अनुवाकः 6 TS 2.1.6

(A6)

(अ॒स्मा॒ - इन्द्र॑मे॒वै - ष - स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै᳚ - प्राजाप॒त्यो हि - त्रीणि॑ च)

अनुवाकः 6 - Complete Audio

TS 2.1.6 - स्वरानुगामी

0:00 0:00
PS1.1 बा॒र्॒.ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒
PS1.2 यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाꣳ॑
PS1.3 स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS1.4 धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ
PS1.5 स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व भ॑वति
PS1.6 शितिपृ॒ष्ठो भ॑वति बार्.हस्प॒त्यो ह्ये॑ष
PS1.7 दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णꣳ श्या॒ममा
PS1.8 ल॑भे॒तान्न॑का॒मोऽन्नं॒ ॅवै पू॒षा पू॒षण॑मे॒व
PS1.9 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
PS1.10 ए॒वास्मा॒ - [ ]
PS2.1 अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व
PS2.2 भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य
PS2.3 रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा
PS2.4 ल॑भे॒ताऽन्न॑-का॒मोऽन्नं॒ ॅवै म॒रुतो॑म॒रुत॑ ए॒व
PS2.5 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त
PS2.6 ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द‌ए॒व भ॑वति॒
PS2.7 पृश्नि॑ र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ
PS2.8 समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व
PS2.9 - [ ]
PS3.1 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
PS3.2 ए॒वास्मि॑न्निन्द्रि॒यं द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न्
PS3.3 भवत्ये॒तद्वा इन्द्र॑स्य रू॒पꣳ समृ॑द्ध्यै
PS3.4 सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता
PS3.5 वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑
PS3.6 भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑
PS3.7 स॒निं प्रसु॑वति॒ दान॑कामा अस्मै
PS3.8 प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो
PS3.9 ह्ये॑ष- [ ]
PS4.1 दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा
PS4.2 ल॑भे॒ताऽन्न॑कामोवैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व
PS4.3 दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒त ए॒वास्मा॒
PS4.4 अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति
PS4.5 बहुरू॒पो भ॑वतिबहुरू॒पꣳ ह्यन्नꣳ॒॒ समृ॑द्ध्यै
PS4.6 वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो
PS4.7 वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व
PS4.8 दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त
PS4.9 ए॒वास्मै॑ - [ ]
PS5.1 सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व
PS5.2 भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚(1॒)
PS5.3 ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा
PS5.4 ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त् प्राजाप॒त्यो
PS5.5 वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒
PS5.6 वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒
PS5.7 ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS5.8 धावति॒ स ए॒वैनं॒ तस्मा॒थ्
PS5.9 स्रामा᳚न्-मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो
PS5.10 ह्ये॑ ( ) -ष
