन्द्रा॑य
PS1.9 मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा
PS1.10 ल॑भेत संग्रा॒मे - [
PS1.11 ]
PS2.1 संॅय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒
PS2.2 मन॑सा संग्रा॒मं ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒
PS2.3 मन॑स्वन्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS2.4 स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑
PS2.5 दधाति॒ जय॑ति॒ तꣳ स॑ग्रां॒ममिन्द्रा॑य
PS2.6 म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒
PS2.7 इन्द्र॑मे॒व म॒रुत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑
PS2.8 धावति॒ स ए॒वास्मै॑ स
PS2.9 जा॒तान् प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒
PS2.10 यदृ॑ष॒भस्तेनै॒ - [ ]
PS3.1 -न्द्रो यत् पृश्नि॒स्तेन॑ मारु॒तः
PS3.2 समृ॑द्ध्यै प॒श्चात् पृ॑श्निस॒क्थो भ॑वति
PS3.3 पश्चादन्व-वसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं
PS3.4 ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं ॅवा
PS3.5 अन्नꣳ॒॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS3.6 धावति॒ स ए॒वास्मा॒ अन्नं॒
PS3.7 प्रय॑॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा
PS3.8 अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यं
PS3.9 ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑ -
PS3.10 [ ]
PS4.1 रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ्
PS4.2 सौ॒म्यं ॅवै रा॒ज्य सोम॑मे॒व
PS4.3 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
PS4.4 ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं
PS4.5 न॑मति ब॒भ्रुर्भ॑वत्ये॒तद् वै सोम॑स्य
PS4.6 रू॒पꣳ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑
PS4.7 ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚
PS4.8 प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा
PS4.9 प्र॑ति॒ष्ठां ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा
PS4.10 - [ ]
PS5.1 ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः
PS5.2 स्यात् पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा-
PS5.3 भि॑माति॒हनꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS5.4 स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒
PS5.5 इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा
PS5.6 ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑
PS5.7 रा॒ज्यं नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणꣳ॒॒ स्वेन॑
PS5.8 भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒
PS5.9 वज्रं॒ प्र य॑च्छति॒ स
PS5.10 ए॑नं॒ ( ) ॅवज्रो॒
PS5.11 भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं
PS5.12 न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै
PS5.13 वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.3.1 TS 2.1.3.1
