-नं॑ पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्रवि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ ना*ऽऽविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमा ल॑भेता॒मुमे॒वादि॒त्यꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त् तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मानꣳ॑ हते ॥
पदपाठः (Word-by-word)
ए॒न॒म् । प॒व॒य॒ति॒ । परा॑ची । वै । ए॒तस्मै᳚ । व्यु॒च्छन्तीति॑ वि-उ॒च्छन्ती᳚ । वीति॑ । उ॒च्छ॒ति॒ । तमः॑ । पा॒प्मान᳚म् । प्रेति॑ । वि॒श॒ति॒ । यस्य॑ । आ॒श्वि॒ने । श॒स्यमा॑ने । सूर्यः॑ । न । आ॒विः । भव॑ति । सौ॒र्यम् । ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् । एति॑ । ल॒भे॒त॒ । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मा॒त् । तमः॑ । पा॒प्मान᳚म् । अपेति॑ । ह॒न्ति॒ । प्र॒तीची᳚ । अ॒स्मै॒ । व्यु॒च्छन्तीति॑ वि - उच्छन्ती᳚ । वीति॑ । उ॒च्छ॒ति॒ । अपेति॑ । तमः॑ । पा॒प्मान᳚म् । ह॒ते॒ ॥