अनुवाकः 5 TS 2.1.5

(A5)

(भ॒व॒त्यु॒न्न॒तः - प॒शवो॑ - जनयन्ति वि॒न्दते॑ - ऽभव॒थ् - सन्नै - तस्ये॒ - ध्म - स्त्रीणि॑ च)

अनुवाकः 5 - Complete Audio

TS 2.1.5 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ् स
PS1.2 य उ॑त्त॒मः प॒शुरासी॒त् तं
PS1.3 पृ॒ष्ठं प्रति॑ स॒गृंह्योद॑क्खिद॒त् तꣳ
PS1.4 स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ् स उ॑न्न॒तो॑ऽभव॒द्यः
PS1.5 प॒शुका॑मः॒ स्याथ् स ए॒तमै॒न्द्रमु॑न्न॒तमा
PS1.6 ल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS1.7 स ए॒वास्मै॑ प॒शून् प्रय॑च्छति
PS1.8 पशु॒माने॒व भ॑वत्युन्न॒तो - [
PS1.9 ]
PS2.1 भ॑वति साह॒स्री वा ए॒षा
PS2.2 ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒ व
PS2.3 प॒शूनव॑ रुन्धे य॒दा स॒हस्रं॑
PS2.4 प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं ॅवा॑म॒नमा
PS2.5 ल॑भेतै॒तस्मि॒न्. वै तथ् स॒हस्र॒मद्ध्य॑तिष्ठ॒त्
PS2.6 तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑
PS2.7 ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒
PS2.8 को॑ऽर्.हति स॒हस्रं॑ प॒शून् प्राप्तु॒मित्या॑हु-
PS2.9 रहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ स॒म्पाद्याऽऽ*ल॑भेत प॒शवो॒
PS2.10 - [ ]
PS3.1 वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्
PS3.2 प्रति॒ष्ठां ग॑मय॒-त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत
PS3.3 प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं
PS3.4 प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒
PS3.5 सन् प्र॒जां न वि॒न्दत॒
PS3.6 ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒
PS3.7 सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्-भव॒त्योष॑धीरे॒व
PS3.8 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता
PS3.9 ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र
PS3.10 ज॑नयन्ति वि॒न्दते᳚ - [
PS3.11 ]
PS4.1 प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त् पुरु॑ष॒
PS4.2 आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒
PS4.3 तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒
PS4.4 सद्द॑द॒ती-त्यै॒न्द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒
PS4.5 वा ए॒ष योऽलं॒ भूत्यै॒
PS4.6 सन् भूतिं॒ न प्रा॒प्नोतीन्द्रं॒
PS4.7 खलु॒ वा ए॒षा सू॒त्वा
PS4.8 व॒शाऽभ॑व॒ - [ ]
PS5.1 -दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
PS5.2 स ए॒वैनं॒ भूतिं॑ गमयति॒
PS5.3 भव॑त्ये॒व यꣳ सू॒त्वा व॒शा
PS5.4 स्यात् तमै॒न्द्रमे॒वाऽऽ* ल॑भेतै॒तद्वाव तदि॑न्द्रि॒यꣳ
PS5.5 सा॒क्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रा॒ग्नं पु॑नरुथ्
PS5.6 सृ॒ष्टमा ल॑भेत॒ य आ
PS5.7 तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न
PS5.8 पिबे॒द्-विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो
PS5.9 यो ब्रा᳚ह्म॒णः सन्ना -
PS5.10 [ ]
PS6.1 तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न
PS6.2 पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑
PS6.3 धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒
PS6.4 उपै॑नꣳ सोमपी॒थो न॑मति॒ यदै॒न्द्रो
