अनुवाकः 8 TS 2.1.8

(A8)

(अ॒सौ - शृ॒णाति॑ - मिथु॒नानां᳚ - नयति - यच्छति)

अनुवाकः 8 - Complete Audio

TS 2.1.8 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑
PS1.2 दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ताꣳ
PS1.3 सौ॒रीꣳ श्वे॒तां ॅव॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न्
PS1.4 रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑
PS1.5 ए॒ताꣳ सौ॒रीꣳ श्वे॒तां ॅव॒शामा
PS1.6 ल॑भेता॒मुमे॒वा ऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑
PS1.7 धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं
PS1.8 द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्॒.वो
PS1.9 यूपो॑ भवत्य॒सौ- [ ]
PS2.1 वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑
PS2.2 बि॒ल्व॑ उद॑तिष्ठ॒थ् सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑
PS2.3 रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेता-भि॒चर॑न्.
PS2.4 वारु॒णं दश॑कपालं पु॒रस्ता॒न्-निर्व॑पे॒द्-वरु॑णेनै॒व भ्रातृ॑व्यं
PS2.5 ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी
PS2.6 भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्‌यै॒
PS2.7 स्फ्यो यूपो॑ भवति॒ वज्रो॒
PS2.8 वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र
PS2.9 ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णा
PS2.10 - [ ]
PS3.1 -त्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं॑
PS3.2 ॅवैष्ण॒वं ॅवा॑म॒नमा ल॑भेत॒ यं
PS3.3 ॅय॒ज्ञो नोप॒नमे॒द्-विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व
PS3.4 स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
PS3.5 ए॒वास्मै॑ य॒ज्ञ्ं प्र य॑च्छ॒त्युपै॑नं
PS3.6 ॅय॒ज्ञो न॑मति वाम॒नो भ॑वति
PS3.7 वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै
PS3.8 त्वा॒ष्ट्रं ॅव॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒
PS3.9 वै प॑शू॒नां मि॑थु॒नानां᳚ -
PS3.10 [ ]
PS4.1 प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS4.2 धावति॒ स ए॒वास्मै॑ प॒शून्
PS4.3 मि॑थु॒नान् प्र ज॑नयति प्र॒जा
PS4.4 हि वा ए॒तस्मि॑न् प॒शवः॒
PS4.5 प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्‌सन् व॑ड॒बः
PS4.6 सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे
PS4.7 मै॒त्रꣳ श्वे॒तमा ल॑भेत संग्रा॒मे
PS4.8 संॅय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑
PS4.9 भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑
PS4.10 मि॒त्रेण॒ सं न॑यति -
PS4.11 [ ]
PS5.1 विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं
PS5.2 कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै
PS5.3 वृष्‌ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑
PS5.4 भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑
PS5.5 प॒र्जन्यं॑ ॅवर्.षयति कृ॒ष्णो भ॑वत्ये॒तद्वै
PS5.6 वृष्‌ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑
PS5.7 रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑
PS5.8 जनयि॒त्वा व॑र्.षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒
PS5.9 नि य॑च्छति ( )

