पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)। ब्रह्मवर्चसकामो यश्चर्मदोषादबिभेति यः। भ्रातृव्यवान्पापभीरुर्भ्रष्टराज्यश्च यो भवेत्।। अनुवाके चतुर्थेऽस्मिन्नेतेषां पशवः श्रुताः।। अथ पञ्चमे पशुकामादीनां पशवो वक्तव्याः। तत्रैवं विधातुं प्रस्तौति इन्द्रो वलस्येति। बलनामकः कश्चिदसुरस्तस्करो भूत्वा यतस्ततो बहून्पशूनपह्रत कस्मिंश्चिदभूबिले स्थापयामास। तं च वृत्तान्तमवगत्येन्द्रो बिलमपौर्णोत, द्वारपिधानाय प्रक्षिप्तं पाषाणमपनीतवान्। तत्र य उत्तमः पशुस्तं पशुं पृष्ठं प्रति पृष्ठदेशे पृष्ठमूलवलम्ब्योदक्खिददुत्क्षिप्तवान्। तस्य पशोर्यूथपतित्वात्तमनु सहस्त्रं पशव उद्गतवन्तः। स च मुख्यः पशुर्यूथपतित्वेन पूर्वमेवोन्नतोऽपि पश्चादिन्द्रोत्क्षेपणेनात्यन्तमुन्नतोऽभवत्। विधत्ते यः पशुकाम इति। पशोरौन्नत्यं प्रशंसति उन्नतो भवतीति। उन्नत इति यत्, एषा साहस्री लक्ष्मी सहस्रस्य निमित्तभूता तत एव लक्ष्मी संपद्रूपा। तथा सत्युन्नतालम्भेन पशुसमृद्धिरूपया लक्ष्म्या युक्तस्तान्पशूनवरुन्धे। पूर्वत्र यथा धेनुमालब्धवतः पश्चाद्वत्सालम्भो विहित एवमत्राप्युन्नमालब्धवतो वामनालम्भं विधत्ते यदा सहस्रामिति। पशुकाम उन्नतमालभ्य। तत्फल भूतान्पशून्प्राप्नुवन्सहस्रप्राप्ते रूर्ध्व वामनमालभेत। यस्यादेतस्मिन्वामने तदुन्नतं पशुसहस्रं लीलार्थमारोहति तस्मात्सहस्रपशुप्रियत्वादेव (ष) वामनो विष्णोः सम्यगपेक्षितः। एतस्याऽऽलम्भेन पूर्वमत्पन्नेभ्यः सहस्रपशुभ्यः पश्वर्थं प्रतिष्ठां तृणोदकसंपूर्ण निवासस्थानं कृतवान्भवति। एतस्य वामनस्य सहस्रप्राप्तिकालादन्यं कालं विधत्ते कोऽर्हतिति। सहस्रप्राप्तिः प्रायेण दुर्लभा। विघ्नानां चोरव्याघ्रादिकृतानां बहुत्वात्। अतः पशुप्राप्तेरूर्ध्वं सहस्रादिनान्यतिबाह्याऽऽलभेत। पशवो हि क्षीरादिभोगार्थं संपाद्यन्ते। तत्रैकैकस्मिन्दिने तद्भोगप्रदानादिकैकः पशुरिति गणनायां सहस्रसंख्याकान्यहोरात्राण्येव सहस्रं पशवः संपद्यन्ते। ततः सहस्रदिनेभ्य ऊर्ध्वं वामनालम्भेन यावतां तावता वा विद्यमानानां पशूनां प्रतिष्ठा संपादिता भवति। प्रजाकामस्य पशुं विधत्ते ओषधीभ्य इति। बेहतं गर्भविनाशिनीम्। यः प्रजोत्पादने समर्थोऽपि प्रजां न लभत एतं प्रजार्थमोषधिदेवताः परितो बाध्यन्ते। अतस्ताभ्य आलम्भो युक्तः। या गौर्गर्मनाशिनी भवत्येतस्याः सूतुं गर्भमोषधयोऽपिघ्नन्ति। अतस्तासां प्रियाया बेहत आलम्भेन तुष्टा ओषधयो यजमानार्थं द्योनेर्यजपानसंबन्धिवीर्यात्प्रजामुत्पादयन्ति स्वरेतसैव प्रयच्छन्ति, न तु क्षेत्रजपुत्रिकासुतादिकम्। ततोऽसावौरसीमेव प्रजां लभेत। ता ओषधयो लोकप्रसिद्ध्या स्तूयनो। तव तावदाप एवैषधयोऽपामोषधिकारणत्वात्। पुरुषो यजमानस्योत्पद्यमानः पुत्रः । स चोत्पत्तेः प्रागसदित्युच्यते। स्वकारणभूतरेतोवस्थायामनभिव्यक्तत्वात्। तथा सत्यब्रूपेण स्थिता ओषधय एव यजमानर्थमनभिव्यक्तशरीराकाराद्रेतसः सदभिव्यक्तशरीरं प्रयच्छन्ति। यस्मादेवं तस्मात्कारणादीदृशवृतान्ताभिज्ञास्तदनाभिज्ञाश्च लौकिका एवमाहुः –आप एवास्मा असतः सद्ददतीति। तत्राभिज्ञा ओषधिदेवताकृतं यथोक्तं पुत्रप्रदानमभिलक्ष्यैवं वदन्ति। अनभिज्ञास्तु क्षेत्रेषु जलसंपत्त्या सस्यानिष्पत्तिमभिलक्ष्याऽऽप एवासतः सस्यरहितात्क्षेत्रात्सद्विद्यमानत्वेन भासमानं सस्यं ददतीत्याहुः। यद्यभिज्ञा ओषधीनां पुत्रप्रद्रत्वमाहुः यदि वाऽनभिज्ञा अपां सस्यप्रदत्वमाहुः