PS6.5 भव॑तीन्द्रि॒यं ॅवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व
PS6.6 सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो
PS6.7 वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒
PS6.8 संत॑नोति पुनरुथ्‌सृ॒ष्टो भ॑वति पुनरुथ्‌सृ॒ष्ट
PS6.9 इ॑व॒ ह्ये॑तस्य॑ - [
PS6.10 ]
PS7.1 सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा
PS7.2 ल॑भेता-भि॒चर॒न् ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS7.3 धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति
PS7.4 ता॒जगार्ति॒-मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा
PS7.5 ए॒षा ल॒क्ष्मी यत् तू॑प॒रः
PS7.6 समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒
PS7.7 वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒
PS7.8 प्रह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒
PS7.9 ॅवैभी॑दक इ॒द्ध्मो ( )
PS7.10 भि॒नत्त्ये॒वैनं᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.5.1 TS 2.1.5.1
इन्द्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ् स य उ॑त्त॒मः प॒शुरासी॒त् तं पृ॒ष्ठं प्रति॑ स॒गृंह्योद॑क्खिद॒त् तꣳ स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ् स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ् स ए॒तमै॒न्द्रमु॑न्न॒तमा ल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो - [ ]
पदपाठः (Word-by-word)
इन्द्रः॑ । व॒लस्य॑ । बिल᳚म् । अपेति॑ । औ॒र्णो॒त् । सः । यः । उ॒त्त॒म इत्यु॑त् - त॒मः । प॒शुः । आसी᳚त् । तम् । पृ॒ष्ठम् । प्रतीति॑ । स॒गृंह्येति॑ सं - गृह्य॑ । उदिति॑ । अ॒क्खि॒द॒त् । तम् । स॒हस्र᳚म् । प॒शवः॑ । अनु॑ । उदिति॑ । आ॒य॒न्न् । सः । उ॒न्न॒त इत्यु॑त् - न॒तः । अ॒भ॒व॒त् । यः । प॒शुका॑म॒ इति॑ प॒शु-का॒मः॒ । स्यात् । सः । ए॒तम् । ऐ॒न्द्रम् । उ॒न्न॒तमित्यु॑त्-न॒तम् । एति॑ । ल॒भे॒त॒ । इन्द्र᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । य॒च्छ॒ति॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । उ॒न्न॒त इत्यु॑त् - न॒तः ।
पदसंख्या: 49
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)। ब्रह्मवर्चसकामो यश्चर्मदोषादबिभेति यः। भ्रातृव्यवान्पापभीरुर्भ्रष्टराज्यश्च यो भवेत्।। अनुवाके चतुर्थेऽस्मिन्नेतेषां पशवः श्रुताः।। अथ पञ्चमे पशुकामादीनां पशवो वक्तव्याः। तत्रैवं विधातुं प्रस्तौति इन्द्रो वलस्येति। बलनामकः कश्चिदसुरस्तस्करो भूत्वा यतस्ततो बहून्पशूनपह्रत कस्मिंश्चिदभूबिले स्थापयामास। तं च वृत्तान्तमवगत्येन्द्रो बिलमपौर्णोत, द्वारपिधानाय प्रक्षिप्तं पाषाणमपनीतवान्। तत्र य उत्तमः पशुस्तं पशुं पृष्ठं प्रति पृष्ठदेशे पृष्ठमूलवलम्ब्योदक्खिददुत्क्षिप्तवान्। तस्य पशोर्यूथपतित्वात्तमनु सहस्त्रं पशव उद्गतवन्तः। स च मुख्यः पशुर्यूथपतित्वेन पूर्वमेवोन्नतोऽपि पश्चादिन्द्रोत्क्षेपणेनात्यन्तमुन्नतोऽभवत्। विधत्ते यः पशुकाम इति। पशोरौन्नत्यं प्रशंसति उन्नतो भवतीति। उन्नत इति यत्, एषा साहस्री लक्ष्मी सहस्रस्य निमित्तभूता तत एव लक्ष्मी संपद्रूपा। तथा सत्युन्नतालम्भेन पशुसमृद्धिरूपया लक्ष्म्या युक्तस्तान्पशूनवरुन्धे। पूर्वत्र यथा धेनुमालब्धवतः पश्चाद्वत्सालम्भो