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.1.8.1 TS 2.1.8.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ताꣳ सौ॒रीꣳ श्वे॒तां ॅव॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ताꣳ सौ॒रीꣳ श्वे॒तां ॅव॒शामा ल॑भेता॒मुमे॒वा ऽऽ*दि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्॒.वो यूपो॑ भवत्य॒सौ- [ ]
पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । तस्मै᳚ । दे॒वाः । प्राय॑श्चित्तिम् । ऐ॒च्छ॒न्न् । तस्मै᳚ । ए॒ताम् । सौ॒रीम् । श्वे॒ताम् । व॒शाम् । एति॑ । अ॒ल॒भ॒न्त॒ । तया᳚ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । अ॒द॒धुः॒ । यः । ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताम् । सौ॒रीम् । श्वे॒ताम् । व॒शाम् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । ब॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । बै॒ल्॒.वः । यूपः॑ । भ॒व॒ति॒ । अ॒सौ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे प्रथमप्रपाठकेऽष्टमोनुवाकः) ।ब्रह्मतेजः प्रजांवृष्टिमन्नं ग्रामं तथा पुनः। ब्रह्मतेजोभिचारं च वाञ्छतां पशवः श्रुताः।। तानेतान्पशून्सप्तमेनुवाके विधायष्टमे पुनर्ब्रह्मवर्चसकामादीनां पश्वन्तराणि विधास्यन्नादौ कस्यचित्पशोर्विधानाय प्रस्तौति असावादित्य इति। आदित्यविषये बहवः प्रायश्चित्तयः कल्पयुगादिभेदेन व्यवस्थापनीयाः। विधत्ते यो ब्रह्मवर्चसकाम इति। खादिरं बाधितुं विधत्ते बैल्षो यूपो भवतीति। श्रीसूक्तेन बिल्वोत्पत्तिराम्नायते“आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वः” इति। अस्यामर्थः हे आदित्यवर्णे लक्ष्मि प्रथममुत्पन्नस्यादित्यस्य तपसः संतापरूपात्मकाशादध्यूर्ध्वं तव प्रियो बिल्ववृक्षो जात इति। ततः सौर्या वशाया बैल्वे यूपे सति सूर्यबिल्वयोः सहोदरत्वात्सयोनित्वम्। तेन च ब्रह्यवर्चसमपि सयोन्येव संपद्यते। स्वपित्रादीना यरयां वेदशाखायामध्ययनानुष्ठानादिप्रवृत्तिस्तत्रैव स्वस्यापि प्रवृत्तिर्ब्रह्मवर्चसस्य सयोनित्वम्। अभिचरतः कवित्पशुं विधत्ते

ब्राह्मणस्पत्यामिति। पिड़्गलवर्णकर्णयुक्ता बभ्रुकर्णी। तस्य पशोः प्राच्याड़्गं पुरोडाशं विधत्ते वारुणामिति। एतदनुष्ठानेन भ्रातृव्यस्य प्रथमं रोगमुत्पाद्य पश्चातब्रह्मणा ब्रह्मणस्पतिदेवताकेन कर्मणा हिनस्ति। ब्रह्मणश्चतुर्मुखस्य हैमवर्णत्वाद्वभ्रुकर्ण्या ब्रह्मरूपत्वमित्यभिप्रेत्य पशुविशेषणं प्रशंसवि

"बरुभ्कर्णीति। पूर्ववच्चोदकप्राप्तं बाधितुं विधत्ते स्फ्यो यूप इति। अग्निष्टोमादिमहायज्ञप्राप्तिकामिनः पशुं विधत्ते वैष्णवमिति। राजसूये वैष्णवं त्रिकपालं वामनो दक्षिणेत्युक्तत्वाद्वामनस्य विष्णुदेवत्यत्वम्। विधत्त त्वाष्ट्रं वडवमिति। यथा मनुष्येषु यत्र क्वापि पुंसः स्तनवृध्द्यां सत्यां श्मश्रुनिर्गमनात्पाग्योषित्वभ्रमो भवति तद्वदश्वेष्वपि केनाप्यवयवसंनिवेशविशेषेण यस्मिन्पुंस्येवाश्वे योषित्वबुद्धिरितरेषामश्वानां भवति। अत एव ते तेश्वास्तदा तदा तमश्वमारोहन्ति सोयमिदृशोश्वो वडवः। स च त्वष्टुः प्रियः। रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोतीति श्रुतत्वान्मिथुनप्रजयनयितृत्वम्। पशुविशेषणं प्रशंसति प्रजा हि वा इति। यदा स्त्रीलक्षणदर्शनेनास्मिन्पशौ स्त्रीत्वबुद्ध्या प्रजाः पशवश्च प्रविशन्ति, तत्र प्रजान प्रवेशो नामापत्योत्पत्तये प्रौढं समीचीनमश्वमानीय तत्रारोहयितृत्वाय प्रवृत्तिः, पशूनां प्रवेशो नाम योषित्वभ्रान्त्या तदारोहृणम्, अथ तदानीं प्रजापशुप्रवृत्तेरेष स्वतः पुमानमपि सन्स्त्रीनामधारी वडवो भवति। तदालम्भनेन साक्षादेव शीघ्रमेव प्रजापशून्प्राप्नोति। परकीयसेनायामीदृशमेव शूरसमं हनिष्यामीति स्वामिनोग्रे यः प्रतिज्ञां कर्तृमिच्छति तस्य पशुं विधत्ते। यद्वा संधिकामिनः पशुं विधत्ते"