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तं ॅविष्णु॑-र्वाम॒नम॑पश्य॒त् तꣳ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒मां ॅलो॒कान॒भ्य॑जयद्- वैष्ण॒वं ॅवा॑म॒नमा ल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमान् ॅलो॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । ए॒षु । लो॒केषु॑ । अ॒स्प॒र्द्ध॒न्त॒ । सः । ए॒तम् । विष्णुः॑ । वा॒म॒नम् । अ॒प॒श्य॒त् । तम् । स्वायै᳚ । दे॒वता॑यै । एति॑ । अ॒ल॒भ॒त॒ । ततः॑ । वै । सः । इ॒मान् । लो॒कान् । अ॒भीति॑ । अ॒ज॒य॒त् । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । स्पर्द्ध॑मानः । विष्णुः॑ । ए॒व । भू॒त्वा । इ॒मान् । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ । विष॑म॒ इति॒ वि - स॒मे॒ । एति॑ । ल॒भे॒त॒ । विष॑मा॒ इति॒ वि - स॒माः॒ । इ॒व॒ । हि । इ॒मे । लो॒काः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । इन्द्रा॑य । म॒न्यु॒मत॒ इति॑ मन्यु - मते᳚ । मन॑स्वते । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः।।)जलोदरगृहीतो यो ये वाञ्छन्ति पशुप्रथाम्। ब्रह्मवर्चसकामो यो यो विद्वान्वक्तुमक्षमः।। दीर्घरोगी प्रजाकामः सभारञ्जनवर्जितः। पौरोहित्ये स्पर्धमानश्चैतेषां पशवः श्रुताः।। तानेता न्पशून्द्वितीयानुवाके विधाय तृतीयानुवाके जयादिहेतून्पशून्विधित्स-न्नादौ लोकत्रयजयहेतुं पशुं विधातुं प्रस्तौति देवासुरा इति। लोकेषु विषयभूतेषु वामनं ऱ्हस्वं पशुं स्वायै विष्णुरूपायै देवतायै। अथ विधत्ते वैष्णवमिति। स्पर्धमानो गृहक्षेत्रादिविषये विवादवान्। विष्णुप्रियहाविदा-नादस्योपचरितं विष्णुत्वम्। चोदकपरम्पराप्राप्तं समदेशमपवदितुं विधत्ते विषम इति। पृथिव्यादिलोकानामुत्तरोत्तरं विस्तृतत्वादभोगाधिक्याद्वा विष-मत्वम्। सोऽयं विषमदेशः समृद्ध्यै कल्पते। संग्रामार्थिनः पशुं विधत्ते इन्द्रायेति। मनस्वते धैर्यवते। ललामशब्दः श्वेपुण्ड्रवालाङ्कितललाटोपेत ब्रूते। प्राशृङ्गो मुखं प्रत्यासन्नशृङ्गः पुंगवः। प्राशृङ्गो गौरिति भरद्वाजवचनात्। प्राशृङ्गोऽवाकशृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्या इत्यापस्तम्बवचनात्। संयत्ते प्राप्ते सति। इन्द्रियं शारीरं बलम्। मन्युः शत्रुविषयः कोपः। मनो धैर्यम्। ग्रामार्थिनः पशुं विधत्ते इन्द्रायेति। मरुद्भिर्युक्तो मरुत्वान् पृश्निसक्यः श्वेतोरुः। सजातान्सहोत्प-न्नान्भ्रात्रादीन्सहवासिनो भूत्यादींश्च। पुंगवत्वं सक्थिश्वैत्यं च प्रशंसति यदृपभ इति। सेक्तृत्वसामान्येनेन्द्रसंबन्धित्वम् , वायव्यं श्वेतमित्युक्तत्वात्पृ-श्निवर्णस्य मारुतत्वं, तदुभयं समृद्ध्यै भवति। पुरोवर्तिनोरूर्वो पृश्निसक्थित्वं वारयितुं विधत्ते पश्चादिति। यजमानो ग्रामस्वामी प्रथमं यत्कार्य यथाऽध्यवस्यति तद्ग्राम-निवासिनी प्रजा पश्चाद्यजमानानुसारेणैव तत्कार्यमध्यवस्यति, न तु प्रातिकूल्यं चिन्तयतीति पश्चादन्ववसायिनी। अन्नार्थिनः पशुं विधत्ते सौम्यमिति। सोमो वा ओषधीना राजेति श्रुतत्वादन्नस्य सौम्यत्वम् अन्नादो व्याधिरहित्येन दीप्ताग्निः। पशुवर्ण प्रशंसति बभ्रुरिति। विदालितचणकाद्यन्नस्य प्रियंग्वादेर्वा रूपं पिङ्गलम्। राज्यप्रा-प्तिकामिनः पशुं विधत्ते सौम्यमिति। राज्ञो ज्येष्ठपुत्रत्वाच्छौर्यादिगुणसंपन्नत्वाद्राज्यायालं सन्तं सम्यग्योग्यं सन्तं यं पुरुषं प्रति राज्यं न प्राप्नुयात्तस्यायं पशुः सोमोऽस्माकं ब्राह्मणाना राजेति श्रुतत्वाद्राज्यं सौम्यम्। चन्द्रमण्डलस्य सुवर्णवर्णत्वाद्ब्रभ्रुत्वं सोमस्य रूपम् शत्रुबाधेन भ्रष्टश्रियः प्रतिष्ठार्थं पशुं विधत्ते इन्द्रायेति। वृत्रतूर्वैरिहिंसकः। पाप्मानमेव नरकपदपापवद्बाधकमेव वृत्रं वैरणम्। पापक्षयार्थिनः पशुं विधत्ते इन्द्रायेति। पाप्मना गोवधाद्युपपातकादिना। राज्यार्थिनः पश्वन्तरं विधत्ते इन्द्रायेति। वज्रं वज्रवत्प्रहरणसमर्थमायुधम्। स चाऽऽयुधविशेषो वज्रसपो भूत्वा इन्धे यजमानं वैरिसंतापाय प्रदीप्तं करोति। नतस्य शृङ्गस्य तीक्ष्णाग्र-त्वातीत्तीक्ष्णधारायुक्तवज्ररूपत्वम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमपाठके"