विहित एवमत्राप्युन्नमालब्धवतो वामनालम्भं विधत्ते यदा सहस्रामिति। पशुकाम उन्नतमालभ्य। तत्फल भूतान्पशून्प्राप्नुवन्सहस्रप्राप्ते रूर्ध्व वामनमालभेत। यस्यादेतस्मिन्वामने तदुन्नतं पशुसहस्रं लीलार्थमारोहति तस्मात्सहस्रपशुप्रियत्वादेव (ष) वामनो विष्णोः सम्यगपेक्षितः। एतस्याऽऽलम्भेन पूर्वमत्पन्नेभ्यः सहस्रपशुभ्यः पश्वर्थं प्रतिष्ठां तृणोदकसंपूर्ण निवासस्थानं कृतवान्भवति। एतस्य वामनस्य सहस्रप्राप्तिकालादन्यं कालं विधत्ते कोऽर्हतिति। सहस्रप्राप्तिः प्रायेण दुर्लभा। विघ्नानां चोरव्याघ्रादिकृतानां बहुत्वात्। अतः पशुप्राप्तेरूर्ध्वं सहस्रादिनान्यतिबाह्याऽऽलभेत। पशवो हि क्षीरादिभोगार्थं संपाद्यन्ते। तत्रैकैकस्मिन्दिने तद्भोगप्रदानादिकैकः पशुरिति गणनायां सहस्रसंख्याकान्यहोरात्राण्येव सहस्रं पशवः संपद्यन्ते। ततः सहस्रदिनेभ्य ऊर्ध्वं वामनालम्भेन यावतां तावता वा विद्यमानानां पशूनां प्रतिष्ठा संपादिता भवति। प्रजाकामस्य पशुं विधत्ते ओषधीभ्य इति। बेहतं गर्भविनाशिनीम्। यः प्रजोत्पादने समर्थोऽपि प्रजां न लभत एतं प्रजार्थमोषधिदेवताः परितो बाध्यन्ते। अतस्ताभ्य आलम्भो युक्तः। या गौर्गर्मनाशिनी भवत्येतस्याः सूतुं गर्भमोषधयोऽपिघ्नन्ति। अतस्तासां प्रियाया बेहत आलम्भेन तुष्टा ओषधयो यजमानार्थं द्योनेर्यजपानसंबन्धिवीर्यात्प्रजामुत्पादयन्ति स्वरेतसैव प्रयच्छन्ति, न तु क्षेत्रजपुत्रिकासुतादिकम्। ततोऽसावौरसीमेव प्रजां लभेत। ता ओषधयो लोकप्रसिद्ध्या स्तूयनो। तव तावदाप एवैषधयोऽपामोषधिकारणत्वात्। पुरुषो यजमानस्योत्पद्यमानः पुत्रः । स चोत्पत्तेः प्रागसदित्युच्यते। स्वकारणभूतरेतोवस्थायामनभिव्यक्तत्वात्। तथा सत्यब्रूपेण स्थिता ओषधय एव यजमानर्थमनभिव्यक्तशरीराकाराद्रेतसः सदभिव्यक्तशरीरं प्रयच्छन्ति। यस्मादेवं तस्मात्कारणादीदृशवृतान्ताभिज्ञास्तदनाभिज्ञाश्च लौकिका एवमाहुः –आप एवास्मा असतः सद्ददतीति। तत्राभिज्ञा ओषधिदेवताकृतं यथोक्तं पुत्रप्रदानमभिलक्ष्यैवं वदन्ति। अनभिज्ञास्तु क्षेत्रेषु जलसंपत्त्या सस्यानिष्पत्तिमभिलक्ष्याऽऽप एवासतः सस्यरहितात्क्षेत्रात्सद्विद्यमानत्वेन भासमानं सस्यं ददतीत्याहुः। यद्यभिज्ञा ओषधीनां पुत्रप्रद्रत्वमाहुः यदि वाऽनभिज्ञा अपां सस्यप्रदत्वमाहुः सर्वथाऽपि प्रशस्तमेवौषधिविषयं कर्म। भूतिकामस्य पशुं विधत्ते ऐन्द्रीमिति। सकृद्वत्समुत्पाद्य पश्चाद्वन्ध्या गौः सूतवशा। यो भूत्यै योग्योऽपि भूतिं न प्राप्नोति सोऽयमुत्पन्नोऽप्यनत्पन्नसम एव तस्मादयमालभेत्। एषाऽपि सूतवशा प्रथममिन्द्रसमानं वत्समुत्पाद्य वन्ध्याऽभवत्। इन्द्रस्य प्रियायाः सूतवशायाः प्रयोगादूर्ध्वं वत्सप्रयोगं विधत्तेय सूत्वेति। सूतवशाया वत्स इन्द्रसमानः। अत एवेन्द्रमातुः सूतवशारूपेण निष्पत्तिरेवमाम्नायते “सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म” इति । तथा सति स्वसमानत्वेनेन्द्रप्रियं तमेनं वत्समैन्द्रमेवाऽऽलभेत। वत्सस्येन्द्रियकार्यत्वादैन्द्रत्वान्मुख्यमेवेन्द्रियमवरुन्धे। विच्छिन्नसोमपीथस्य पशुं विधत्ते ऐद्राग्नमिति। गालितवृषणो बलीवर्द उत्सृष्ट इत्यच्यते। स एव जीर्णो लाङ्गलवहनादेर्मुक्तः पुनरुत्सृष्टः। स्वात्मानमारभ्य तृतीयः पुरुषः पितामहः पिता स्वयं च यदा सोमं न पिबेयुस्तदानीमेतस्य त्रयस्थ सोमपानं विच्छिन्नं, स एतं पशुमालभेत। इन्द्रमग्निं