सर्वथाऽपि प्रशस्तमेवौषधिविषयं कर्म। भूतिकामस्य पशुं विधत्ते ऐन्द्रीमिति। सकृद्वत्समुत्पाद्य पश्चाद्वन्ध्या गौः सूतवशा। यो भूत्यै योग्योऽपि भूतिं न प्राप्नोति सोऽयमुत्पन्नोऽप्यनत्पन्नसम एव तस्मादयमालभेत्। एषाऽपि सूतवशा प्रथममिन्द्रसमानं वत्समुत्पाद्य वन्ध्याऽभवत्। इन्द्रस्य प्रियायाः सूतवशायाः प्रयोगादूर्ध्वं वत्सप्रयोगं विधत्तेय सूत्वेति। सूतवशाया वत्स इन्द्रसमानः। अत एवेन्द्रमातुः सूतवशारूपेण निष्पत्तिरेवमाम्नायते “सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म” इति । तथा सति स्वसमानत्वेनेन्द्रप्रियं तमेनं वत्समैन्द्रमेवाऽऽलभेत। वत्सस्येन्द्रियकार्यत्वादैन्द्रत्वान्मुख्यमेवेन्द्रियमवरुन्धे। विच्छिन्नसोमपीथस्य पशुं विधत्ते ऐद्राग्नमिति। गालितवृषणो बलीवर्द उत्सृष्ट इत्यच्यते। स एव जीर्णो लाङ्गलवहनादेर्मुक्तः पुनरुत्सृष्टः। स्वात्मानमारभ्य तृतीयः पुरुषः पितामहः पिता स्वयं च यदा सोमं न पिबेयुस्तदानीमेतस्य त्रयस्थ सोमपानं विच्छिन्नं, स एतं पशुमालभेत। इन्द्रमग्निं च क्रमेण प्रशंसति यदैन्द्रो भवतीति। सोमपानस्येन्द्रियवृद्धिहेतुत्वादिन्द्रियरूपत्वम्। पशुविशेषणं प्रशंसति पुनरुत्सृष्टो भवतीति। प्रथमं पितामहेन सोमपथि उत्सृष्टः, पुनः पित्रा, पुनरपि स्वेन॑, तत उक्तपशुसादृश्यात्तदालम्भः समृद्ध्यै संपद्यते। अभिचरतः पशुं विधत्ते ब्राह्मणस्पत्यमिति। स ब्रह्मणस्पतिस्तस्मा एव यजमानार्थमेवैनं वैरिणमावृश्चति समन्ताच्छिनत्ति, तदानीमेव वैरी मरणं प्राप्नोति। पशुविशेषणं प्रशंसति तूपरो भवतीति। तूपर इति यदेषा क्षुरपविर्वै क्षुर इव तीक्ष्णा धार वज्रेः यस्याः सा क्षरपविस्तादृशी लक्ष्मी वैरिमारणार्था संपद्यते। शृङ्गाभावेऽपि युद्धे मेष इव सहसा घातं करोतीति वज्रसाम्यम्। यूपस्य चोदकप्राप्तसमष्टश्रित्यादीरूपमपवदितुं स्फ्यसमानमाकारं विधत्ते स्फ्यो यूप इति। अत्र सूत्रम् “स्फ्यो यूप इति स्फ्याकृतिर्यूपः” इति। कुशमयमपवदितुं विधत्ते शरमयमिति। शृणन्ति हिंसन्तीति शरास्तृणविशेषा येषु तृषेषूत्पन्नै काष्ठै र्ब्राह्मणा.* क्रियन्ते। तेषां च तृणानां शीर्णैर्वज्रावयवैरुत्पन्नत्वाद्धिंसकत्वम्। वज्रावयवैरुत्पत्तिरन्यत्राऽऽम्नायते—“इन्द्रो बृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीय रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणा शरत्वम्” इति। तस्माच्छरमयेन बर्हिषा वैरिणं हिनस्त्येव। पालाशमिध्मं बाधितुं विधत्ते—"""
वैभदिक इति। अक्षशब्दवाच्याद्वृक्षादुत्पन्नो वैभीदकः। स च विशेषेण भेत्तुं शक्त इति कृत्वा वैरिणं भिनत्त्येव। *ब्राह्मणा इत्यस्य स्थाने बाणा इति युक्तम्। अथवा ब्राह्मणा इति पदेन दर्भपटवो ज्ञेया।
"अत्र मीमांसा। दशमाध्यायस्य चतुर्थपादे चिन्तितम् “समुच्चेयं शरमयं कौशेनोतास्य बाधकम्। प्राचुर्यस्य विधेराद्यो मैवं प्रतिपदोक्तितः”।। सोमारौद्रं चरुं निर्वपेत्कृष्णानां व्रीहीणामाभिचरन्तित्यत्र शरमयं बर्हिर्भवतीति श्रुतं, तदिदं प्राकृतेन कुशबर्हिषा सह समुच्चयिते। कुतः। मयट्शब्देन प्राचुर्य स्याभिधानादबाधेनापि तदुपपत्तेरिति पूर्वः पक्षः। नित्यं वृद्धशरादिभ्य इति सूत्रेण शरशब्दाद्विकारार्थो मयट्प्रत्ययः प्रतिपदोक्तः। अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः। किंच, प्राचुर्यार्थत्वे कार्यान्तरं कल्पनीयं स्यात्। तस्मात्कुशबर्हिषो बाधकमिति राद्धान्तः।। "