"मैत्र श्वेतमिति। एनं प्रतिज्ञावन्तं मित्रेण कार्यसाधकेन सहकारिणा संनयति योजयति। यजमानेन यूपः संमित इति प्रकृतौ यच्छ्रुतं तदपवदितुं परिमाणाधिक्यं विधत्त विशालो भवतीति। एनं प्रतिज्ञाकारिणं व्यवसाययत्येव धैर्यमुत्पाद्य स्वकार्यनिश्चयवन्तमेव करोति। अथवैनं संधिकामिनं संधिघटकत्वेन परो राजामित्रमेवेत्येतादृशं निश्चयवन्तं करोति। विधत्ते प्राजापत्यमिति। सर्वस्रष्टृत्वेन वृष्टेरपि स्रष्टृत्वात्तदीशितृत्वम्। धनच्छन्ने सवितरि तीव्रवृष्टिवेलायामन्धकाराभाससादृश्यमन्ति, तदभिप्रेत्य पशुविशेषणं प्रशंसति कृष्णो भवतीति। कृत्स्नशरीरे कार्ष्ण्यप्राप्तावुदराद्यधस्तनप्रदेशविशेषेषश्वैत्यमिश्रणं विधत्ते शबलो भवतीति। श्वैत्यस्य मालिन्यविन्यविरोधित्वाद्विद्युत्साम्यम्। कर्णसमीप एवावनतशृङ्गत्वं विधत्ते अवाशृङ्गो भवतीति। अधोमुखत्वेन वृष्टिधारासमत्वं द्रष्टव्यम्।। इति श्रीमत्सायणचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्ण"