च क्रमेण प्रशंसति यदैन्द्रो भवतीति। सोमपानस्येन्द्रियवृद्धिहेतुत्वादिन्द्रियरूपत्वम्। पशुविशेषणं प्रशंसति पुनरुत्सृष्टो भवतीति। प्रथमं पितामहेन सोमपथि उत्सृष्टः, पुनः पित्रा, पुनरपि स्वेन॑, तत उक्तपशुसादृश्यात्तदालम्भः समृद्ध्यै संपद्यते। अभिचरतः पशुं विधत्ते ब्राह्मणस्पत्यमिति। स ब्रह्मणस्पतिस्तस्मा एव यजमानार्थमेवैनं वैरिणमावृश्चति समन्ताच्छिनत्ति, तदानीमेव वैरी मरणं प्राप्नोति। पशुविशेषणं प्रशंसति तूपरो भवतीति। तूपर इति यदेषा क्षुरपविर्वै क्षुर इव तीक्ष्णा धार वज्रेः यस्याः सा क्षरपविस्तादृशी लक्ष्मी वैरिमारणार्था संपद्यते। शृङ्गाभावेऽपि युद्धे मेष इव सहसा घातं करोतीति वज्रसाम्यम्। यूपस्य चोदकप्राप्तसमष्टश्रित्यादीरूपमपवदितुं स्फ्यसमानमाकारं विधत्ते स्फ्यो यूप इति। अत्र सूत्रम् “स्फ्यो यूप इति स्फ्याकृतिर्यूपः” इति। कुशमयमपवदितुं विधत्ते शरमयमिति। शृणन्ति हिंसन्तीति शरास्तृणविशेषा येषु तृषेषूत्पन्नै काष्ठै र्ब्राह्मणा.* क्रियन्ते। तेषां च तृणानां शीर्णैर्वज्रावयवैरुत्पन्नत्वाद्धिंसकत्वम्। वज्रावयवैरुत्पत्तिरन्यत्राऽऽम्नायते—“इन्द्रो बृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीय रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणा शरत्वम्” इति। तस्माच्छरमयेन बर्हिषा वैरिणं हिनस्त्येव। पालाशमिध्मं बाधितुं विधत्ते—"""

वैभदिक इति। अक्षशब्दवाच्याद्वृक्षादुत्पन्नो वैभीदकः। स च विशेषेण भेत्तुं शक्त इति कृत्वा वैरिणं भिनत्त्येव। *ब्राह्मणा इत्यस्य स्थाने बाणा इति युक्तम्। अथवा ब्राह्मणा इति पदेन दर्भपटवो ज्ञेया।

"अत्र मीमांसा। दशमाध्यायस्य चतुर्थपादे चिन्तितम् “समुच्चेयं शरमयं कौशेनोतास्य बाधकम्। प्राचुर्यस्य विधेराद्यो मैवं प्रतिपदोक्तितः”।। सोमारौद्रं चरुं निर्वपेत्कृष्णानां व्रीहीणामाभिचरन्तित्यत्र शरमयं बर्हिर्भवतीति श्रुतं, तदिदं प्राकृतेन कुशबर्हिषा सह समुच्चयिते। कुतः। मयट्शब्देन प्राचुर्य स्याभिधानादबाधेनापि तदुपपत्तेरिति पूर्वः पक्षः। नित्यं वृद्धशरादिभ्य इति सूत्रेण शरशब्दाद्विकारार्थो मयट्प्रत्ययः प्रतिपदोक्तः। अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः। किंच, प्राचुर्यार्थत्वे कार्यान्तरं कल्पनीयं स्यात्। तस्मात्कुशबर्हिषो बाधकमिति राद्धान्तः।। "

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहीताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इन्द्रो वलस्येत्यादि ॥ अपौर्णोत् अपावृतद्वारमकरोत् । स इति । 'सुपां सुलुक्' इति सप्तम्यास्स्वादेशः । तत्र बिले वसतां पशूनाम्मध्ये य उत्तमः पशुरासीत्, तं पृष्ठं प्रतिसङ्गृह्य पृष्ठे गृहीत्वा उदक्खिदत् उत्क्षिप्तवान् । छान्दसो वर्णोपजनः । उत्तमशब्द उञ्छादिषु निपात्यते, तेनान्तोदात्तः । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् । तमनु सहस्रं पशव उदायन् उदगच्छन् । स उत्तमः पशुरुन्नतोऽभवत् । उन्नतं पृष्ठभागोऽस्यास्तीति लक्षणया तद्वानुच्यते, मत्त्वर्थीयो लुप्यते । यत्र गृहीतपेसवः [... हीतपशोः] ककुदाख्य उन्नतोऽभवत् ॥
