पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे प्रथममपाठके नवमोऽनुवाकः) (अन्नाद्यकामादिनां पशुंविधिः))ब्रह्मतेजोभिचारं च यज्ञप्राप्तिं तथा पशून्। समयं च तथा वृष्टी वाञ्छतां पशवः श्रुताः।। तान्पशूनष्टमेनुवाके विधायार्थे नवमेन्नद्यकामादीनां पशून्विधित्सुरादौ कं चित्पशुं विधातुं प्रस्तौति वरुणमिति। सुषुवाणं। सोमभिषवं कृतवन्तम्। विधत्ते यमलमिति। धनिकः पुमानत्तुं योग्याय शाल्यन्नपायसादिभोज्याय समर्थो पि संविधातृमनुष्याभावादिना तन्न प्राप्नुयात्तस्यायं पशुः। वरुणः पर्जन्य मुखेन प्रकाशमावृत्य कार्ष्ण्य संपादयति। ततोस्य पशुवर्णस्य वरुणदेवत्यत्वम्। द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति—संधिशब्द कालपरत्वेन देशपरत्वेन च द्वेधा सूत्रकारो व्याख्यातवान्—“अपां चौषधीनां च संधाविति प्रावृषि शरत्प्रतिपत्तौ वापि वापा चौषधीनां च संधौ ” इति। ऋत्वोर्मध्ये नदीक्षेत्रयोर्मध्य इति तस्यार्थः। ओषधीनामुपकारकत्वेन मित्रसंबन्धित्वम्। संधौ प्रयोग उभयरसोपजीवनेन प्रशस्तः। एतदेवाभिप्रेत्य संधिं प्रशंसति अपां चौषधीनामिति। यूपस्य शाखाद्वयं विधत्ते विशाख इति। विविधे शाखे यस्यायौ विशाखः। तदिदं सूत्रकारो दर्शयति“विशाखोयूप इति यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपर्युमे शाखे अष्टाश्री सचषाले स्याताम् ” इति। दीर्घरोगिणो द्विपशुकं कर्म विधत्ते मैत्र श्वेतमिति। मित्रो हि कूरं वरुणं शान्तं करोति। स च वरुणपाशान्मोचयति। तयोः पृथगुपक्रमः। पुष्टिकामस्य पशुं विधातुं प्रस्तौति देवा वा इति। प्रजापशुसमृद्धिः पुष्टिः। सा च मनुष्यमिथुने पशुमिथुने च संभवतीत्येवं देवा उपायमपश्यन्। दृष्ट्वा च तस्यां पुष्टौ सभ्यग्राधयितुं शक्ता नाभूवन्। तदानीमश्विनावूचतुः—आवयोरेवेषा पुष्टीः संबन्धिनी। तस्मादेतस्यां पुष्टावावाभ्यां विना मा वदध्यं संभाषणमेव मा कुरुतेति। तस्मात्सा पुष्टीरश्विनोरधीनाभवत्। विधत्ते यः पुष्टिकाम इति। एकस्मिन्गर्भे सह जातौ यसौ। तयोर्मध्ये या स्त्री सा यंसी।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठकेनवमोऽनुवाकः ।।९।।