PS5.11 दे॒वत॑या॒ समृ॑द्ध्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.6.1 TS 2.1.6.1
बा॒र्॒.ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाꣳ॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्.हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णꣳ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्नं॒ ॅवै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ - [ ]
पदपाठः (Word-by-word)
बा॒र्.॒ह॒स्प॒त्यम् । शि॒ति॒पृ॒ष्ठमिति॑ शिति - पृ॒ष्ठम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । यः । का॒मये॑त । पृ॒ष्ठम् । स॒मा॒नाना᳚म् । स्या॒म् । इति॑ । बृह॒स्पति᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । पृ॒ष्ठम् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । भ॒व॒ति॒ । बा॒र्.॒ह॒स्प॒त्यः । हि । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । पौ॒ष्णम् । श्या॒मम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । अन्न᳚म् । वै । पू॒षा । पू॒षण᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः। पशुकामः प्रजाकामो भूत्यर्थी छिन्नसोमकः। अभिचारी च ये तेषां पञ्चमे पशवः श्रुताः।। अथ षष्टे ग्रामकामादीनां पश्वन्तराणि वक्तव्यानि। तत्रैकं पशुं विधत्ते बार्हस्पत्यमिति। ग्रामो मे भूयादन्येषां ग्रामस्वामिनां मध्ये पृष्ठवदुपवर्ती त्यामिति यः कामयेत तस्यायं पशुः। पशुविशेषणं प्रशंसति शितिपृष्ठो भवतीति। राजसूये बार्हस्पत्यं चरु शितिपृष्ठो दक्षिणेत्युक्तत्वात्तद्देवताकत्वम्। अन्नकामस्य पशुं विधत्ते पौष्णमिति। अन्नस्य पोषकत्वात्पूषत्वम्। पशुविशेषणं प्रशंसति श्यामो भवतीति। पत्रशाकाद्यन्नस्य रूपं श्यामम्। अन्नकामस्य पश्वन्तरं विधत्ते मारुतमिति। मरुतां श्यत्वेनान्नसंपादकत्वादन्नत्वम्। पशुविशेषणं प्रशंसति पृश्निर्भवतीति । पृश्निः श्वेतः। शाल्यन्नस्य रूपं श्वेतम्। इन्द्रियकामस्य पशुं विधत्ते ऐन्द्रमरुणमेति। अरुणस्य पशोर्गुणान्तरं विधत्ते अरुणो भ्रूमानिति। महती भ्रूरस्यास्तीति भ्रूमान। इन्द्रस्य सहस्त्राक्षत्वेन भ्रूबाहुल्यं स्वरूपम्। स्वप्रतिग्रहीतृकदानकामस्य पशुं विधत्ते सावित्रमिति। उपध्वस्तः संकीर्णवर्णः। सनिकामः परकर्तृकदानकामः। प्रसवानां प्रेरणनाम्। अस्मै यजमानार्थं परकर्तृकं दानं प्रसुवति प्रेरयति। संकीर्णवर्णं प्रशंसति उपध्वस्त इति। राजसूये सावित्रं द्वादशकपासं क्षत्तुर्गृंह उपध्वस्तो दक्षिणेत्युक्तत्वात्सवितृदेवताकत्वम्। अन्नकामस्य पश्वन्तरं विधत्ते वैश्वदेवमिति। सांकर्यमन्तरेण विस्पष्टा बहवो वर्णा यस्यासौ बहुरूपः। पशुविशेषणं प्रशंसति बहुरूपो भवतीति। भक्ष्यभोज्यलेह्यचोष्यभेदेनान्नस्य बहुरूपत्वम्। ग्रामकामस्य पश्वन्तरं विधत्ते वैश्वदेवमिति। सजाता भ्रातरो भृत्यादयश्च। ते च बहुत्वसाम्येन विश्वेषां देवानां संबन्धिनः। पशुविशेषणं प्रशंसति बहुरूप इति। विश्वेषां देवानामेतत्स्वामित्वात्पशोर्बहुदेवत्यत्वम्। अज्ञात चिररोगग्रस्तस्य पशुं विधत्ते प्राजापत्यमिति। विस्पष्टानि रोगविशेषलक्षणानि न दृश्यन्ते, बलक्षयकार्श्यादिकं च दृश्यते, तदिदमज्ञातमिव भवति। प्रजापतिः पुरुषमसृजतेति श्रुतत्वात्पुरुषः प्राजापत्यः। चिकित्सकैरज्ञातो पि रोगविशेषः प्रजापतिना ज्ञायते। अतः प्रजापतिरेनं तस्मात्स्रामादज्ञातदीर्घरोगान्मोचयति।। प्रजापतिवपाजन्यत्वेन पशुविशेषणं प्रशंसति तूपरो भवतीति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजयुर्वेदीय- तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।"""

