पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे प्रथमप्रपाठकेऽष्टमोनुवाकः) ।ब्रह्मतेजः प्रजांवृष्टिमन्नं ग्रामं तथा पुनः। ब्रह्मतेजोभिचारं च वाञ्छतां पशवः श्रुताः।। तानेतान्पशून्सप्तमेनुवाके विधायष्टमे पुनर्ब्रह्मवर्चसकामादीनां पश्वन्तराणि विधास्यन्नादौ कस्यचित्पशोर्विधानाय प्रस्तौति असावादित्य इति। आदित्यविषये बहवः प्रायश्चित्तयः कल्पयुगादिभेदेन व्यवस्थापनीयाः। विधत्ते यो ब्रह्मवर्चसकाम इति। खादिरं बाधितुं विधत्ते बैल्षो यूपो भवतीति। श्रीसूक्तेन बिल्वोत्पत्तिराम्नायते“आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वः” इति। अस्यामर्थः हे आदित्यवर्णे लक्ष्मि प्रथममुत्पन्नस्यादित्यस्य तपसः संतापरूपात्मकाशादध्यूर्ध्वं तव प्रियो बिल्ववृक्षो जात इति। ततः सौर्या वशाया बैल्वे यूपे सति सूर्यबिल्वयोः सहोदरत्वात्सयोनित्वम्। तेन च ब्रह्यवर्चसमपि सयोन्येव संपद्यते। स्वपित्रादीना यरयां वेदशाखायामध्ययनानुष्ठानादिप्रवृत्तिस्तत्रैव स्वस्यापि प्रवृत्तिर्ब्रह्मवर्चसस्य सयोनित्वम्। अभिचरतः कवित्पशुं विधत्ते
ब्राह्मणस्पत्यामिति। पिड़्गलवर्णकर्णयुक्ता बभ्रुकर्णी। तस्य पशोः प्राच्याड़्गं पुरोडाशं विधत्ते वारुणामिति। एतदनुष्ठानेन भ्रातृव्यस्य प्रथमं रोगमुत्पाद्य पश्चातब्रह्मणा ब्रह्मणस्पतिदेवताकेन कर्मणा हिनस्ति। ब्रह्मणश्चतुर्मुखस्य हैमवर्णत्वाद्वभ्रुकर्ण्या ब्रह्मरूपत्वमित्यभिप्रेत्य पशुविशेषणं प्रशंसवि
"बरुभ्कर्णीति। पूर्ववच्चोदकप्राप्तं बाधितुं विधत्ते स्फ्यो यूप इति। अग्निष्टोमादिमहायज्ञप्राप्तिकामिनः पशुं विधत्ते वैष्णवमिति। राजसूये वैष्णवं त्रिकपालं वामनो दक्षिणेत्युक्तत्वाद्वामनस्य विष्णुदेवत्यत्वम्। विधत्त त्वाष्ट्रं वडवमिति। यथा मनुष्येषु यत्र क्वापि पुंसः स्तनवृध्द्यां सत्यां श्मश्रुनिर्गमनात्पाग्योषित्वभ्रमो भवति तद्वदश्वेष्वपि केनाप्यवयवसंनिवेशविशेषेण यस्मिन्पुंस्येवाश्वे योषित्वबुद्धिरितरेषामश्वानां भवति। अत एव ते तेश्वास्तदा तदा तमश्वमारोहन्ति सोयमिदृशोश्वो वडवः। स च त्वष्टुः प्रियः। रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोतीति श्रुतत्वान्मिथुनप्रजयनयितृत्वम्। पशुविशेषणं प्रशंसति प्रजा हि वा इति। यदा स्त्रीलक्षणदर्शनेनास्मिन्पशौ स्त्रीत्वबुद्ध्या प्रजाः पशवश्च प्रविशन्ति, तत्र प्रजान प्रवेशो नामापत्योत्पत्तये प्रौढं समीचीनमश्वमानीय तत्रारोहयितृत्वाय प्रवृत्तिः, पशूनां प्रवेशो नाम योषित्वभ्रान्त्या तदारोहृणम्, अथ तदानीं प्रजापशुप्रवृत्तेरेष स्वतः पुमानमपि सन्स्त्रीनामधारी वडवो भवति। तदालम्भनेन साक्षादेव शीघ्रमेव प्रजापशून्प्राप्नोति। परकीयसेनायामीदृशमेव शूरसमं हनिष्यामीति स्वामिनोग्रे यः प्रतिज्ञां कर्तृमिच्छति तस्य पशुं विधत्ते। यद्वा संधिकामिनः पशुं विधत्ते"
"मैत्र श्वेतमिति। एनं प्रतिज्ञावन्तं मित्रेण कार्यसाधकेन सहकारिणा संनयति योजयति। यजमानेन यूपः संमित इति प्रकृतौ यच्छ्रुतं तदपवदितुं परिमाणाधिक्यं विधत्त विशालो भवतीति। एनं प्रतिज्ञाकारिणं व्यवसाययत्येव धैर्यमुत्पाद्य स्वकार्यनिश्चयवन्तमेव करोति। अथवैनं संधिकामिनं संधिघटकत्वेन परो राजामित्रमेवेत्येतादृशं निश्चयवन्तं करोति। विधत्ते प्राजापत्यमिति। सर्वस्रष्टृत्वेन वृष्टेरपि स्रष्टृत्वात्तदीशितृत्वम्। धनच्छन्ने सवितरि तीव्रवृष्टिवेलायामन्धकाराभाससादृश्यमन्ति, तदभिप्रेत्य पशुविशेषणं प्रशंसति कृष्णो भवतीति। कृत्स्नशरीरे कार्ष्ण्यप्राप्तावुदराद्यधस्तनप्रदेशविशेषेषश्वैत्यमिश्रणं विधत्ते शबलो भवतीति। श्वैत्यस्य मालिन्यविन्यविरोधित्वाद्विद्युत्साम्यम्। कर्णसमीप एवावनतशृङ्गत्वं विधत्ते अवाशृङ्गो भवतीति। अधोमुखत्वेन वृष्टिधारासमत्वं द्रष्टव्यम्।। इति श्रीमत्सायणचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्ण"
यजुर्वेदीयैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके अष्टमोऽनुवाकः ।। ८।।