2 साहस्रीति ॥ सहस्रस्य निमित्तभूता । 'शतमानविंशतिक' इत्यण् । लक्ष्मी लक्षणम् । 'सुपां सुलुक्' इति सोर्लुक् । यदेत्यादि । गतम् । समीषितस्सम्यगीषितः । अहोरात्राण्येवेति । अहोरात्राणां च पशूनां सहस्रत्वात् प्रजाताः पशवः प्रतिष्ठिता भवन्ति । 'हेमन्तशिशिरावहोरात्रे च' इति पूर्ववल्लिङ्गता । पशुबन्धान्तरमिदम् । पशूनां सहस्रं प्राप्याहोरात्राणां सहस्रं स्थित्वाऽथ वैष्णवं वामनमालभेत ॥
3 ओषधीभ्य इत्यादि ॥ 'ओषधेश्च' इति दीर्घत्वम् । वेहत् गर्भनाशिनी । ओषधयः खल्विति । एतस्या वेहतस्सूतुं सोतव्यं गर्भम् । औणादिकस्तुन्प्रत्ययः । अपिघ्नन्ति यथेष्टं घ्नन्ति । आपो वा इति । तद्धेतुत्वात्ताच्छब्द्यम्, व्यापिन्यो वा । असदिति । अव्यक्तावस्थं करणरूपं पुरुषः । तस्मादोषधीनामपि हेतुभूता आप एव असतोऽव्यक्तात् सद्व्यक्तं प्रजालक्षणं ददति अस्मै यजमानाय ओषधीभ्यो वेहतमालभमानाय । तस्मादाहुरिति । यश्चैवमपां हेतुत्वं, वेद यश्च न वेद लौकिकः, ते सर्वे आपः खल्वसतस्सद्ददतीत्याहुः अप्संसर्गादेव सर्वबीजाङ्कुरोत्पत्तिं पश्यन्तः । 'तुनुपूर्व उदात्तयोर्वकारः' इति वकारो लुप्यते ॥
4 ऐन्द्रीमित्यादि ॥ सूतवशा सकृत्प्रसूता वन्ध्या । अजातो वा इति । अजातकल्पत्वात् । इन्द्रं खल्विति । प्रथमं सूतवशा इन्द्रं सूत्वा जनयित्वा ततो वशाऽभवत्, तस्मादैन्द्रीमालभेतेति । यमित्यादि । इन्द्रियकामस्य यं सूत्वा वशा स्यात् तत्प्रथमवत्सं इन्द्रायालभतेति । एतदिति प्रजारूपम् ॥
5 ऐन्द्राग्नमिति ॥ पुनरुत्सृष्टं जीर्णो गलितवृषणः । पुङ्गवः महर्षभार्थं गोषु मुक्त इत्येके । 'पुनरुत्सृष्टः छागः' इति भरद्वाजमतम् । आ तृतीयादिति । अभिविधावाकार इत्येके । तृतीयमपि गृहीत्वा इत्यन्ये । सोमपीथस्सोमपानम् । औणादिकस्थक्प्रत्ययः । इन्द्रियं वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । आग्नेयो वा इति । अग्निर्देवता अस्येति सर्वत्र 'अग्निकलिभ्यां' इति ढक् ॥
6 ब्राह्मणस्पत्यमिति ॥ ब्रह्म परिबृढं यज्ञाख्यं कर्म तस्य पालकोग्निः ब्रह्मणस्पतिः । तूपरश्शृङ्गहीनः । पुच्छहीन इत्येके । अभिचरन् मारयन् शत्रून् । ब्रह्मणः छान्दसोऽलुक् । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । एनमिति । अभिचर्यमाणं तस्मै ब्रह्मणस्पतये आभिमुख्येन वृश्चति । ताजक् तदानीमेव आर्तिं प्राप्नोति । 'उपसर्गादृति धातौ' इति वृद्धिः । क्षुरपविरिति । क्षुरत्वे छेदनसामर्थ्ये स्थितं पवित्वं वज्रत्वं यस्यास्सा तथोक्ता शीघ्रच्छेदिनी, लक्ष्मी लक्षणम् ॥
7 स्फ्य इति ॥ स्फ्याकृतिर्यूपः कार्यः स्फ्य एव वा यूपः कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् । शरमयमिति । 'नित्यं वृद्धशिरादिभ्यः' इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्णमयं भवति । शॄ हिंसायाम्, 'पुंसि संज्ञायां घः' । वैभीदक इति । 'पलाशादिभ्यो वा' इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वाद्दीर्घत्वम् ॥
इति द्वितीये प्रथमे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.1.5.2 TS 2.1.5.2
भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒ व प॒शूनव॑ रुन्धे य॒दा स॒हस्रं॑ प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं ॅवा॑म॒नमा ल॑भेतै॒तस्मि॒न्. वै तथ् स॒हस्र॒मद्ध्य॑तिष्ठ॒त् तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ को॑ऽर्.हति स॒हस्रं॑ प॒शून् प्राप्तु॒मित्या॑हु- रहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ स॒म्पाद्याऽऽ*ल॑भेत प॒शवो॒ - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । सा॒ह॒स्री । वै । ए॒षा । ल॒क्ष्मी । यत् । उ॒न्न॒त इत्यु॑त् - न॒तः । ल॒क्ष्मिया᳚ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । य॒दा । स॒हस्र᳚म् । प॒शून् । प्रा॒प्नु॒यादिति॑ प्र - आ॒प्नु॒यात् । अथ॑ । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । ए॒तस्मिन्न्॑ । वै । तत् । स॒हस्र᳚म् । अधीति॑ । अ॒ति॒ष्ठ॒त् । तस्मा᳚त् । ए॒षः । वा॒म॒नः । समी॑षित॒ इति॒ सं - ई॒षि॒तः॒ । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । ए॒व । प्रजा॑तेभ्य॒ इति॒ प्र - जा॒ते॒भ्यः॒ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । द॒धा॒ति॒ । कः । अ॒र्॒.ह॒ति॒ । स॒हस्र᳚म् । प॒शून् । प्राप्तु॒मिति॒ प्र - आ॒प्तु॒म् । इति॑ । आ॒हुः॒ । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । ए॒व । स॒हस्र᳚म् । स॒म्पाद्येति॑ सं - पाद्य॑ । एति॑ । ल॒भे॒त॒ । प॒शवः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.5.3 TS 2.1.5.3
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒-त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन् प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्-भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚ - [ ]
पदपाठः (Word-by-word)
वै । अ॒हो॒रा॒त्राणीइत्य॑हः - रा॒त्राणि॑ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒ति॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वे॒हत᳚म् । एति॑ । ल॒भे॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । ओष॑धयः । वै । ए॒तम् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । परीति॑ । बा॒ध॒न्ते॒ । यः । अल᳚म् । प्र॒जाया॒ इति॑ प्र - जायै᳚ । सन्न् । प्र॒जामिति॑ प्र-जाम् । न । वि॒न्दते᳚ । ओष॑धयः । खलु॑ । वै । ए॒तस्यै᳚ । सूतु᳚म् । अपीति॑ । घ्न॒न्ति॒ । या । वे॒हत् । भव॑ति । ओष॑धीः । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । ए॒व । अ॒स्मै॒ । स्वात् । योनेः᳚ । प्र॒जामिति॑ प्र - जाम् । प्रेति॑ । ज॒न॒य॒न्ति॒ । वि॒न्दते᳚ । 31(50)
पञ्चशत् 4 #
TS 2.1.5.4 TS 2.1.5.4
प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त् पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒ती-त्यै॒न्द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒ भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोतीन्द्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑व॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । आपः॑ । वै । ओष॑धयः । अस॑त् । पुरु॑षः । आपः॑ । ए॒व । अ॒स्मै॒ । अस॑तः । सत् । द॒द॒ति॒ । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । आपः॑ । तु । वाव । अस॑तः । सत् । द॒द॒ति॒ । इति॑ । ऐ॒न्द्रीम् । सू॒तव॑शा॒मिति॑ सू॒त - व॒शा॒म् । एति॑ । ल॒भे॒त॒ । भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । अजा॑तः । वै । ए॒षः । यः । अल᳚म् । भूत्यै᳚ । सन्न् । भूति᳚म् । न । प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । इन्द्र᳚म् । खलु॑ । वै । ए॒षा । सू॒त्वा । व॒शा । अ॒भ॒व॒त् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.5.5 TS 2.1.5.5
-दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात् तमै॒न्द्रमे॒वाऽऽ* ल॑भेतै॒तद्वाव तदि॑न्द्रि॒यꣳ सा॒क्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रा॒ग्नं पु॑नरुथ् सृ॒ष्टमा ल॑भेत॒ य आ तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न पिबे॒द्-विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना - [ ]
पदपाठः (Word-by-word)
इन्द्र᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । भूति᳚म् । ग॒म॒य॒ति॒ । भव॑ति । ए॒व । यम् । सू॒त्वा । व॒शा । स्यात् । तम् । ऐ॒न्द्रम् । ए॒व । एति॑ । ल॒भे॒त॒ । ए॒तत् । वाव । तत् । इ॒न्द्रि॒यम् । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । इ॒न्द्रि॒यम् । अवेति॑ । रु॒न्धे॒ । ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । पु॒न॒रु॒थ्सृ॒ष्टमिति॑ पुनः - उ॒थ्सृ॒ष्टम् । एति॑ । ल॒भे॒त॒ । यः । एति॑ । तृ॒तीया᳚त् । पुरु॑षात् । सोम᳚म् । न । पिबे᳚त् । विच्छि॑न्न॒ इति॒ वि - छि॒न्नः॒ । वै । ए॒तस्य॑ । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । यः । ब्रा॒ह्म॒णः । सन्न् । एति॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.1.5.6 TS 2.1.5.6
तृ॒तीया॒त् पुरु॑षा॒थ् सोमं॒ न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं ॅवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति पुनरुथ्‌सृ॒ष्टो भ॑वति पुनरुथ्‌सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ - [ ]
पदपाठः (Word-by-word)
तृ॒तीया᳚त् । पुरु॑षात् । सोम᳚म् । न । पिब॑ति । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मै॒ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । प्रेति॑ । य॒च्छ॒तः॒ । उपेति॑ । ए॒न॒म् । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । न॒म॒ति॒ । यत् । ऐ॒न्द्रः । भव॑ति । इ॒न्द्रि॒यम् । वै । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । इ॒न्द्रि॒यम् । ए॒व । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । अवेति॑ । रु॒न्धे॒ । यत् । आ॒ग्ने॒यः । भव॑ति । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । स्वाम् । ए॒व । दे॒वता᳚म् । अनु॑ । समिति॑ । त॒नो॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः-उ॒थ्सृ॒ष्टः । भ॒व॒ति॒ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः । इ॒व॒ । हि । ए॒तस्य॑ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.1.5.7 TS 2.1.5.7
सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेता-भि॒चर॒न् ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒-मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत् तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो ( ) भि॒नत्त्ये॒वैनं᳚ ॥
पदपाठः (Word-by-word)
सो॒म॒पी॒थ इति॑ सोम - पी॒थः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ब्रा॒ह्म॒ण॒स्प॒त्यमिति॑ ब्राह्मणः - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । ब्रह्म॑णः । पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । वै । ए॒षा । ल॒क्ष्मी । यत् । तू॒प॒रः । समृ॑द्ध्य॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः ( ) । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥
पदसंख्या: 53