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 बार्हस्पत्यमित्यादि ॥ उक्तश्शितिपृष्ठः, स्वरश्च । पृष्ठं प्रधान एकोधिकार इति । राद्धान्तकर्मण्यधिकार इति केचित् ॥
2 पौष्णमित्यादि ॥ गतम् ॥
3 अन्नं वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् ॥
4 अरुण इत्यादि ॥ भ्रूमान् महाभ्रूः ॥
5 उपध्वस्तः विभिन्नवर्णः बहुबिन्दुचितशरीरः । सनिकाम इति । याच्ञया लब्धं धनं सनिः । प्रसुवति अनुजानाति ॥
6 बहुरूपः नानारूपः । 'बहोर्नञ्वत्' इति नञ्वद्भावः, 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
7 यस्यानाज्ञातमिति ॥ ज्योगामयेदिति । अज्ञातविशेषं यं ना[षः यमा]मय आमयेत् दीर्घकालम् । 'रुजार्थानाम्' इति षष्ठी । तस्य वेदेति । कर्मर्णस्सप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । स्रामादिति रोगनाम । यद्वा - स्रामं मन्त्रेण परलोक आह्वानं मरणमेव ॥
इति द्वितीये प्रथमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 2.1.6.2 TS 2.1.6.2
अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒ताऽन्न॑-का॒मोऽन्नं॒ ॅवै म॒रुतो॑म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द‌ए॒व भ॑वति॒ पृश्नि॑ र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व - [ ]
पदपाठः (Word-by-word)
अन्न᳚म् । प्रेति॑ । य॒च्छ॒ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । श्या॒मः । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । मा॒रु॒तम् । पृश्नि᳚म् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । अन्न᳚म् । वै । म॒रुतः॑ । म॒रुतः॑ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । पृश्निः॑ । भ॒व॒ति॒ । ए॒तत् । वै । अन्न॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । ऐ॒न्द्रम् । अ॒रु॒णम् । एति॑ । ल॒भे॒त॒ । इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ । इन्द्र᳚म् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.6.3 TS 2.1.6.3
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न् भवत्ये॒तद्वा इन्द्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष- [ ]
पदपाठः (Word-by-word)
स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । द॒धा॒ति॒ । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । अ॒रु॒णः । भ्रूमा॒निति॒ भ्रू - मा॒न् । भ॒व॒ति॒ । ऐ॒तत् । वै । इन्द्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । सा॒वि॒त्रम् । उ॒प॒द्ध्व॒स्तमित्यु॑प - ध्व॒स्तम् । एति॑ । ल॒भे॒त॒ । स॒निका॑म॒ इति॑ स॒नि - का॒मः॒ । स॒वि॒ता । वै । प्र॒स॒वाना॒मिति॑ प्र-स॒वाना᳚म् । ई॒शे॒ । स॒वि॒तार᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । स॒निम् । प्रेति॑ । सु॒व॒ति॒ । दान॑कामा॒ इति॒ दान॑-का॒माः॒ । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । भ॒व॒न्ति॒ । उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः । भ॒व॒ति॒ । सा॒वि॒त्रः । हि । ए॒षः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.6.4 TS 2.1.6.4
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒ताऽन्न॑कामोवैश्वदे॒वं ॅवा अन्नं॒ ॅविश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वतिबहुरू॒पꣳ ह्यन्नꣳ॒॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ - [ ]
पदपाठः (Word-by-word)
दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । अन्न᳚म् । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु-रू॒पः । भ॒व॒ति॒ । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । हि । अन्न᳚म् । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । वै । स॒जा॒ता इति॑ स - जा॒ताः । विश्वान्॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.6.5 TS 2.1.6.5
सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚(1॒) ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त् प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒थ् स्रामा᳚न्-मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ ( ) -ष दे॒वत॑या॒ समृ॑द्ध्यै ॥
पदपाठः (Word-by-word)
स॒जा॒तानिति॑ स-जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । ब॒हु॒रू॒प इति॑ बहु - रू॒पः । भ॒व॒ति॒ । ब॒हु॒दे॒व॒त्य॑ इति॑ बहु-दे॒व॒त्यः॑ । हि । ए॒षः । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । प्र॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । तू॒प॒रम् । एति॑ । ल॒भे॒त॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मये᳚त् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । पुरु॑षः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । खलु॑ । वै । तस्य॑ । वे॒द॒ । यस्य॑ । अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् । इ॒व॒ । ज्योक् । आ॒मय॑ति । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । तस्मा᳚त् । स्रामा᳚त् । मु॒ञ्च॒ति॒ । तू॒प॒रः । भ॒व॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । हि ( ) । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥
पदसंख्या: 53