तृतीयोऽनुवाकः।। ३ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवासुरा इत्यादि ॥ स्पर्धा लोकविषयं परस्परमैश्वर्यासहनम् । वामनो ह्रस्वाङ्गः । स्वायै देवतायै आत्मानमेव देवतां कृत्वा । तस्यै वामनमालभत । ततो वा इत्यादि । गतम् । स्पर्धमान इति स्पर्धाविषयसिद्ध्यै । विषम इति । निम्नोन्नतस्थले देवयजनभूते । विषमा इवेति । भोक्तृभोग्यादिवैलक्षण्याद्वैषम्यं लोकानाम् ॥
2 इन्द्रायेत्यादि ॥ ललामः श्वेतपुण्ड्रलाच्छितललाटः । मत्त्वर्थीयो लुप्यते । प्राशृङ्गो लम्बितशृङ्गः, पिङ्गल- प्राशृङ्गो गौः' इति भरद्वाजवचनात् । इन्द्रियेणेत्यादि । इन्द्रियं वीर्यम् । इन्द्रियादित्रयं सङ्ग्रामजयश्रीहेतुः ॥
3 मरुत्त्वत इति ॥ 'तसौ मत्त्वर्थे' इति भत्वम् । पृश्निसक्थः श्वेतजानुः, श्वेतोरुरित्येके श्वेतकटिप्रदेश इति । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् । यदृषभ इत्यादि । ऋषभस्य सेक्तृत्वादैन्द्रत्वम् । श्वेतस्य वायव्यत्वात्पृश्ने- र्मारुतत्वम् । समृद्ध्या इति । सदृशस्सम्बन्धस्समृद्धिः । पश्चादिति । सक्थः पश्चाद्भागे पृश्नित्वं यस्य स तथोक्तः । पश्चादन्ववसायिनीं पश्चादनुसृत्यावस्थानशीलां विशं प्रजां करोति ॥
4 सौम्यमित्यादि ॥ बभ्रुः कपिलश्यामः । सौम्यमन्नं, तस्योदयशीलत्वाद्बभ्रुरिति ॥
5 राज्यं प्राप्तुं योग्यमपि राज्यं राजन्यं वा यन्नोपनमेत् नोपगच्छेत् । राज्ञः कर्म राज्यम् । पुरोहितादित्वात् यत् ॥
6 वृत्रतुर इति ॥ वृत्रस्य वा पापादेर्वा हिंसिता वृत्रतूः । तुर्वी हिंसायाम्, क्विप् । ललामं प्राशृङ्गमिति व्याख्यातम् । गतश्रीः । केचिदाहुः - शुश्रुवान् ग्रामणी राजन्यो वेति । पाप्मानमिति । येन प्रतिष्ठा निरुद्ध्यते । वृत्रं वारकम् ॥
7 अभिमातिघ्न इति ॥ अभिमातिः पाप्मा तस्य हन्त्रे । क्विप् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गतमन्यत् ॥
8 इन्धे इति ॥ राज्यप्राप्तियोग्यां दीप्तिं करोतीति । ञि इन्धी दीप्तौ, श्नान्नलोपः ॥
इति द्वितीये प्रथमे तृतीयोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.1.3.2 TS 2.1.3.2
संॅय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ स॑ग्रां॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्तꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स जा॒तान् प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनै॒ - [ ]
पदपाठः (Word-by-word)
संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । इ॒न्द्रि॒येण॑ । वै । म॒न्युना᳚ । मन॑सा । स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । ज॒य॒ति॒ । इन्द्र᳚म् । ए॒व । म॒न्यु॒मन्त॒मिति॑ मन्यु - मन्त᳚म् । मन॑स्वन्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । म॒न्युम् । मनः॑ । द॒धा॒ति॒ । जय॑ति । तम् । स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् । इन्द्रा॑य । म॒रुत्व॑ते । पृ॒श्नि॒स॒क्थमिति॑ पृश्नि - स॒क्थम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । इन्द्र᳚म् । ए॒व । म॒रुत्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स - जा॒तान् । प्रेति॑ । य॒च्छ॒ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । यत् । ऋ॒ष॒भः । तेन॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.3.3 TS 2.1.3.3