यजुर्वेदीयैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे प्रथमप्रपाठके अष्टमोऽनुवाकः ।। ८।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 असावादित्य इत्यादि ॥ सौरीमिति । 'सूर्यतिष्यागत्स्य' इति यलोपः ॥
2 बभ्रुकर्णी कपिलश्यामकर्णी । 'नासिकोदर' इत्यादिना ङीष्, 'सतिशिष्टत्वात्तेन बहुव्रीहिस्वरो बाध्यते । ब्रह्मणा कर्मणा स्तृणुते छादयति हिनस्तीत्यर्थः ॥
3 स्फ्य इत्यादि ॥ व्याख्यातम् ॥
4 वामनो ह्रस्वाङ्गः । यं यज्ञ इति ॥ अनुष्ठातुं शक्तो न भवतीति । यज्ञो नित्यः यज्ञफलं वा यन्नोपगच्छति ॥
5 वडबमिति ॥ यं पुमांसं सन्तमारोहन्ति बडबामिव[सः]अविद्यमानस्त्रीगुणो वडबः । पशूनां तन्मिथुनानां च त्वष्टा प्रजनयिता । प्रजा हीति । प्रजाश्च पशवश्च एतस्मिन् प्रविष्टाः सूक्ष्मरूपेण यदैवम् । अथैवं सति एषोऽश्वः पुमान् सन् वडबो भवति तस्माद्वडबस्यालम्भनेन साक्षात् अव्यवधानेनैव प्रजाः पशूंश्चावरुन्धे ॥
6 समयकाम इति ॥ आर्थीयैस्सुहृद्भिरैकमत्यं समयः । शत्रुभिस्सन्धिरित्यन्ये । सन्नयति संश्लेषयति । विशाल इति । विकटशृङ्गः । 'वेश्शालच्छङ्कटचौ' इति शालच् । व्यवसाययत्येवेति मित्रलाभेन कृतोद्योगमेनं करोति ॥
7 ईशे इति ॥ 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
8 शबलो हरितवर्णः । कृष्णश्वेतवर्ण इत्येके । अवाशृङ्गः अवनतशृङ्गः । छान्दसं दीर्घत्वम् । यद्वा - अवाक्छृङ्गः । छान्दसो वर्णलोपः, निरुदकादिर्द्रष्टव्यः । नियच्छति न्यक्पातयति ॥
इति द्वितीये प्रथमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.1.8.2 TS 2.1.8.2
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ् सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेता-भि॒चर॑न्. वारु॒णं दश॑कपालं पु॒रस्ता॒न्-निर्व॑पे॒द्-वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्‌यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णा - [ ]
पदपाठः (Word-by-word)
वै । आ॒दि॒त्यः । यतः॑ । अजा॑यत । ततः॑ । बि॒ल्वः॑ । उदिति॑ । अ॒ति॒ष्ठ॒त् । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । ब्रा॒ह्म॒ण॒स्प॒त्यामिति॑ ब्राह्मणः - प॒त्याम् । ब॒भ्रु॒क॒र्णीमिति॑ बभ्रु - क॒र्णीम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि - चरन्॑ । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । पु॒रस्ता᳚त् । निरिति॑ । व॒पे॒त् । वरु॑णेन । ए॒व । भ्रातृ॑व्यम् । ग्रा॒ह॒यि॒त्वा । ब्रह्म॑णा । स्तृ॒णु॒ते॒ । ब॒भ्रु॒क॒र्णीति॑ बभ्रु - क॒र्णी । भ॒व॒ति॒ । ए॒तत् । वै । ब्रह्म॑णः । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.1.8.3 TS 2.1.8.3
-त्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं॑ ॅवैष्ण॒वं ॅवा॑म॒नमा ल॑भेत॒ यं ॅय॒ज्ञो नोप॒नमे॒द्-विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञ्ं प्र य॑च्छ॒त्युपै॑नं ॅय॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं ॅव॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानां᳚ - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः । भि॒नत्ति॑ । ए॒व । ए॒न॒म् । वै॒ष्ण॒वम् । वा॒म॒नम् । एति॑ । ल॒भे॒त॒ । यम् । य॒ज्ञ्ः । न । उ॒प॒नमे॒दित्यु॑प-नमे᳚त् । विष्णुः॑ । वै । य॒ज्ञ्ः । विष्णु᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । य॒ज्ञ्म् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । य॒ज्ञ्ः । न॒म॒ति॒ । वा॒म॒नः । भ॒व॒ति॒ । वै॒ष्ण॒वः । हि । ए॒षः । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । त्वा॒ष्ट्रम् । व॒ड॒बम् । एति॑ । ल॒भे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.1.8.4 TS 2.1.8.4
प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न् प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्‌सन् व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्रꣳ श्वे॒तमा ल॑भेत संग्रा॒मे संॅय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति - [ ]
पदपाठः (Word-by-word)
प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता । त्वष्टा॑रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒शून् । मि॒थु॒नान् । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒जेति॑ प्र - जा । हि । वै । ए॒तस्मिन्न्॑ । प॒शवः॑ । प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ । अथ॑ । ए॒षः । पुमान्॑ । सन्न् । व॒ड॒बः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जामिति॑ प्र -जाम् । प॒शून् । अवेति॑ । रु॒न्धे॒ । मै॒त्रम् । श्वे॒तम् । एति॑ । ल॒भे॒त॒ । स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे । संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । स॒म॒यका॑म॒ इति॑ सम॒य - का॒मः॒ । मि॒त्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । मि॒त्रेण॑ । समिति॑ । न॒य॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.1.8.5 TS 2.1.8.5
विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्‌ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ ॅवर्.षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्‌ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्.षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ( ) ॥
पदपाठः (Word-by-word)
वि॒शा॒ल इति॑ वि - शा॒लः । भ॒व॒ति॒ । व्यव॑सायय॒तीति॑ वि - अव॑साययति । ए॒व । ए॒न॒म् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । कृ॒ष्णम् । एति॑ । ल॒भे॒त॒ । वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । वृष्ट्याः᳚ । ई॒शे॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । प॒र्जन्य᳚म् । व॒र्॒.ष॒य॒ति॒ । कृ॒ष्णः । भ॒व॒ति॒ । ए॒तत् । वै । वृष्‌ट्यै᳚ । रू॒पम् । रू॒पेण॑ । ए॒व । वृष्टि᳚म् । अवेति॑ । रु॒न्धे॒ । श॒बलः॑ । भ॒व॒ति॒ । वि॒द्युत॒मिति॑ वि - द्युत᳚म् । ए॒व । अ॒स्मै॒ । ज॒न॒यि॒त्वा । व॒र्.॒ष॒य॒त॒ । अ॒वा॒शृ॒ङ्गः । भ॒व॒ति॒ । वृष्टि᳚म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ ( ) ॥
पदसंख्या: 50