-न्द्रो यत् पृश्नि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात् पृ॑श्निस॒क्थो भ॑वति पश्चादन्व-वसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं ॅवा अन्नꣳ॒॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑ - [ ]
पदपाठः (Word-by-word)
ऐ॒न्द्रः । यत् । पृश्निः॑ । तेन॑ । मा॒रु॒तः । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । प॒श्चात् । पृ॒श्नि॒स॒क्थ इति॑ पृश्नि - स॒क्थः । भ॒व॒ति॒ । प॒श्चा॒द॒न्व॒व॒सा॒यिनी॒मिति॑ पश्चात् - अ॒न्व॒व॒सा॒यिनी᳚म् । ए॒व । अ॒स्मै॒ । विश᳚म् । क॒रो॒ति॒ । सौ॒म्यम् । ब॒भ्रुम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । सौ॒म्यम् । वै । अन्न᳚म् । सोम᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सौ॒म्यम् । ब॒भ्रुम् । एति॑ । ल॒भे॒त॒ । यम् । अल᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.3.4 TS 2.1.3.4
रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ् सौ॒म्यं ॅवै रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद् वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा - [ ]
पदपाठः (Word-by-word)
रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । सौ॒म्यम् । वै । रा॒ज्यम् । सोम᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । रा॒ज्यम् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । सोम॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । इन्द्रा॑य । वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ । प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । पा॒प्मान᳚म् । ए॒व । वृ॒त्रम् । ती॒र्त्वा । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒च्छ॒ति॒ । इन्द्रा॑य । अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.3.5 TS 2.1.3.5
ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात् पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा- भि॑माति॒हनꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणꣳ॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्रं॒ प्र य॑च्छति॒ स ए॑नं॒ ( ) ॅवज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥
पदपाठः (Word-by-word)
ल॒भे॒त॒ । यः । पा॒प्मना᳚ । गृ॒ही॒तः । स्यात् । पा॒प्मा । वै । अ॒भिमा॑ति॒रित्य॒भि - मा॒तिः॒ । इन्द्र᳚म् । ए॒व । अ॒भि॒मा॒ति॒हन॒मित्य॑भिमाति - हन᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मा॒त् । पा॒प्मान᳚म् । अ॒भिमा॑ति॒मित्य॒भि - मा॒ति॒म् । प्रेति॑ । नु॒द॒ते॒ । इन्द्रा॑य । व॒ज्रिणे᳚ । ल॒लाम᳚म् । प्रा॒शृ॒ङ्गम् । एति॑ । ल॒भे॒त॒ । यम् । अल᳚म् । रा॒ज्याय॑ । सन्त᳚म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । इन्द्र᳚म् । ए॒व । व॒ज्रिण᳚म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । वज्र᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । सः । ए॒न॒म् ( ) । वज्रः॑ । भूत्यै᳚ । इ॒न्धे॒ । उपेति॑ । ए॒न॒म् । रा॒ज्यम् । न॒म॒ति॒ । ल॒लामः॑ । प्रा॒शृ॒ङ्गः । भ॒व॒ति॒ । ए॒तत् । वै । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥
पदसंख्या: 65